05.106
सुपर्ण उवाच॥
अनुशिष्टोऽस्मि देवेन गालवाज्ञातयोनिना। ब्रूहि कामनुसंयामि द्रष्टुं प्रथमतो दिशम् ॥५-१०६-१॥
पूर्वां वा दक्षिणां वाहमथ वा पश्चिमां दिशम्। उत्तरां वा द्विजश्रेष्ठ कुतो गच्छामि गालव ॥५-१०६-२॥
यस्यामुदयते पूर्वं सर्वलोकप्रभावनः। सविता यत्र सन्ध्यायां साध्यानां वर्तते तपः ॥५-१०६-३॥
यस्यां पूर्वं मतिर्जाता यया व्याप्तमिदं जगत्। चक्षुषी यत्र धर्मस्य यत्र चैष प्रतिष्ठितः ॥५-१०६-४॥
हुतं यतोमुखैर्हव्यं सर्पते सर्वतोदिशम्। एतद्द्वारं द्विजश्रेष्ठ दिवसस्य तथाध्वनः ॥५-१०६-५॥
यत्र पूर्वं प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः। यस्यां दिशि प्रवृद्धाश्च कश्यपस्यात्मसम्भवाः ॥५-१०६-६॥
यतोमूला सुराणां श्रीर्यत्र शक्रोऽभ्यषिच्यत। सुरराज्येन विप्रर्षे देवैश्चात्र तपश्चितम् ॥५-१०६-७॥
एतस्मात्कारणाद्ब्रह्मन्पूर्वेत्येषा दिगुच्यते। यस्मात्पूर्वतरे काले पूर्वमेषावृता सुरैः ॥५-१०६-८॥
अत एव च पूर्वेषां पूर्वामाशामवेक्षताम्। पूर्वकार्याणि कार्याणि दैवानि सुखमीप्सता ॥५-१०६-९॥
अत्र वेदाञ्जगौ पूर्वं भगवाँल्लोकभावनः। अत्रैवोक्ता सवित्रासीत्सावित्री ब्रह्मवादिषु ॥५-१०६-१०॥
अत्र दत्तानि सूर्येण यजूंषि द्विजसत्तम। अत्र लब्धवरैः सोमः सुरैः क्रतुषु पीयते ॥५-१०६-११॥
अत्र तृप्ता हुतवहाः स्वां योनिमुपभुञ्जते। अत्र पातालमाश्रित्य वरुणः श्रियमाप च ॥५-१०६-१२॥
अत्र पूर्वं वसिष्ठस्य पौराणस्य द्विजर्षभ। सूतिश्चैव प्रतिष्ठा च निधनं च प्रकाशते ॥५-१०६-१३॥
ओङ्कारस्यात्र जायन्ते सूतयो दशतीर्दश। पिबन्ति मुनयो यत्र हविर्धाने स्म सोमपाः ॥५-१०६-१४॥
प्रोक्षिता यत्र बहवो वराहाद्या मृगा वने। शक्रेण यत्र भागार्थे दैवतेषु प्रकल्पिताः ॥५-१०६-१५॥
अत्राहिताः कृतघ्नाश्च मानुषाश्चासुराश्च ये। उदयंस्तान्हि सर्वान्वै क्रोधाद्धन्ति विभावसुः ॥५-१०६-१६॥
एतद्द्वारं त्रिलोकस्य स्वर्गस्य च सुखस्य च। एष पूर्वो दिशाभागो विशावैनं यदीच्छसि ॥५-१०६-१७॥
प्रियं कार्यं हि मे तस्य यस्यास्मि वचने स्थितः। ब्रूहि गालव यास्यामि शृणु चाप्यपरां दिशम् ॥५-१०६-१८॥