05.091
भगवानुवाच॥
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः। यथा वाच्यस्त्वद्विधेन सुहृदा मद्विधः सुहृत् ॥५-९१-१॥
धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते। तथा वचनमुक्तोऽस्मि त्वयैतत्पितृमातृवत् ॥५-९१-२॥
सत्यं प्राप्तं च युक्तं चाप्येवमेव यथात्थ माम्। शृणुष्वागमने हेतुं विदुरावहितो भव ॥५-९१-३॥
दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम्। सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान् ॥५-९१-४॥
पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम्। यो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम् ॥५-९१-५॥
धर्मकार्यं यतञ्शक्त्या न चेच्छक्नोति मानवः। प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः ॥५-९१-६॥
मनसा चिन्तयन्पापं कर्मणा नाभिरोचयन्। न प्राप्नोति फलं तस्य एवं धर्मविदो विदुः ॥५-९१-७॥
सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया। कुरूणां सृञ्जयानां च सङ्ग्रामे विनशिष्यताम् ॥५-९१-८॥
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता। कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः ॥५-९१-९॥
व्यसनैः क्लिश्यमानं हि यो मित्रं नाभिपद्यते। अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः ॥५-९१-१०॥
आ केशग्रहणान्मित्रमकार्यात्संनिवर्तयन्। अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम् ॥५-९१-११॥
तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम्। धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति ॥५-९१-१२॥
हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च। पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया ॥५-९१-१३॥
हिते प्रयतमानं मां शङ्केद्दुर्योधनो यदि। हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति ॥५-९१-१४॥
ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते। सर्वयत्नेन मध्यस्थं न तन्मित्रं विदुर्बुधाः ॥५-९१-१५॥
न मां ब्रूयुरधर्मज्ञा मूढा असुहृदस्तथा। शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान् ॥५-९१-१६॥
उभयोः साधयन्नर्थमहमागत इत्युत। तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम् ॥५-९१-१७॥
मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम्। न चेदादास्यते बालो दिष्टस्य वशमेष्यति ॥५-९१-१८॥
अहापयन्पाण्डवार्थं यथाव; च्छमं कुरूणां यदि चाचरेयम्। पुण्यं च मे स्याच्चरितं महार्थं; मुच्येरंश्च कुरवो मृत्युपाशात् ॥५-९१-१९॥
अपि वाचं भाषमाणस्य काव्यां; धर्मारामामर्थवतीमहिंस्राम्। अवेक्षेरन्धार्तराष्ट्राः समर्थां; मां च प्राप्तं कुरवः पूजयेयुः ॥५-९१-२०॥
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः। क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः ॥५-९१-२१॥
वैशम्पायन उवाच॥
इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा। शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः ॥५-९१-२२॥