Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.110
गालव उवाच॥
गरुत्मन्भुजगेन्द्रारे सुपर्ण विनतात्मज। नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी ॥५-११०-१॥
पूर्वमेतां दिशं गच्छ या पूर्वं परिकीर्तिता। दैवतानां हि सांनिध्यमत्र कीर्तितवानसि ॥५-११०-२॥
अत्र सत्यं च धर्मश्च त्वया सम्यक्प्रकीर्तितः। इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम् । भूयश्च तान्सुरान्द्रष्टुमिच्छेयमरुणानुज ॥५-११०-३॥
नारद उवाच॥
तमाह विनतासूनुरारोहस्वेति वै द्विजम्। आरुरोहाथ स मुनिर्गरुडं गालवस्तदा ॥५-११०-४॥
गालव उवाच॥
क्रममाणस्य ते रूपं दृश्यते पन्नगाशन। भास्करस्येव पूर्वाह्णे सहस्रांशोर्विवस्वतः ॥५-११०-५॥
पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम्। प्रस्थितानामिव समं पश्यामीह गतिं खग ॥५-११०-६॥
ससागरवनामुर्वीं सशैलवनकाननाम्। आकर्षन्निव चाभासि पक्षवातेन खेचर ॥५-११०-७॥
समीननागनक्रं च खमिवारोप्यते जलम्। वायुना चैव महता पक्षवातेन चानिशम् ॥५-११०-८॥
तुल्यरूपाननान्मत्स्यांस्तिमिमत्स्यांस्तिमिङ्गिलान्। नागांश्च नरवक्त्रांश्च पश्याम्युन्मथितानिव ॥५-११०-९॥
महार्णवस्य च रवैः श्रोत्रे मे बधिरीकृते। न शृणोमि न पश्यामि नात्मनो वेद्मि कारणम् ॥५-११०-१०॥
शनैः साधु भवान्यातु ब्रह्महत्यामनुस्मरन्। न दृश्यते रविस्तात न दिशो न च खं खग ॥५-११०-११॥
तम एव तु पश्यामि शरीरं ते न लक्षये। मणीव जात्यौ पश्यामि चक्षुषी तेऽहमण्डज ॥५-११०-१२॥
शरीरे तु न पश्यामि तव चैवात्मनश्च ह। पदे पदे तु पश्यामि सलिलादग्निमुत्थितम् ॥५-११०-१३॥
स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः। तन्निवर्त महान्कालो गच्छतो विनतात्मज ॥५-११०-१४॥
न मे प्रयोजनं किञ्चिद्गमने पन्नगाशन। संनिवर्त महावेग न वेगं विषहामि ते ॥५-११०-१५॥
गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम्। एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम् ॥५-११०-१६॥
तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज। ततोऽयं जीवितत्यागे दृष्टो मार्गो मयात्मनः ॥५-११०-१७॥
नैव मेऽस्ति धनं किञ्चिन्न धनेनान्वितः सुहृत्। न चार्थेनापि महता शक्यमेतद्व्यपोहितुम् ॥५-११०-१८॥
नारद उवाच॥
एवं बहु च दीनं च ब्रुवाणं गालवं तदा। प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः ॥५-११०-१९॥
नातिप्रज्ञोऽसि विप्रर्षे योऽऽत्मानं त्यक्तुमिच्छसि। न चापि कृत्रिमः कालः कालो हि परमेश्वरः ॥५-११०-२०॥
किमहं पूर्वमेवेह भवता नाभिचोदितः। उपायोऽत्र महानस्ति येनैतदुपपद्यते ॥५-११०-२१॥
तदेष ऋषभो नाम पर्वतः सागरोरसि। अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव ॥५-११०-२२॥