Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.120
नारद उवाच॥
प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुङ्गवः। ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः ॥५-१२०-१॥
दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः। दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत्पदा ॥५-१२०-२॥
ततो वसुमनाः पूर्वमुच्चैरुच्चारयन्वचः। ख्यातो दानपतिर्लोके व्याजहार नृपं तदा ॥५-१२०-३॥
प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हया। तदप्यथ च दास्यामि तेन संयुज्यतां भवान् ॥५-१२०-४॥
यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम्। यच्च मे फलमाधाने तेन संयुज्यतां भवान् ॥५-१२०-५॥
ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रियपुङ्गवः। यथा धर्मरतिर्नित्यं नित्यं युद्धपरायणः ॥५-१२०-६॥
प्राप्तवानस्मि यल्लोके क्षत्रधर्मोद्भवं यशः। वीरशब्दफलं चैव तेन संयुज्यतां भवान् ॥५-१२०-७॥
शिबिरौशीनरो धीमानुवाच मधुरां गिरम्। यथा बालेषु नारीषु वैहार्येषु तथैव च ॥५-१२०-८॥
सङ्गरेषु निपातेषु तथापद्व्यसनेषु च। अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज ॥५-१२०-९॥
यथा प्राणांश्च राज्यं च राजन्कर्म सुखानि च। त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज ॥५-१२०-१०॥
यथा सत्येन मे धर्मो यथा सत्येन पावकः। प्रीतः शक्रश्च सत्येन तेन सत्येन खं व्रज ॥५-१२०-११॥
अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः। अनेकशतयज्वानं वचनं प्राह धर्मवित् ॥५-१२०-१२॥
शतशः पुण्डरीका मे गोसवाश्च चिताः प्रभो। क्रतवो वाजपेयाश्च तेषां फलमवाप्नुहि ॥५-१२०-१३॥
न मे रत्नानि न धनं न तथान्ये परिच्छदाः। क्रतुष्वनुपयुक्तानि तेन सत्येन खं व्रज ॥५-१२०-१४॥
यथा यथा हि जल्पन्ति दौहित्रास्तं नराधिपम्। तथा तथा वसुमतीं त्यक्त्वा राजा दिवं ययौ ॥५-१२०-१५॥
एवं सर्वे समस्तास्ते राजानः सुकृतैस्तदा। ययातिं स्वर्गतो भ्रष्टं तारयामासुरञ्जसा ॥५-१२०-१६॥
दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै। चतुर्षु राजवंशेषु सम्भूताः कुलवर्धनाः । मातामहं महाप्राज्ञं दिवमारोपयन्ति ते ॥५-१२०-१७॥
राजान ऊचुः॥
राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः। दौहित्रास्ते वयं राजन्दिवमारोह पार्थिवः ॥५-१२०-१८॥