05.103
कण्व उवाच॥
गरुडस्तत्तु शुश्राव यथावृत्तं महाबलः। आयुःप्रदानं शक्रेण कृतं नागस्य भारत ॥५-१०३-१॥
पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः। सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत् ॥५-१०३-२॥
गरुड उवाच॥
भगवन्किमवज्ञानात्क्षुधां प्रति भये मम। कामकारवरं दत्त्वा पुनश्चलितवानसि ॥५-१०३-३॥
निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे। आहारो विहितो धात्रा किमर्थं वार्यते त्वया ॥५-१०३-४॥
वृतश्चैष महानागः स्थापितः समयश्च मे। अनेन च मया देव भर्तव्यः प्रसवो महान् ॥५-१०३-५॥
एतस्मिंस्त्वन्यथाभूते नान्यं हिंसितुमुत्सहे। क्रीडसे कामकारेण देवराज यथेच्छकम् ॥५-१०३-६॥
सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम। ये च भृत्या मम गृहे प्रीतिमान्भव वासव ॥५-१०३-७॥
एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन्। त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः ॥५-१०३-८॥
त्वयि तिष्ठति देवेश न विष्णुः कारणं मम। त्रैलोक्यराज राज्यं हि त्वयि वासव शाश्वतम् ॥५-१०३-९॥
ममापि दक्षस्य सुता जननी कश्यपः पिता। अहमप्युत्सहे लोकान्समस्तान्वोढुमञ्जसा ॥५-१०३-१०॥
असह्यं सर्वभूतानां ममापि विपुलं बलम्। मयापि सुमहत्कर्म कृतं दैतेयविग्रहे ॥५-१०३-११॥
श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः। प्रसभः कालकाक्षश्च मयापि दितिजा हताः ॥५-१०३-१२॥
यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम्। वहामि चैवानुजं ते तेन मामवमन्यसे ॥५-१०३-१३॥
कोऽन्यो भारसहो ह्यस्ति कोऽन्योऽस्ति बलवत्तरः। मया योऽहं विशिष्टः सन्वहामीमं सबान्धवम् ॥५-१०३-१४॥
अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः। तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव ॥५-१०३-१५॥
अदित्यां य इमे जाता बलविक्रमशालिनः। त्वमेषां किल सर्वेषां विशेषाद्बलवत्तरः ॥५-१०३-१६॥
सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः। विमृश त्वं शनैस्तात को न्वत्र बलवानिति ॥५-१०३-१७॥
कण्व उवाच॥
तस्य तद्वचनं श्रुत्वा खगस्योदर्कदारुणम्। अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत् ॥५-१०३-१८॥
गरुत्मन्मन्यसेऽऽत्मानं बलवन्तं सुदुर्बलम्। अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज ॥५-१०३-१९॥
त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे। अहमेवात्मनात्मानं वहामि त्वां च धारये ॥५-१०३-२०॥
इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह। यद्येनं धारयस्येकं सफलं ते विकत्थितम् ॥५-१०३-२१॥
ततः स भगवांस्तस्य स्कन्धे बाहुं समासजत्। निपपात स भारार्तो विह्वलो नष्टचेतनः ॥५-१०३-२२॥
यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह। एकस्या देहशाखायास्तावद्भारममन्यत ॥५-१०३-२३॥
न त्वेनं पीडयामास बलेन बलवत्तरः। ततो हि जीवितं तस्य न व्यनीनशदच्युतः ॥५-१०३-२४॥
विपक्षः स्रस्तकायश्च विचेता विह्वलः खगः। मुमोच पत्राणि तदा गुरुभारप्रपीडितः ॥५-१०३-२५॥
स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः। विचेता विह्वलो दीनः किञ्चिद्वचनमब्रवीत् ॥५-१०३-२६॥
भगवँल्लोकसारस्य सदृशेन वपुष्मता। भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले ॥५-१०३-२७॥
क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः। बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः ॥५-१०३-२८॥
न विज्ञातं बलं देव मया ते परमं विभो। तेन मन्याम्यहं वीर्यमात्मनोऽसदृशं परैः ॥५-१०३-२९॥
ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतः। मैवं भूय इति स्नेहात्तदा चैनमुवाच ह ॥५-१०३-३०॥
तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणे। नासादयसि तान्वीरांस्तावज्जीवसि पुत्रक ॥५-१०३-३१॥
भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः। धनञ्जयश्चेन्द्रसुतो न हन्यातां तु कं रणे ॥५-१०३-३२॥
विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ। एते देवास्त्वया केन हेतुना शक्यमीक्षितुम् ॥५-१०३-३३॥
तदलं ते विरोधेन शमं गच्छ नृपात्मज। वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि ॥५-१०३-३४॥
प्रत्यक्षो ह्यस्य सर्वस्य नारदोऽयं महातपाः। माहात्म्यं यत्तदा विष्णोर्योऽयं चक्रगदाधरः ॥५-१०३-३५॥
वैशम्पायन उवाच॥
दुर्योधनस्तु तच्छ्रुत्वा निःश्वसन्भृकुटीमुखः। राधेयमभिसम्प्रेक्ष्य जहास स्वनवत्तदा ॥५-१०३-३६॥
कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः। ऊरुं गजकराकारं ताडयन्निदमब्रवीत् ॥५-१०३-३७॥
यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः। तथा महर्षे वर्तामि किं प्रलापः करिष्यति ॥५-१०३-३८॥