05.107
सुपर्ण उवाच॥
इयं विवस्वता पूर्वं श्रौतेन विधिना किल। गुरवे दक्षिणा दत्ता दक्षिणेत्युच्यतेऽथ दिक् ॥५-१०७-१॥
अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः। अत्रोष्मपानां देवानां निवासः श्रूयते द्विज ॥५-१०७-२॥
अत्र विश्वे सदा देवाः पितृभिः सार्धमासते। इज्यमानाः स्म लोकेषु सम्प्राप्तास्तुल्यभागताम् ॥५-१०७-३॥
एतद्द्वितीयं धर्मस्य द्वारमाचक्षते द्विज। त्रुटिशो लवशश्चात्र गण्यते कालनिश्चयः ॥५-१०७-४॥
अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा। तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः ॥५-१०७-५॥
अत्र धर्मश्च सत्यं च कर्म चात्र निशाम्यते। गतिरेषा द्विजश्रेष्ठ कर्मणात्मावसादिनः ॥५-१०७-६॥
एषा दिक्सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते। वृता त्वनवबोधेन सुखं तेन न गम्यते ॥५-१०७-७॥
नैरृतानां सहस्राणि बहून्यत्र द्विजर्षभ। सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः ॥५-१०७-८॥
अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च। गन्धर्वा गान्ति गाथा वै चित्तबुद्धिहरा द्विज ॥५-१०७-९॥
अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः। गतदारो गतामात्यो गतराज्यो वनं गतः ॥५-१०७-१०॥
अत्र सावर्णिना चैव यवक्रीतात्मजेन च। मर्यादा स्थापिता ब्रह्मन्यां सूर्यो नातिवर्तते ॥५-१०७-११॥
अत्र राक्षसराजेन पौलस्त्येन महात्मना। रावणेन तपश्चीर्त्वा सुरेभ्योऽमरता वृता ॥५-१०७-१२॥
अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमीयिवान्। अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा ॥५-१०७-१३॥
अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव। अत्र वैतरणी नाम नदी वितरणैर्वृता । अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते ॥५-१०७-१४॥
अत्रावृत्तो दिनकरः क्षरते सुरसं पयः। काष्ठां चासाद्य धानिष्ठां हिममुत्सृजते पुनः ॥५-१०७-१५॥
अत्राहं गालव पुरा क्षुधार्तः परिचिन्तयन्। लब्धवान्युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ ॥५-१०७-१६॥
अत्र शक्रधनुर्नाम सूर्याज्जातो महानृषिः। विदुर्यं कपिलं देवं येनात्ताः सगरात्मजाः ॥५-१०७-१७॥
अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः। अधीत्य सखिलान्वेदानालभन्ते यमक्षयम् ॥५-१०७-१८॥
अत्र भोगवती नाम पुरी वासुकिपालिता। तक्षकेण च नागेन तथैवैरावतेन च ॥५-१०७-१९॥
अत्र निर्याणकालेषु तमः सम्प्राप्यते महत्। अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना ॥५-१०७-२०॥
एष तस्यापि ते मार्गः परितापस्य गालव। ब्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु वा मम ॥५-१०७-२१॥