Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.089
वैशम्पायन उवाच॥
पृथामामन्त्र्य गोविन्दः कृत्वा चापि प्रदक्षिणम्। दुर्योधनगृहं शौरिरभ्यगच्छदरिंदमः ॥५-८९-१॥
लक्ष्म्या परमया युक्तं पुरंदरगृहोपमम्। तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैरवारितः ॥५-८९-२॥
ततोऽभ्रघनसङ्काशं गिरिकूटमिवोच्छ्रितम्। श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः ॥५-८९-३॥
तत्र राजसहस्रैश्च कुरुभिश्चाभिसंवृतम्। धार्तराष्ट्रं महाबाहुं ददर्शासीनमासने ॥५-८९-४॥
दुःशासनं च कर्णं च शकुनिं चापि सौबलम्। दुर्योधनसमीपे तानासनस्थान्ददर्श सः ॥५-८९-५॥
अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः। उदतिष्ठत्सहामात्यः पूजयन्मधुसूदनम् ॥५-८९-६॥
समेत्य धार्तराष्ट्रेण सहामात्येन केशवः। राजभिस्तत्र वार्ष्णेयः समागच्छद्यथावयः ॥५-८९-७॥
तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम्। विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः ॥५-८९-८॥
तस्मिन्गां मधुपर्कं च उपहृत्य जनार्दने। निवेदयामास तदा गृहान्राज्यं च कौरवः ॥५-८९-९॥
तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम्। उपासां चक्रिरे सर्वे कुरवो राजभिः सह ॥५-८९-१०॥
ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम्। न्यमन्त्रयद्भोजनेन नाभ्यनन्दच्च केशवः ॥५-८९-११॥
ततो दुर्योधनः कृष्णमब्रवीद्राजसंसदि। मृदुपूर्वं शठोदर्कं कर्णमाभाष्य कौरवः ॥५-८९-१२॥
कस्मादन्नानि पानानि वासांसि शयनानि च। त्वदर्थमुपनीतानि नाग्रहीस्त्वं जनार्दन ॥५-८९-१३॥
उभयोश्चाददः साह्यमुभयोश्च हिते रतः। सम्बन्धी दयितश्चासि धृतराष्ट्रस्य माधव ॥५-८९-१४॥
त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः। तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर ॥५-८९-१५॥
स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः। ओघमेघस्वनः काले प्रगृह्य विपुलं भुजम् ॥५-८९-१६॥
अनम्बूकृतमग्रस्तमनिरस्तमसङ्कुलम्। राजीवनेत्रो राजानं हेतुमद्वाक्यमुत्तमम् ॥५-८९-१७॥
कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव हि। कृतार्थं मां सहामात्यस्त्वमर्चिष्यसि भारत ॥५-८९-१८॥
एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम्। न युक्तं भवतास्मासु प्रतिपत्तुमसाम्प्रतम् ॥५-८९-१९॥
कृतार्थं चाकृतार्थं च त्वां वयं मधुसूदन। यतामहे पूजयितुं गोविन्द न च शक्नुमः ॥५-८९-२०॥
न च तत्कारणं विद्मो यस्मिन्नो मधुसूदन। पूजां कृतां प्रीयमाणैर्नामंस्थाः पुरुषोत्तम ॥५-८९-२१॥
वैरं नो नास्ति भवता गोविन्द न च विग्रहः। स भवान्प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति ॥५-८९-२२॥
एवमुक्तः प्रत्युवाच धार्तराष्ट्रं जनार्दनः। अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव ॥५-८९-२३॥
नाहं कामान्न संरम्भान्न द्वेषान्नार्थकारणात्। न हेतुवादाल्लोभाद्वा धर्मं जह्यां कथञ्चन ॥५-८९-२४॥
सम्प्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः। न च सम्प्रीयसे राजन्न चाप्यापद्गता वयम् ॥५-८९-२५॥
अकस्माद्द्विषसे राजञ्जन्मप्रभृति पाण्डवान्। प्रियानुवर्तिनो भ्रातॄन्सर्वैः समुदितान्गुणैः ॥५-८९-२६॥
अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते। धर्मे स्थिताः पाण्डवेयाः कस्तान्किं वक्तुमर्हति ॥५-८९-२७॥
यस्तान्द्वेष्टि स मां द्वेष्टि यस्ताननु स मामनु। ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः ॥५-८९-२८॥
कामक्रोधानुवर्ती हि यो मोहाद्विरुरुत्सते। गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम् ॥५-८९-२९॥
यः कल्याणगुणाञ्ज्ञातीन्मोहाल्लोभाद्दिदृक्षते। सोऽजितात्माजितक्रोधो न चिरं तिष्ठति श्रियम् ॥५-८९-३०॥
अथ यो गुणसम्पन्नान्हृदयस्याप्रियानपि। प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ॥५-८९-३१॥
सर्वमेतदभोक्तव्यमन्नं दुष्टाभिसंहितम्। क्षत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः ॥५-८९-३२॥
एवमुक्त्वा महाबाहुर्दुर्योधनममर्षणम्। निश्चक्राम ततः शुभ्राद्धार्तराष्ट्रनिवेशनात् ॥५-८९-३३॥
निर्याय च महाबाहुर्वासुदेवो महामनाः। निवेशाय ययौ वेश्म विदुरस्य महात्मनः ॥५-८९-३४॥
तमभ्यगच्छद्द्रोणश्च कृपो भीष्मोऽथ बाह्लिकः। कुरवश्च महाबाहुं विदुरस्य गृहे स्थितम् ॥५-८९-३५॥
तेऽभिगम्याब्रुवंस्तत्र कुरवो मधुसूदनम्। निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान्वयम् ॥५-८९-३६॥
तानुवाच महातेजाः कौरवान्मधुसूदनः। सर्वे भवन्तो गच्छन्तु सर्वा मेऽपचितिः कृता ॥५-८९-३७॥
यातेषु कुरुषु क्षत्ता दाशार्हमपराजितम्। अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान् ॥५-८९-३८॥
ततः क्षत्तान्नपानानि शुचीनि गुणवन्ति च। उपाहरदनेकानि केशवाय महात्मने ॥५-८९-३९॥
तैर्तर्पयित्वा प्रथमं ब्राह्मणान्मधुसूदनः। वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्यपि ॥५-८९-४०॥
ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः। विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च ॥५-८९-४१॥