Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.094
वैशम्पायन उवाच॥
तस्मिन्नभिहिते वाक्ये केशवेन महात्मना। स्तिमिता हृष्टरोमाण आसन्सर्वे सभासदः ॥५-९४-१॥
कः स्विदुत्तरमेतस्माद्वक्तुमुत्सहते पुमान्। इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः ॥५-९४-२॥
तथा तेषु च सर्वेषु तूष्णीम्भूतेषु राजसु। जामदग्न्य इदं वाक्यमब्रवीत्कुरुसंसदि ॥५-९४-३॥
इमामेकोपमां राजञ्शृणु सत्यामशङ्कितः। तां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे ॥५-९४-४॥
राजा दम्भोद्भवो नाम सार्वभौमः पुराभवत्। अखिलां बुभुजे सर्वां पृथिवीमिति नः श्रुतम् ॥५-९४-५॥
स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान्। ब्राह्मणान्क्षत्रियांश्चैव पृच्छन्नास्ते महारथः ॥५-९४-६॥
अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि। शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वापि शस्त्रभृत् ॥५-९४-७॥
इति ब्रुवन्नन्वचरत्स राजा पृथिवीमिमाम्। दर्पेण महता मत्तः कञ्चिदन्यमचिन्तयन् ॥५-९४-८॥
तं स्म वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाः। प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः ॥५-९४-९॥
प्रतिषिध्यमानोऽप्यसकृत्पृच्छत्येव स वै द्विजान्। अभिमानी श्रिया मत्तस्तमूचुर्ब्राह्मणास्तदा ॥५-९४-१०॥
तपस्विनो महात्मानो वेदव्रतसमन्विताः। उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः ॥५-९४-११॥
अनेकजननं सख्यं ययोः पुरुषसिंहयोः। तयोस्त्वं न समो राजन्भवितासि कदाचन ॥५-९४-१२॥
एवमुक्तः स राजा तु पुनः पप्रच्छ तान्द्विजान्। क्व तौ वीरौ क्वजन्मानौ किङ्कर्माणौ च कौ च तौ ॥५-९४-१३॥
ब्राह्मणा ऊचुः॥
नरो नारायणश्चैव तापसाविति नः श्रुतम्। आयातौ मानुषे लोके ताभ्यां युध्यस्व पार्थिव ॥५-९४-१४॥
श्रूयते तौ महात्मानौ नरनारायणावुभौ। तपो घोरमनिर्देश्यं तप्येते गन्धमादने ॥५-९४-१५॥
राम उवाच॥
स राजा महतीं सेनां योजयित्वा षडङ्गिनीम्। अमृष्यमाणः सम्प्रायाद्यत्र तावपराजितौ ॥५-९४-१६॥
स गत्वा विषमं घोरं पर्वतं गन्धमादनम्। मृगयाणोऽन्वगच्छत्तौ तापसावपराजितौ ॥५-९४-१७॥
तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसन्ततौ। शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ । अभिगम्योपसङ्गृह्य पर्यपृच्छदनामयम् ॥५-९४-१८॥
तमर्चित्वा मूलफलैरासनेनोदकेन च। न्यमन्त्रयेतां राजानं किं कार्यं क्रियतामिति ॥५-९४-१९॥
दम्भोद्भव उवाच॥
बाहुभ्यां मे जिता भूमिर्निहताः सर्वशत्रवः। भवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम् । आतिथ्यं दीयतामेतत्काङ्क्षितं मे चिरं प्रति ॥५-९४-२०॥
नरनारायणावूचतुः॥
अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम। न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः । अन्यत्र युद्धमाकाङ्क्ष्व बहवः क्षत्रियाः क्षितौ ॥५-९४-२१॥
राम उवाच॥
उच्यमानस्तथापि स्म भूय एवाभ्यभाषत। पुनः पुनः क्षम्यमाणः सान्त्व्यमानश्च भारत । दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ ॥५-९४-२२॥
ततो नरस्त्विषीकाणां मुष्टिमादाय कौरव। अब्रवीदेहि युध्यस्व युद्धकामुक क्षत्रिय ॥५-९४-२३॥
सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम्। अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम् ॥५-९४-२४॥
दम्भोद्भव उवाच॥
यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे। एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः ॥५-९४-२५॥
राम उवाच॥
इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत्। दम्भोद्भवस्तापसं तं जिघांसुः सहसैनिकः ॥५-९४-२६॥
तस्य तानस्यतो घोरानिषून्परतनुच्छिदः। कदर्थीकृत्य स मुनिरिषीकाभिरपानुदत् ॥५-९४-२७॥
ततोऽस्मै प्रासृजद्घोरमैषीकमपराजितः। अस्त्रमप्रतिसन्धेयं तदद्भुतमिवाभवत् ॥५-९४-२८॥
तेषामक्षीणि कर्णांश्च नस्तकांश्चैव मायया। निमित्तवेधी स मुनिरिषीकाभिः समर्पयत् ॥५-९४-२९॥
स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम्। पादयोर्न्यपतद्राजा स्वस्ति मेऽस्त्विति चाब्रवीत् ॥५-९४-३०॥
तमब्रवीन्नरो राजञ्शरण्यः शरणैषिणाम्। ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः ॥५-९४-३१॥
मा च दर्पसमाविष्टः क्षेप्सीः कांश्चित्कदाचन। अल्पीयांसं विशिष्टं वा तत्ते राजन्परं हितम् ॥५-९४-३२॥
कृतप्रज्ञो वीतलोभो निरहङ्कार आत्मवान्। दान्तः क्षान्तो मृदुः क्षेमः प्रजाः पालय पार्थिव ॥५-९४-३३॥
अनुज्ञातः स्वस्ति गच्छ मैवं भूयः समाचरेः। कुशलं ब्राह्मणान्पृच्छेरावयोर्वचनाद्भृशम् ॥५-९४-३४॥
ततो राजा तयोः पादावभिवाद्य महात्मनोः। प्रत्याजगाम स्वपुरं धर्मं चैवाचिनोद्भृशम् ॥५-९४-३५॥
सुमहच्चापि तत्कर्म यन्नरेण कृतं पुरा। ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत् ॥५-९४-३६॥
तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते। तावत्त्वं मानमुत्सृज्य गच्छ राजन्धनञ्जयम् ॥५-९४-३७॥
काकुदीकं शुकं नाकमक्षिसन्तर्जनं तथा। सन्तानं नर्तनं घोरमास्यमोदकमष्टमम् ॥५-९४-३८॥
एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः। उन्मत्ताश्च विचेष्टन्ते नष्टसञ्ज्ञा विचेतसः ॥५-९४-३९॥
स्वपन्ते च प्लवन्ते च छर्दयन्ति च मानवाः। मूत्रयन्ते च सततं रुदन्ति च हसन्ति च ॥५-९४-४०॥
असङ्ख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः। त्वमेव भूयो जानासि कुन्तीपुत्रं धनञ्जयम् ॥५-९४-४१॥
नरनारायणौ यौ तौ तावेवार्जुनकेशवौ। विजानीहि महाराज प्रवीरौ पुरुषर्षभौ ॥५-९४-४२॥
यद्येतदेवं जानासि न च मामतिशङ्कसे। आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः ॥५-९४-४३॥
अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदिति। प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः ॥५-९४-४४॥
भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि। तत्तथैवास्तु भद्रं ते स्वार्थमेवानुचिन्तय ॥५-९४-४५॥