Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.093
वैशम्पायन उवाच॥
तेष्वासीनेषु सर्वेषु तूष्णीम्भूतेषु राजसु। वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः ॥५-९३-१॥
जीमूत इव घर्मान्ते सर्वां संश्रावयन्सभाम्। धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः ॥५-९३-२॥
कुरूणां पाण्डवानां च शमः स्यादिति भारत। अप्रयत्नेन वीराणामेतद्यतितुमागतः ॥५-९३-३॥
राजन्नान्यत्प्रवक्तव्यं तव निःश्रेयसं वचः। विदितं ह्येव ते सर्वं वेदितव्यमरिंदम ॥५-९३-४॥
इदमद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव। श्रुतवृत्तोपसम्पन्नं सर्वैः समुदितं गुणैः ॥५-९३-५॥
कृपानुकम्पा कारुण्यमानृशंस्यं च भारत। तथार्जवं क्षमा सत्यं कुरुष्वेतद्विशिष्यते ॥५-९३-६॥
तस्मिन्नेवंविधे राजन्कुले महति तिष्ठति। त्वन्निमित्तं विशेषेण नेह युक्तमसाम्प्रतम् ॥५-९३-७॥
त्वं हि वारयिता श्रेष्ठः कुरूणां कुरुसत्तम। मिथ्या प्रचरतां तात बाह्येष्वाभ्यन्तरेषु च ॥५-९३-८॥
ते पुत्रास्तव कौरव्य दुर्योधनपुरोगमाः। धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत् ॥५-९३-९॥
अशिष्टा गतमर्यादा लोभेन हृतचेतसः। स्वेषु बन्धुषु मुख्येषु तद्वेत्थ भरतर्षभ ॥५-९३-१०॥
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता। उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति ॥५-९३-११॥
शक्या चेयं शमयितुं त्वं चेदिच्छसि भारत। न दुष्करो ह्यत्र शमो मतो मे भरतर्षभ ॥५-९३-१२॥
त्वय्यधीनः शमो राजन्मयि चैव विशां पते। पुत्रान्स्थापय कौरव्य स्थापयिष्याम्यहं परान् ॥५-९३-१३॥
आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः। हितं बलवदप्येषां तिष्ठतां तव शासने ॥५-९३-१४॥
तव चैव हितं राजन्पाण्डवानामथो हितम्। शमे प्रयतमानस्य मम शासनकाङ्क्षिणाम् ॥५-९३-१५॥
स्वयं निष्कलमालक्ष्य संविधत्स्व विशां पते। सहभूतास्तु भरतास्तवैव स्युर्जनेश्वर ॥५-९३-१६॥
धर्मार्थयोस्तिष्ठ राजन्पाण्डवैरभिरक्षितः। न हि शक्यास्तथाभूता यत्नादपि नराधिप ॥५-९३-१७॥
न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्मभिः। इन्द्रोऽपि देवैः सहितः प्रसहेत कुतो नृपाः ॥५-९३-१८॥
यत्र भीष्मश्च द्रोणश्च कृपः कर्णो विविंशतिः। अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः ॥५-९३-१९॥
सैन्धवश्च कलिङ्गश्च काम्बोजश्च सुदक्षिणः। युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा ॥५-९३-२०॥
सात्यकिश्च महातेजा युयुत्सुश्च महारथः। को नु तान्विपरीतात्मा युध्येत भरतर्षभ ॥५-९३-२१॥
लोकस्येश्वरतां भूयः शत्रुभिश्चाप्रधृष्यताम्। प्राप्स्यसि त्वममित्रघ्न सहितः कुरुपाण्डवैः ॥५-९३-२२॥
तस्य ते पृथिवीपालास्त्वत्समाः पृथिवीपते। श्रेयांसश्चैव राजानः सन्धास्यन्ते परन्तप ॥५-९३-२३॥
स त्वं पुत्रैश्च पौत्रैश्च भ्रातृभिः पितृभिस्तथा। सुहृद्भिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुम् ॥५-९३-२४॥
एतानेव पुरोधाय सत्कृत्य च यथा पुरा। अखिलां भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते ॥५-९३-२५॥
एतैर्हि सहितः सर्वैः पाण्डवैः स्वैश्च भारत। अन्यान्विजेष्यसे शत्रूनेष स्वार्थस्तवाखिलः ॥५-९३-२६॥
तैरेवोपार्जितां भूमिं भोक्ष्यसे च परन्तप। यदि सम्पत्स्यसे पुत्रैः सहामात्यैर्नराधिप ॥५-९३-२७॥
संयुगे वै महाराज दृश्यते सुमहान्क्षयः। क्षये चोभयतो राजन्कं धर्ममनुपश्यसि ॥५-९३-२८॥
पाण्डवैर्निहतैः सङ्ख्ये पुत्रैर्वापि महाबलैः। यद्विन्देथाः सुखं राजंस्तद्ब्रूहि भरतर्षभ ॥५-९३-२९॥
शूराश्च हि कृतास्त्राश्च सर्वे युद्धाभिकाङ्क्षिणः। पाण्डवास्तावकाश्चैव तान्रक्ष महतो भयात् ॥५-९३-३०॥
न पश्येम कुरून्सर्वान्पाण्डवांश्चैव संयुगे। क्षीणानुभयतः शूरान्रथेभ्यो रथिभिर्हतान् ॥५-९३-३१॥
