05.090
वैशम्पायन उवाच॥
तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत्। नेदं सम्यग्व्यवसितं केशवागमनं तव ॥५-९०-१॥
अर्थधर्मातिगो मूढः संरम्भी च जनार्दन। मानघ्नो मानकामश्च वृद्धानां शासनातिगः ॥५-९०-२॥
धर्मशास्त्रातिगो मन्दो दुरात्मा प्रग्रहं गतः। अनेयः श्रेयसां पापो धार्तराष्ट्रो जनार्दन ॥५-९०-३॥
कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वशङ्कितः। अकर्ता चाकृतज्ञश्च त्यक्तधर्मः प्रियानृतः ॥५-९०-४॥
एतैश्चान्यैश्च बहुभिर्दोषैरेष समन्वितः। त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति ॥५-९०-५॥
सेनासमुदयं दृष्ट्वा पार्थिवं मधुसूदन। कृतार्थं मन्यते बाल आत्मानमविचक्षणः ॥५-९०-६॥
एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम्। धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति ॥५-९०-७॥
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे। भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः ॥५-९०-८॥
निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन। भीष्मद्रोणकृपान्पार्था न शक्ताः प्रतिवीक्षितुम् ॥५-९०-९॥
संविच्च धार्तराष्ट्राणां सर्वेषामेव केशव। शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः ॥५-९०-१०॥
न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम्। इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम् ॥५-९०-११॥
यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन। न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः ॥५-९०-१२॥
अविजानत्सु मूढेषु निर्मर्यादेषु माधव। न त्वं वाक्यं ब्रुवन्युक्तश्चाण्डालेषु द्विजो यथा ॥५-९०-१३॥
सोऽयं बलस्थो मूढश्च न करिष्यति ते वचः। तस्मिन्निरर्थकं वाक्यमुक्तं सम्पत्स्यते तव ॥५-९०-१४॥
तेषां समुपविष्टानां सर्वेषां पापचेतसाम्। तव मध्यावतरणं मम कृष्ण न रोचते ॥५-९०-१५॥
दुर्बुद्धीनामशिष्टानां बहूनां पापचेतसाम्। प्रतीपं वचनं मध्ये तव कृष्ण न रोचते ॥५-९०-१६॥
अनुपासितवृद्धत्वाच्छ्रिया मोहाच्च दर्पितः। वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति ॥५-९०-१७॥
बलं बलवदप्यस्य यदि वक्ष्यसि माधव। त्वय्यस्य महती शङ्का न करिष्यति ते वचः ॥५-९०-१८॥
नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः। इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन ॥५-९०-१९॥
तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु। समर्थमपि ते वाक्यमसमर्थं भविष्यति ॥५-९०-२०॥
मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो; रथाश्वयुक्तस्य बलस्य मूढः। दुर्योधनो मन्यते वीतमन्युः; कृत्स्ना मयेयं पृथिवी जितेति ॥५-९०-२१॥
आशंसते धृतराष्ट्रस्य पुत्रो; महाराज्यमसपत्नं पृथिव्याम्। तस्मिञ्शमः केवलो नोपलभ्यो; बद्धं सन्तमागतं मन्यतेऽर्थम् ॥५-९०-२२॥
पर्यस्तेयं पृथिवी कालपक्वा; दुर्योधनार्थे पाण्डवान्योद्धुकामाः। समागताः सर्वयोधाः पृथिव्यां; राजानश्च क्षितिपालैः समेताः ॥५-९०-२३॥
सर्वे चैते कृतवैराः पुरस्ता; त्त्वया राजानो हृतसाराश्च कृष्ण। तवोद्वेगात्संश्रिता धार्तराष्ट्रा; न्सुसंहताः सह कर्णेन वीराः ॥५-९०-२४॥
त्यक्तात्मानः सह दुर्योधनेन; सृष्टा योद्धुं पाण्डवान्सर्वयोधाः। तेषां मध्ये प्रविशेथा यदि त्वं; न तन्मतं मम दाशार्ह वीर ॥५-९०-२५॥
तेषां समुपविष्टानां बहूनां दुष्टचेतसाम्। कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन ॥५-९०-२६॥
सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः। प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन् ॥५-९०-२७॥
या मे प्रीतिः पाण्डवेषु भूयः सा त्वयि माधव। प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम् ॥५-९०-२८॥