05.102
नारद उवाच॥
सूतोऽयं मातलिर्नाम शक्रस्य दयितः सुहृत्। शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली ॥५-१०२-१॥
शक्रस्यायं सखा चैव मन्त्री सारथिरेव च। अल्पान्तरप्रभावश्च वासवेन रणे रणे ॥५-१०२-२॥
अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम्। देवासुरेषु युद्धेषु मनसैव नियच्छति ॥५-१०२-३॥
अनेन विजितानश्वैर्दोर्भ्यां जयति वासवः। अनेन प्रहृते पूर्वं बलभित्प्रहरत्युत ॥५-१०२-४॥
अस्य कन्या वरारोहा रूपेणासदृशी भुवि। सत्त्वशीलगुणोपेता गुणकेशीति विश्रुता ॥५-१०२-५॥
तस्यास्य यत्नाच्चरतस्त्रैलोक्यममरद्युते। सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः ॥५-१०२-६॥
यदि ते रोचते सौम्य भुजगोत्तम माचिरम्। क्रियतामार्यक क्षिप्रं बुद्धिः कन्याप्रतिग्रहे ॥५-१०२-७॥
यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः। कुले तव तथैवास्तु गुणकेशी सुमध्यमा ॥५-१०२-८॥
पौत्रस्यार्थे भवांस्तस्माद्गुणकेशीं प्रतीच्छतु। सदृशीं प्रतिरूपस्य वासवस्य शचीमिव ॥५-१०२-९॥
पितृहीनमपि ह्येनं गुणतो वरयामहे। बहुमानाच्च भवतस्तथैवैरावतस्य च । सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः ॥५-१०२-१०॥
अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः। मातलेस्तस्य संमानं कर्तुमर्हो भवानपि ॥५-१०२-११॥
कण्व उवाच॥
स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः। व्रियमाणे तथा पौत्रे पुत्रे च निधनं गते ॥५-१०२-१२॥
न मे नैतद्बहुमतं देवर्षे वचनं तव। सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत् ॥५-१०२-१३॥
कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने। अस्य देहकरस्तात मम पुत्रो महाद्युते । भक्षितो वैनतेयेन दुःखार्तास्तेन वै वयम् ॥५-१०२-१४॥
पुनरेव च तेनोक्तं वैनतेयेन गच्छता। मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो ॥५-१०२-१५॥
ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम्। तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै ॥५-१०२-१६॥
मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया। जामातृभावेन वृतः सुमुखस्तव पुत्रजः ॥५-१०२-१७॥
सोऽयं मया च सहितो नारदेन च पन्नगः। त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम् ॥५-१०२-१८॥
शेषेणैवास्य कार्येण प्रज्ञास्याम्यहमायुषः। सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम ॥५-१०२-१९॥
सुमुखश्च मया सार्धं देवेशमभिगच्छतु। कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजङ्गम ॥५-१०२-२०॥
ततस्ते सुमुखं गृह्य सर्व एव महौजसः। ददृशुः शक्रमासीनं देवराजं महाद्युतिम् ॥५-१०२-२१॥
सङ्गत्या तत्र भगवान्विष्णुरासीच्चतुर्भुजः। ततस्तत्सर्वमाचख्यौ नारदो मातलिं प्रति ॥५-१०२-२२॥
ततः पुरंदरं विष्णुरुवाच भुवनेश्वरम्। अमृतं दीयतामस्मै क्रियताममरैः समः ॥५-१०२-२३॥
मातलिर्नारदश्चैव सुमुखश्चैव वासव। लभन्तां भवतः कामात्काममेतं यथेप्सितम् ॥५-१०२-२४॥
पुरंदरोऽथ सञ्चिन्त्य वैनतेयपराक्रमम्। विष्णुमेवाब्रवीदेनं भवानेव ददात्विति ॥५-१०२-२५॥
विष्णुरुवाच॥
ईशस्त्वमसि लोकानां चराणामचराश्च ये। त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो ॥५-१०२-२६॥
कण्व उवाच॥
प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम्। न त्वेनममृतप्राशं चकार बलवृत्रहा ॥५-१०२-२७॥
लब्ध्वा वरं तु सुमुखः सुमुखः सम्बभूव ह। कृतदारो यथाकामं जगाम च गृहान्प्रति ॥५-१०२-२८॥
नारदस्त्वार्यकश्चैव कृतकार्यौ मुदा युतौ। प्रतिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम् ॥५-१०२-२९॥