05.112
नारद उवाच॥
अथाह गालवं दीनं सुपर्णः पततां वरः। निर्मितं वह्निना भूमौ वायुना वैधितं तथा । यस्माद्धिरण्मयं सर्वं हिरण्यं तेन चोच्यते ॥५-११२-१॥
धत्ते धारयते चेदमेतस्मात्कारणाद्धनम्। तदेतत्त्रिषु लोकेषु धनं तिष्ठति शाश्वतम् ॥५-११२-२॥
नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा। मनुष्येभ्यः समादत्ते शुक्रश्चित्तार्जितं धनम् ॥५-११२-३॥
अजैकपादहिर्बुध्न्यै रक्ष्यते धनदेन च। एवं न शक्यते लब्धुमलब्धव्यं द्विजर्षभ ॥५-११२-४॥
ऋते च धनमश्वानां नावाप्तिर्विद्यते तव। अर्थं याचात्र राजानं कञ्चिद्राजर्षिवंशजम् । अपीड्य राजा पौरान्हि यो नौ कुर्यात्कृतार्थिनौ ॥५-११२-५॥
अस्ति सोमान्ववाये मे जातः कश्चिन्नृपः सखा। अभिगच्छावहे तं वै तस्यास्ति विभवो भुवि ॥५-११२-६॥
ययातिर्नाम राजर्षिर्नाहुषः सत्यविक्रमः। स दास्यति मया चोक्तो भवता चार्थितः स्वयम् ॥५-११२-७॥
विभवश्चास्य सुमहानासीद्धनपतेरिव। एवं स तु धनं विद्वान्दानेनैव व्यशोधयत् ॥५-११२-८॥
तथा तौ कथयन्तौ च चिन्तयन्तौ च यत्क्षमम्। प्रतिष्ठाने नरपतिं ययातिं प्रत्युपस्थितौ ॥५-११२-९॥
प्रतिगृह्य च सत्कारमर्घादिं भोजनं वरम्। पृष्टश्चागमने हेतुमुवाच विनतासुतः ॥५-११२-१०॥
अयं मे नाहुष सखा गालवस्तपसो निधिः। विश्वामित्रस्य शिष्योऽभूद्वर्षाण्ययुतशो नृप ॥५-११२-११॥
सोऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः। तमाह भगवान्कां ते ददानि गुरुदक्षिणाम् ॥५-११२-१२॥
असकृत्तेन चोक्तेन किञ्चिदागतमन्युना। अयमुक्तः प्रयच्छेति जानता विभवं लघु ॥५-११२-१३॥
एकतःश्यामकर्णानां शुभ्राणां शुद्धजन्मनाम्। अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम् ॥५-११२-१४॥
गुर्वर्थो दीयतामेष यदि गालव मन्यसे। इत्येवमाह सक्रोधो विश्वामित्रस्तपोधनः ॥५-११२-१५॥
सोऽयं शोकेन महता तप्यमानो द्विजर्षभः। अशक्तः प्रतिकर्तुं तद्भवन्तं शरणं गतः ॥५-११२-१६॥
प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः। कृत्वापवर्गं गुरवे चरिष्यति महत्तपः ॥५-११२-१७॥
तपसः संविभागेन भवन्तमपि योक्ष्यते। स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति ॥५-११२-१८॥
यावन्ति रोमाणि हये भवन्ति हि नरेश्वर। तावतो वाजिदा लोकान्प्राप्नुवन्ति महीपते ॥५-११२-१९॥
पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान्। शङ्खे क्षीरमिवासक्तं भवत्वेतत्तथोपमम् ॥५-११२-२०॥