समवेताः पृथिव्यां हि राजानो राजसत्तम। अमर्षवशमापन्ना नाशयेयुरिमाः प्रजाः ॥५-९३-३२॥
त्राहि राजन्निमं लोकं न नश्येयुरिमाः प्रजाः। त्वयि प्रकृतिमापन्ने शेषं स्यात्कुरुनन्दन ॥५-९३-३३॥
शुक्ला वदान्या ह्रीमन्त आर्याः पुण्याभिजातयः। अन्योन्यसचिवा राजंस्तान्पाहि महतो भयात् ॥५-९३-३४॥
शिवेनेमे भूमिपालाः समागम्य परस्परम्। सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम् ॥५-९३-३५॥
सुवाससः स्रग्विणश्च सत्कृत्य भरतर्षभ। अमर्षांश्च निराकृत्य वैराणि च परन्तप ॥५-९३-३६॥
हार्दं यत्पाण्डवेष्वासीत्प्राप्तेऽस्मिन्नायुषः क्षये। तदेव ते भवत्वद्य शश्वच्च भरतर्षभ ॥५-९३-३७॥
बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः। तान्पालय यथान्यायं पुत्रांश्च भरतर्षभ ॥५-९३-३८॥
भवतैव हि रक्ष्यास्ते व्यसनेषु विशेषतः। मा ते धर्मस्तथैवार्थो नश्येत भरतर्षभ ॥५-९३-३९॥
आहुस्त्वां पाण्डवा राजन्नभिवाद्य प्रसाद्य च। भवतः शासनाद्दुःखमनुभूतं सहानुगैः ॥५-९३-४०॥
द्वादशेमानि वर्षाणि वने निर्व्युषितानि नः। त्रयोदशं तथाज्ञातैः सजने परिवत्सरम् ॥५-९३-४१॥
स्थाता नः समये तस्मिन्पितेति कृतनिश्चयाः। नाहास्म समयं तात तच्च नो ब्राह्मणा विदुः ॥५-९३-४२॥
तस्मिन्नः समये तिष्ठ स्थितानां भरतर्षभ। नित्यं सङ्क्लेशिता राजन्स्वराज्यांशं लभेमहि ॥५-९३-४३॥
त्वं धर्ममर्थं युञ्जानः सम्यङ्नस्त्रातुमर्हसि। गुरुत्वं भवति प्रेक्ष्य बहून्क्लेशांस्तितिक्ष्महे ॥५-९३-४४॥
स भवान्मातृपितृवदस्मासु प्रतिपद्यताम्। गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत ॥५-९३-४५॥
पित्रा स्थापयितव्या हि वयमुत्पथमास्थिताः। संस्थापय पथिष्वस्मांस्तिष्ठ राजन्स्ववर्त्मनि ॥५-९३-४६॥
आहुश्चेमां परिषदं पुत्रास्ते भरतर्षभ। धर्मज्ञेषु सभासत्सु नेह युक्तमसाम्प्रतम् ॥५-९३-४७॥
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च। हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥५-९३-४८॥
विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते। न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः । धर्म एतानारुजति यथा नद्यनुकूलजान् ॥५-९३-४९॥
ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते। ते सत्यमाहुर्धर्मं च न्याय्यं च भरतर्षभ ॥५-९३-५०॥
शक्यं किमन्यद्वक्तुं ते दानादन्यज्जनेश्वर। ब्रुवन्तु वा महीपालाः सभायां ये समासते । धर्मार्थौ सम्प्रधार्यैव यदि सत्यं ब्रवीम्यहम् ॥५-९३-५१॥
प्रमुञ्चेमान्मृत्युपाशात्क्षत्रियान्क्षत्रियर्षभ। प्रशाम्य भरतश्रेष्ठ मा मन्युवशमन्वगाः ॥५-९३-५२॥
पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम्। ततः सपुत्रः सिद्धार्थो भुङ्क्ष्व भोगान्परन्तप ॥५-९३-५३॥
अजातशत्रुं जानीषे स्थितं धर्मे सतां सदा। सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप ॥५-९३-५४॥
दाहितश्च निरस्तश्च त्वामेवोपाश्रितः पुनः। इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः ॥५-९३-५५॥
स तत्र निवसन्सर्वान्वशमानीय पार्थिवान्। त्वन्मुखानकरोद्राजन्न च त्वामत्यवर्तत ॥५-९३-५६॥
तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता। राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः ॥५-९३-५७॥
स तामवस्थां सम्प्राप्य कृष्णां प्रेक्ष्य सभागताम्। क्षत्रधर्मादमेयात्मा नाकम्पत युधिष्ठिरः ॥५-९३-५८॥
अहं तु तव तेषां च श्रेय इच्छामि भारत। धर्मादर्थात्सुखाच्चैव मा राजन्नीनशः प्रजाः ॥५-९३-५९॥
अनर्थमर्थं मन्वाना अर्थं वानर्थमात्मनः। लोभेऽतिप्रसृतान्पुत्रान्निगृह्णीष्व विशां पते ॥५-९३-६०॥
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिंदमाः। यत्ते पथ्यतमं राजंस्तस्मिंस्तिष्ठ परन्तप ॥५-९३-६१॥
तद्वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन्। न तत्र कश्चिद्वक्तुं हि वाचं प्राक्रामदग्रतः ॥५-९३-६२॥