Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.092
वैशम्पायन उवाच॥
तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा। शिवा नक्षत्रसम्पन्ना सा व्यतीयाय शर्वरी ॥५-९२-१॥
धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः। शृण्वतो विविधा वाचो विदुरस्य महात्मनः ॥५-९२-२॥
कथाभिरनुरूपाभिः कृष्णस्यामिततेजसः। अकामस्येव कृष्णस्य सा व्यतीयाय शर्वरी ॥५-९२-३॥
ततस्तु स्वरसम्पन्ना बहवः सूतमागधाः। शङ्खदुन्दुभिनिर्घोषैः केशवं प्रत्यबोधयन् ॥५-९२-४॥
तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम्। सर्वमावश्यकं चक्रे प्रातःकार्यं जनार्दनः ॥५-९२-५॥
कृतोदकार्यजप्यः स हुताग्निः समलङ्कृतः। तत आदित्यमुद्यन्तमुपातिष्ठत माधवः ॥५-९२-६॥
अथ दुर्योधनः कृष्णं शकुनिश्चापि सौबलः। सन्ध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम् ॥५-९२-७॥
आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम्। कुरूंश्च भीष्मप्रमुखान्राज्ञः सर्वांश्च पार्थिवान् ॥५-९२-८॥
त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः। तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना ॥५-९२-९॥
ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः। ददौ हिरण्यं वासांसि गाश्चाश्वांश्च परन्तपः ॥५-९२-१०॥
विसृष्टवन्तं रत्नानि दाशार्हमपराजितम्। तिष्ठन्तमुपसङ्गम्य ववन्दे सारथिस्तदा ॥५-९२-११॥
तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः। महाभ्रघननिर्घोषं सर्वरत्नविभूषितम् ॥५-९२-१२॥
अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः। कौस्तुभं मणिमामुच्य श्रिया परमया ज्वलन् ॥५-९२-१३॥
कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः। आतिष्ठत रथं शौरिः सर्वयादवनन्दनः ॥५-९२-१४॥
अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित्। सर्वप्राणभृतां श्रेष्ठं सर्वधर्मभृतां वरम् ॥५-९२-१५॥
ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः। द्वितीयेन रथेनैनमन्वयातां परन्तपम् ॥५-९२-१६॥
सात्यकिः कृतवर्मा च वृष्णीनां च महारथाः। पृष्ठतोऽनुययुः कृष्णं रथैरश्वैर्गजैरपि ॥५-९२-१७॥
तेषां हेमपरिष्कारा युक्ताः परमवाजिभिः। गच्छतां घोषिणश्चित्राश्चारु बभ्राजिरे रथाः ॥५-९२-१८॥
संमृष्टसंसिक्तरजः प्रतिपेदे महापथम्। राजर्षिचरितं काले कृष्णो धीमाञ्श्रिया ज्वलन् ॥५-९२-१९॥
ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः। शङ्खाश्च दध्मिरे तत्र वाद्यान्यन्यानि यानि च ॥५-९२-२०॥
प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः। परिवार्य रथं शौरेरगच्छन्त परन्तपाः ॥५-९२-२१॥
ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः। असिप्रासायुधधराः कृष्णस्यासन्पुरःसराः ॥५-९२-२२॥
गजाः परःशतास्तत्र वराश्चाश्वाः सहस्रशः। प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम् ॥५-९२-२३॥
पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम्। सवृद्धबालं सस्त्रीकं रथ्यागतमरिंदमम् ॥५-९२-२४॥
वेदिकापाश्रिताभिश्च समाक्रान्तान्यनेकशः। प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत ॥५-९२-२५॥
सम्पूज्यमानः कुरुभिः संशृण्वन्विविधाः कथाः। यथार्हं प्रतिसत्कुर्वन्प्रेक्षमाणः शनैर्ययौ ॥५-९२-२६॥
ततः सभां समासाद्य केशवस्यानुयायिनः। सशङ्खैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन् ॥५-९२-२७॥
ततः सा समितिः सर्वा राज्ञाममिततेजसाम्। सम्प्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया ॥५-९२-२८॥
ततोऽभ्याशगते कृष्णे समहृष्यन्नराधिपाः। श्रुत्वा तं रथनिर्घोषं पर्जन्यनिनदोपमम् ॥५-९२-२९॥
आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम्। अवतीर्य रथाच्छौरिः कैलासशिखरोपमात् ॥५-९२-३०॥
नगमेघप्रतीकाशां ज्वलन्तीमिव तेजसा। महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः ॥५-९२-३१॥
पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः। ज्योतींष्यादित्यवद्राजन्कुरून्प्रच्छादयञ्श्रिया ॥५-९२-३२॥
अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ। वृष्णयः कृतवर्मा च आसन्कृष्णस्य पृष्ठतः ॥५-९२-३३॥
धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादयस्ततः। आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ॥५-९२-३४॥
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्महामनाः। सहैव भीष्मद्रोणाभ्यामुदतिष्ठन्महायशाः ॥५-९२-३५॥
उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे। तानि राजसहस्राणि समुत्तस्थुः समन्ततः ॥५-९२-३६॥
आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम्। कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात् ॥५-९२-३७॥
स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः। अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावयः ॥५-९२-३८॥
तत्र केशवमानर्चुः सम्यगभ्यागतं सभाम्। राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम् ॥५-९२-३९॥
तत्र तिष्ठन्स दाशार्हो राजमध्ये परन्तपः। अपश्यदन्तरिक्षस्थानृषीन्परपुरञ्जयः ॥५-९२-४०॥
ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषीन्। अभ्यभाषत दाशार्हो भीष्मं शान्तनवं शनैः ॥५-९२-४१॥
पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप। निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसा ॥५-९२-४२॥
नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम्। पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम् ॥५-९२-४३॥
ऋषीञ्शान्तनवो दृष्ट्वा सभाद्वारमुपस्थितान्। त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत् ॥५-९२-४४॥
आसनान्यथ मृष्टानि महान्ति विपुलानि च। मणिकाञ्चनचित्राणि समाजह्रुस्ततस्ततः ॥५-९२-४५॥
तेषु तत्रोपविष्टेषु गृहीतार्घेषु भारत। निषसादासने कृष्णो राजानश्च यथासनम् ॥५-९२-४६॥
दुःशासनः सात्यकये ददावासनमुत्तमम्। विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे ॥५-९२-४७॥
अविदूरेऽथ कृष्णस्य कर्णदुर्योधनावुभौ। एकासने महात्मानौ निषीदतुरमर्षणौ ॥५-९२-४८॥
गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः। निषसादासने राजा सहपुत्रो विशां पते ॥५-९२-४९॥
विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे। संस्पृशन्नासनं शौरेर्महामतिरुपाविशत् ॥५-९२-५०॥
चिरस्य दृष्ट्वा दाशार्हं राजानः सर्वपार्थिवाः। अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम् ॥५-९२-५१॥
अतसीपुष्पसङ्काशः पीतवासा जनार्दनः। व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः ॥५-९२-५२॥
ततस्तूष्णीं सर्वमासीद्गोविन्दगतमानसम्। न तत्र कश्चित्किञ्चिद्धि व्याजहार पुमान्क्वचित् ॥५-९२-५३॥