05.105
नारद उवाच॥
एवमुक्तस्तदा तेन विश्वामित्रेण धीमता। नास्ते न शेते नाहारं कुरुते गालवस्तदा ॥५-१०५-१॥
त्वगस्थिभूतो हरिणश्चिन्ताशोकपरायणः। शोचमानोऽतिमात्रं स दह्यमानश्च मन्युना ॥५-१०५-२॥
कुतः पुष्टानि मित्राणि कुतोऽर्थाः सञ्चयः कुतः। हयानां चन्द्रशुभ्राणां शतान्यष्टौ कुतो मम ॥५-१०५-३॥
कुतो मे भोजनश्रद्धा सुखश्रद्धा कुतश्च मे। श्रद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे ॥५-१०५-४॥
अहं पारं समुद्रस्य पृथिव्या वा परं परात्। गत्वात्मानं विमुञ्चामि किं फलं जीवितेन मे ॥५-१०५-५॥
अधनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः। ऋणं धारयमाणस्य कुतः सुखमनीहया ॥५-१०५-६॥
सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम्। प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् ॥५-१०५-७॥
प्रतिश्रुत्य करिष्येति कर्तव्यं तदकुर्वतः। मिथ्यावचनदग्धस्य इष्टापूर्तं प्रणश्यति ॥५-१०५-८॥
न रूपमनृतस्यास्ति नानृतस्यास्ति सन्ततिः। नानृतस्याधिपत्यं च कुत एव गतिः शुभा ॥५-१०५-९॥
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्। अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ॥५-१०५-१०॥
न जीवत्यधनः पापः कुतः पापस्य तन्त्रणम्। पापो ध्रुवमवाप्नोति विनाशं नाशयन्कृतम् ॥५-१०५-११॥
सोऽहं पापः कृतघ्नश्च कृपणश्चानृतोऽपि च। गुरोर्यः कृतकार्यः संस्तत्करोमि न भाषितम् । सोऽहं प्राणान्विमोक्ष्यामि कृत्वा यत्नमनुत्तमम् ॥५-१०५-१२॥
अर्थना न मया काचित्कृतपूर्वा दिवौकसाम्। मानयन्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे ॥५-१०५-१३॥
अहं तु विबुधश्रेष्ठं देवं त्रिभुवनेश्वरम्। विष्णुं गच्छाम्यहं कृष्णं गतिं गतिमतां वरम् ॥५-१०५-१४॥
भोगा यस्मात्प्रतिष्ठन्ते व्याप्य सर्वान्सुरासुरान्। प्रयतो द्रष्टुमिच्छामि महायोगिनमव्ययम् ॥५-१०५-१५॥
एवमुक्ते सखा तस्य गरुडो विनतात्मजः। दर्शयामास तं प्राह संहृष्टः प्रियकाम्यया ॥५-१०५-१६॥
सुहृद्भवान्मम मतः सुहृदां च मतः सुहृत्। ईप्सितेनाभिलाषेण योक्तव्यो विभवे सति ॥५-१०५-१७॥
विभवश्चास्ति मे विप्र वासवावरजो द्विज। पूर्वमुक्तस्त्वदर्थं च कृतः कामश्च तेन मे ॥५-१०५-१८॥
स भवानेतु गच्छाव नयिष्ये त्वां यथासुखम्। देशं पारं पृथिव्या वा गच्छ गालव माचिरम् ॥५-१०५-१९॥