Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.095
वैशम्पायन उवाच॥
जामदग्न्यवचः श्रुत्वा कण्वोऽपि भगवानृषिः। दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ॥५-९५-१॥
अक्षयश्चाव्ययश्चैव ब्रह्मा लोकपितामहः। तथैव भगवन्तौ तौ नरनारायणावृषी ॥५-९५-२॥
आदित्यानां हि सर्वेषां विष्णुरेकः सनातनः। अजय्यश्चाव्ययश्चैव शाश्वतः प्रभुरीश्वरः ॥५-९५-३॥
निमित्तमरणास्त्वन्ये चन्द्रसूर्यौ मही जलम्। वायुरग्निस्तथाकाशं ग्रहास्तारागणास्तथा ॥५-९५-४॥
ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा। क्षयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः ॥५-९५-५॥
मुहूर्तमरणास्त्वन्ये मानुषा मृगपक्षिणः। तिर्यग्योन्यश्च ये चान्ये जीवलोकचराः स्मृताः ॥५-९५-६॥
भूयिष्ठेन तु राजानः श्रियं भुक्त्वायुषः क्षये। मरणं प्रतिगच्छन्ति भोक्तुं सुकृतदुष्कृतम् ॥५-९५-७॥
स भवान्धर्मपुत्रेण शमं कर्तुमिहार्हति। पाण्डवाः कुरवश्चैव पालयन्तु वसुन्धराम् ॥५-९५-८॥
बलवानहमित्येव न मन्तव्यं सुयोधन। बलवन्तो हि बलिभिर्दृश्यन्ते पुरुषर्षभ ॥५-९५-९॥
न बलं बलिनां मध्ये बलं भवति कौरव। बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः ॥५-९५-१०॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। मातलेर्दातुकामस्य कन्यां मृगयतो वरम् ॥५-९५-११॥
मतस्त्रैलोक्यराजस्य मातलिर्नाम सारथिः। तस्यैकैव कुले कन्या रूपतो लोकविश्रुता ॥५-९५-१२॥
गुणकेशीति विख्याता नाम्ना सा देवरूपिणी। श्रिया च वपुषा चैव स्त्रियोऽन्याः सातिरिच्यते ॥५-९५-१३॥
तस्याः प्रदानसमयं मातलिः सह भार्यया। ज्ञात्वा विममृशे राजंस्तत्परः परिचिन्तयन् ॥५-९५-१४॥
धिक्खल्वलघुशीलानामुच्छ्रितानां यशस्विनाम्। नराणामृद्धसत्त्वानां कुले कन्याप्ररोहणम् ॥५-९५-१५॥
मातुः कुलं पितृकुलं यत्र चैव प्रदीयते। कुलत्रयं संशयितं कुरुते कन्यका सताम् ॥५-९५-१६॥
देवमानुषलोकौ द्वौ मानसेनैव चक्षुषा। अवगाह्यैव विचितौ न च मे रोचते वरः ॥५-९५-१७॥
न देवान्नैव दितिजान्न गन्धर्वान्न मानुषान्। अरोचयं वरकृते तथैव बहुलानृषीन् ॥५-९५-१८॥
भार्यया तु स संमन्त्र्य सह रात्रौ सुधर्मया। मातलिर्नागलोकाय चकार गमने मतिम् ॥५-९५-१९॥
न मे देवमनुष्येषु गुणकेश्याः समो वरः। रूपतो दृश्यते कश्चिन्नागेषु भविता ध्रुवम् ॥५-९५-२०॥
इत्यामन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम्। कन्यां शिरस्युपाघ्राय प्रविवेश महीतलम् ॥५-९५-२१॥