05.111
नारद उवाच॥
ऋषभस्य ततः शृङ्गे निपत्य द्विजपक्षिणौ। शाण्डिलीं ब्राह्मणीं तत्र ददृशाते तपोन्विताम् ॥५-१११-१॥
अभिवाद्य सुपर्णस्तु गालवश्चाभिपूज्य ताम्। तया च स्वागतेनोक्तौ विष्टरे संनिषीदतुः ॥५-१११-२॥
सिद्धमन्नं तया क्षिप्रं बलिमन्त्रोपबृंहितम्। भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ तावन्नमोहितौ ॥५-१११-३॥
मुहूर्तात्प्रतिबुद्धस्तु सुपर्णो गमनेप्सया। अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः ॥५-१११-४॥
मांसपिण्डोपमोऽभूत्स मुखपादान्वितः खगः। गालवस्तं तथा दृष्ट्वा विषण्णः पर्यपृच्छत ॥५-१११-५॥
किमिदं भवता प्राप्तमिहागमनजं फलम्। वासोऽयमिह कालं तु कियन्तं नौ भविष्यति ॥५-१११-६॥
किं नु ते मनसा ध्यातमशुभं धर्मदूषणम्। न ह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति ॥५-१११-७॥
सुपर्णोऽथाब्रवीद्विप्रं प्रध्यातं वै मया द्विज। इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः ॥५-१११-८॥
यत्र देवो महादेवो यत्र विष्णुः सनातनः। यत्र धर्मश्च यज्ञश्च तत्रेयं निवसेदिति ॥५-१११-९॥
सोऽहं भगवतीं याचे प्रणतः प्रियकाम्यया। मयैतन्नाम प्रध्यातं मनसा शोचता किल ॥५-१११-१०॥
तदेवं बहुमानात्ते मयेहानीप्सितं कृतम्। सुकृतं दुष्कृतं वा त्वं माहात्म्यात्क्षन्तुमर्हसि ॥५-१११-११॥
सा तौ तदाब्रवीत्तुष्टा पतगेन्द्रद्विजर्षभौ। न भेतव्यं सुपर्णोऽसि सुपर्ण त्यज सम्भ्रमम् ॥५-१११-१२॥
निन्दितास्मि त्वया वत्स न च निन्दां क्षमाम्यहम्। लोकेभ्यः स परिभ्रश्येद्यो मां निन्देत पापकृत् ॥५-१११-१३॥
हीनयालक्षणैः सर्वैस्तथानिन्दितया मया। आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेयमुत्तमा ॥५-१११-१४॥
आचाराल्लभते धर्ममाचाराल्लभते धनम्। आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥५-१११-१५॥
तदायुष्मन्खगपते यथेष्टं गम्यतामितः। न च ते गर्हणीयापि गर्हितव्याः स्त्रियः क्वचित् ॥५-१११-१६॥
भवितासि यथापूर्वं बलवीर्यसमन्वितः। बभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ ॥५-१११-१७॥
अनुज्ञातश्च शाण्डिल्या यथागतमुपागमत्। नैव चासादयामास तथारूपांस्तुरङ्गमान् ॥५-१११-१८॥
विश्वामित्रोऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितम्। उवाच वदतां श्रेष्ठो वैनतेयस्य संनिधौ ॥५-१११-१९॥
यस्त्वया स्वयमेवार्थः प्रतिज्ञातो मम द्विज। तस्य कालोऽपवर्गस्य यथा वा मन्यते भवान् ॥५-१११-२०॥
प्रतीक्षिष्याम्यहं कालमेतावन्तं तथा परम्। यथा संसिध्यते विप्र स मार्गस्तु निशम्यताम् ॥५-१११-२१॥
सुपर्णोऽथाब्रवीद्दीनं गालवं भृशदुःखितम्। प्रत्यक्षं खल्विदानीं मे विश्वामित्रो यदुक्तवान् ॥५-१११-२२॥
तदागच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव। नादत्त्वा गुरवे शक्यं कृत्स्नमर्थं त्वयासितुम् ॥५-१११-२३॥