05.109
सुपर्ण उवाच॥
यस्मादुत्तार्यते पापाद्यस्मान्निःश्रेयसोऽश्नुते। तस्मादुत्तारणफलादुत्तरेत्युच्यते बुधैः ॥५-१०९-१॥
उत्तरस्य हिरण्यस्य परिवापस्य गालव। मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः ॥५-१०९-२॥
अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ। नासौम्यो नाविधेयात्मा नाधर्म्यो वसते जनः ॥५-१०९-३॥
अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः। बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः ॥५-१०९-४॥
अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः। अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत ॥५-१०९-५॥
अत्र गङ्गां महादेवः पतन्तीं गगनाच्च्युताम्। प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम ॥५-१०९-६॥
अत्र देव्या तपस्तप्तं महेश्वरपरीप्सया। अत्र कामश्च रोषश्च शैलश्चोमा च सम्बभुः ॥५-१०९-७॥
अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव। आधिपत्येन कैलासे धनदोऽप्यभिषेचितः ॥५-१०९-८॥
अत्र चैत्ररथं रम्यमत्र वैखानसाश्रमः। अत्र मन्दाकिनी चैव मन्दरश्च द्विजर्षभ ॥५-१०९-९॥
अत्र सौगन्धिकवनं नैरृतैरभिरक्ष्यते। शाड्वलं कदलीस्कन्धमत्र सन्तानका नगाः ॥५-१०९-१०॥
अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम्। विमानान्यनुरूपाणि कामभोग्यानि गालव ॥५-१०९-११॥
अत्र ते ऋषयः सप्त देवी चारुन्धती तथा। अत्र तिष्ठति वै स्वातिरत्रास्या उदयः स्मृतः ॥५-१०९-१२॥
अत्र यज्ञं समारुह्य ध्रुवं स्थाता पितामहः। ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः ॥५-१०९-१३॥
अत्र गायन्तिकाद्वारं रक्षन्ति द्विजसत्तमाः। धामा नाम महात्मानो मुनयः सत्यवादिनः ॥५-१०९-१४॥
न तेषां ज्ञायते सूतिर्नाकृतिर्न तपश्चितम्। परिवर्तसहस्राणि कामभोग्यानि गालव ॥५-१०९-१५॥
यथा यथा प्रविशति तस्मात्परतरं नरः। तथा तथा द्विजश्रेष्ठ प्रविलीयति गालव ॥५-१०९-१६॥
न तत्केनचिदन्येन गतपूर्वं द्विजर्षभ। ऋते नारायणं देवं नरं वा जिष्णुमव्ययम् ॥५-१०९-१७॥
अत्र कैलासमित्युक्तं स्थानमैलविलस्य तत्। अत्र विद्युत्प्रभा नाम जज्ञिरेऽप्सरसो दश ॥५-१०९-१८॥
अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम्। त्रिलोकविक्रमे ब्रह्मन्नुत्तरां दिशमाश्रितम् ॥५-१०९-१९॥
अत्र राज्ञा मरुत्तेन यज्ञेनेष्टं द्विजोत्तम। उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः ॥५-१०९-२०॥
जीमूतस्यात्र विप्रर्षेरुपतस्थे महात्मनः। साक्षाद्धैमवतः पुण्यो विमलः कमलाकरः ॥५-१०९-२१॥
ब्राह्मणेषु च यत्कृत्स्नं स्वन्तं कृत्वा धनं महत्। वव्रे वनं महर्षिः स जैमूतं तद्वनं ततः ॥५-१०९-२२॥
अत्र नित्यं दिशापालाः सायं प्रातर्द्विजर्षभ। कस्य कार्यं किमिति वै परिक्रोशन्ति गालव ॥५-१०९-२३॥
एवमेषा द्विजश्रेष्ठ गुणैरन्यैर्दिगुत्तरा। उत्तरेति परिख्याता सर्वकर्मसु चोत्तरा ॥५-१०९-२४॥
एता विस्तरशस्तात तव सङ्कीर्तिता दिशः। चतस्रः क्रमयोगेन कामाशां गन्तुमिच्छसि ॥५-१०९-२५॥
उद्यतोऽहं द्विजश्रेष्ठ तव दर्शयितुं दिशः। पृथिवीं चाखिलां ब्रह्मंस्तस्मादारोह मां द्विज ॥५-१०९-२६॥