05.108
सुपर्ण उवाच॥
इयं दिग्दयिता राज्ञो वरुणस्य तु गोपतेः। सदा सलिलराजस्य प्रतिष्ठा चादिरेव च ॥५-१०८-१॥
अत्र पश्चादहः सूर्यो विसर्जयति भाः स्वयम्। पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम ॥५-१०८-२॥
यादसामत्र राज्येन सलिलस्य च गुप्तये। कश्यपो भगवान्देवो वरुणं स्माभ्यषेचयत् ॥५-१०८-३॥
अत्र पीत्वा समस्तान्वै वरुणस्य रसांस्तु षट्। जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा ॥५-१०८-४॥
अत्र पश्चात्कृता दैत्या वायुना संयतास्तदा। निःश्वसन्तो महानागैरर्दिताः सुषुपुर्द्विज ॥५-१०८-५॥
अत्र सूर्यं प्रणयिनं प्रतिगृह्णाति पर्वतः। अस्तो नाम यतः सन्ध्या पश्चिमा प्रतिसर्पति ॥५-१०८-६॥
अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये। जायते जीवलोकस्य हर्तुमर्धमिवायुषः ॥५-१०८-७॥
अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम्। विगर्भामकरोच्छक्रो यत्र जातो मरुद्गणः ॥५-१०८-८॥
अत्र मूलं हिमवतो मन्दरं याति शाश्वतम्। अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते ॥५-१०८-९॥
अत्र काञ्चनशैलस्य काञ्चनाम्बुवहस्य च। उदधेस्तीरमासाद्य सुरभिः क्षरते पयः ॥५-१०८-१०॥
अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते। स्वर्भानोः सूर्यकल्पस्य सोमसूर्यौ जिघांसतः ॥५-१०८-११॥
सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः। अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः ॥५-१०८-१२॥
अत्र ध्वजवती नाम कुमारी हरिमेधसः। आकाशे तिष्ठ तिष्ठेति तस्थौ सूर्यस्य शासनात् ॥५-१०८-१३॥
अत्र वायुस्तथा वह्निरापः खं चैव गालव। आह्निकं चैव नैशं च दुःखस्पर्शं विमुञ्चति । अतः प्रभृति सूर्यस्य तिर्यगावर्तते गतिः ॥५-१०८-१४॥
अत्र ज्योतींषि सर्वाणि विशन्त्यादित्यमण्डलम्। अष्टाविंशतिरात्रं च चङ्क्रम्य सह भानुना । निष्पतन्ति पुनः सूर्यात्सोमसंयोगयोगतः ॥५-१०८-१५॥
अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः। अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणाश्रयाः ॥५-१०८-१६॥
अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम्। अनादिनिधनस्यात्र विष्णोः स्थानमनुत्तमम् ॥५-१०८-१७॥
अत्रानलसखस्यापि पवनस्य निवेशनम्। महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम् ॥५-१०८-१८॥
एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः। ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम ॥५-१०८-१९॥