05.121
नारद उवाच॥
सद्भिरारोपितः स्वर्गं पार्थिवैर्भूरिदक्षिणैः। अभ्यनुज्ञाय दौहित्रान्ययातिर्दिवमास्थितः ॥५-१२१-१॥
अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना। परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना ॥५-१२१-२॥
अचलं स्थानमारुह्य दौहित्रफलनिर्जितम्। कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया ॥५-१२१-३॥
उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः। प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिस्वनैः ॥५-१२१-४॥
अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः। अर्चितश्चोत्तमार्घेण दैवतैरभिनन्दितः ॥५-१२१-५॥
प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः। निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव ॥५-१२१-६॥
चतुष्पादस्त्वया धर्मश्चितो लोक्येन कर्मणा। अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि । पुनस्तवाद्य राजर्षे सुकृतेनेह कर्मणा ॥५-१२१-७॥
आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम्। येन त्वां नाभिजानन्ति ततोऽज्ञात्वासि पातितः ॥५-१२१-८॥
प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः। स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम् । अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम् ॥५-१२१-९॥
ययातिरुवाच॥
भगवन्संशयो मेऽस्ति कश्चित्तं छेत्तुमर्हसि। न ह्यन्यमहमर्हामि प्रष्टुं लोकपितामह ॥५-१२१-१०॥
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्। अनेकक्रतुदानौघैरर्जितं मे महत्फलम् ॥५-१२१-११॥
कथं तदल्पकालेन क्षीणं येनास्मि पातितः। भगवन्वेत्थ लोकांश्च शाश्वतान्मम निर्जितान् ॥५-१२१-१२॥
पितामह उवाच॥
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्। अनेकक्रतुदानौघैर्यत्त्वयोपार्जितं फलम् ॥५-१२१-१३॥
तदनेनैव दोषेण क्षीणं येनासि पातितः। अभिमानेन राजेन्द्र धिक्कृतः स्वर्गवासिभिः ॥५-१२१-१४॥
नायं मानेन राजर्षे न बलेन न हिंसया। न शाठ्येन न मायाभिर्लोको भवति शाश्वतः ॥५-१२१-१५॥
नावमान्यास्त्वया राजन्नवरोत्कृष्टमध्यमाः। न हि मानप्रदग्धानां कश्चिदस्ति समः क्वचित् ॥५-१२१-१६॥
पतनारोहणमिदं कथयिष्यन्ति ये नराः। विषमाण्यपि ते प्राप्तास्तरिष्यन्ति न संशयः ॥५-१२१-१७॥
नारद उवाच॥
एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना। निर्बन्धतश्चातिमात्रं गालवेन महीपते ॥५-१२१-१८॥
श्रोतव्यं हितकामानां सुहृदां भूतिमिच्छताम्। न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः ॥५-१२१-१९॥
तस्मात्त्वमपि गान्धारे मानं क्रोधं च वर्जय। सन्धत्स्व पाण्डवैर्वीर संरम्भं त्यज पार्थिव ॥५-१२१-२०॥
ददाति यत्पार्थिव यत्करोति; यद्वा तपस्तप्यति यज्जुहोति। न तस्य नाशोऽस्ति न चापकर्षो; नान्यस्तदश्नाति स एव कर्ता ॥५-१२१-२१॥
इदं महाख्यानमनुत्तमं मतं; बहुश्रुतानां गतरोषरागिणाम्। समीक्ष्य लोके बहुधा प्रधाविता; त्रिवर्गदृष्टिः पृथिवीमुपाश्नुते ॥५-१२१-२२॥