Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.104
गालवचरितम्
जनमेजय उवाच॥
अनर्थे जातनिर्बन्धं परार्थे लोभमोहितम्। अनार्यकेष्वभिरतं मरणे कृतनिश्चयम् ॥५-१०४-१॥
ज्ञातीनां दुःखकर्तारं बन्धूनां शोकवर्धनम्। सुहृदां क्लेशदातारं द्विषतां हर्षवर्धनम् ॥५-१०४-२॥
कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः। सौहृदाद्वा सुहृत्स्निग्धो भगवान्वा पितामहः ॥५-१०४-३॥
वैशम्पायन उवाच॥
उक्तं भगवता वाक्यमुक्तं भीष्मेण यत्क्षमम्। उक्तं बहुविधं चैव नारदेनापि तच्छृणु ॥५-१०४-४॥
नारद उवाच॥
दुर्लभो वै सुहृच्छ्रोता दुर्लभश्च हितः सुहृत्। तिष्ठते हि सुहृद्यत्र न बन्धुस्तत्र तिष्ठति ॥५-१०४-५॥
श्रोतव्यमपि पश्यामि सुहृदां कुरुनन्दन। न कर्तव्यश्च निर्बन्धो निर्बन्धो हि सुदारुणः ॥५-१०४-६॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। यथा निर्बन्धतः प्राप्तो गालवेन पराजयः ॥५-१०४-७॥
विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा। अभ्यगच्छत्स्वयं भूत्वा वसिष्ठो भगवानृषिः ॥५-१०४-८॥
सप्तर्षीणामन्यतमं वेषमास्थाय भारत। बुभुक्षुः क्षुधितो राजन्नाश्रमं कौशिकस्य ह ॥५-१०४-९॥
विश्वामित्रोऽथ सम्भ्रान्तः श्रपयामास वै चरुम्। परमान्नस्य यत्नेन न च स प्रत्यपालयत् ॥५-१०४-१०॥
अन्नं तेन यदा भुक्तमन्यैर्दत्तं तपस्विभिः। अथ गृह्यान्नमत्युष्णं विश्वामित्रोऽभ्युपागमत् ॥५-१०४-११॥
भुक्तं मे तिष्ठ तावत्त्वमित्युक्त्वा भगवान्ययौ। विश्वामित्रस्ततो राजन्स्थित एव महाद्युतिः ॥५-१०४-१२॥
भक्तं प्रगृह्य मूर्ध्ना तद्बाहुभ्यां पार्श्वतोऽगमत्। स्थितः स्थाणुरिवाभ्याशे निश्चेष्टो मारुताशनः ॥५-१०४-१३॥
तस्य शुश्रूषणे यत्नमकरोद्गालवो मुनिः। गौरवाद्बहुमानाच्च हार्देन प्रियकाम्यया ॥५-१०४-१४॥
अथ वर्षशते पूर्णे धर्मः पुनरुपागमत्। वासिष्ठं वेषमास्थाय कौशिकं भोजनेप्सया ॥५-१०४-१५॥
स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा। तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता ॥५-१०४-१६॥
प्रतिगृह्य ततो धर्मस्तथैवोष्णं तथा नवम्। भुक्त्वा प्रीतोऽस्मि विप्रर्षे तमुक्त्वा स मुनिर्गतः ॥५-१०४-१७॥
क्षत्रभावादपगतो ब्राह्मणत्वमुपागतः। धर्मस्य वचनात्प्रीतो विश्वामित्रस्तदाभवत् ॥५-१०४-१८॥
विश्वामित्रस्तु शिष्यस्य गालवस्य तपस्विनः। शुश्रूषया च भक्त्या च प्रीतिमानित्युवाच तम् । अनुज्ञातो मया वत्स यथेष्टं गच्छ गालव ॥५-१०४-१९॥
इत्युक्तः प्रत्युवाचेदं गालवो मुनिसत्तमम्। प्रीतो मधुरया वाचा विश्वामित्रं महाद्युतिम् ॥५-१०४-२०॥
दक्षिणां कां प्रयच्छामि भवते गुरुकर्मणि। दक्षिणाभिरुपेतं हि कर्म सिध्यति मानवम् ॥५-१०४-२१॥
दक्षिणानां हि सृष्टानामपवर्गेण भुज्यते। स्वर्गे क्रतुफलं सद्भिर्दक्षिणा शान्तिरुच्यते । किमाहरामि गुर्वर्थं ब्रवीतु भगवानिति ॥५-१०४-२२॥
जानमानस्तु भगवाञ्जितः शुश्रूषणेन च। विश्वामित्रस्तमसकृद्गच्छ गच्छेत्यचोदयत् ॥५-१०४-२३॥
असकृद्गच्छ गच्छेति विश्वामित्रेण भाषितः। किं ददानीति बहुशो गालवः प्रत्यभाषत ॥५-१०४-२४॥
निर्बन्धतस्तु बहुशो गालवस्य तपस्विनः। किञ्चिदागतसंरम्भो विश्वामित्रोऽब्रवीदिदम् ॥५-१०४-२५॥
एकतःश्यामकर्णानां शतान्यष्टौ ददस्व मे। हयानां चन्द्रशुभ्राणां गच्छ गालव माचिरम् ॥५-१०४-२६॥