05.122
धृतराष्ट्र उवाच॥
भगवन्नेवमेवैतद्यथा वदसि नारद। इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम् ॥५-१२२-१॥
वैशम्पायन उवाच॥
एवमुक्त्वा ततः कृष्णमभ्यभाषत भारत। स्वर्ग्यं लोक्यं च मामात्थ धर्म्यं न्याय्यं च केशव ॥५-१२२-२॥
न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम्। अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम ॥५-१२२-३॥
अनुनेतुं महाबाहो यतस्व पुरुषोत्तम। सुहृत्कार्यं तु सुमहत्कृतं ते स्याज्जनार्दन ॥५-१२२-४॥
ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम्। अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित् ॥५-१२२-५॥
दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम। समर्थं ते विशेषेण सानुबन्धस्य भारत ॥५-१२२-६॥
महाप्राज्ञ कुले जातः साध्वेतत्कर्तुमर्हसि। श्रुतवृत्तोपसम्पन्नः सर्वैः समुदितो गुणैः ॥५-१२२-७॥
दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः। त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे ॥५-१२२-८॥
धर्मार्थयुक्ता लोकेऽस्मिन्प्रवृत्तिर्लक्ष्यते सताम्। असतां विपरीता तु लक्ष्यते भरतर्षभ ॥५-१२२-९॥
विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि। अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान् ॥५-१२२-१०॥
अनेकशस्त्वन्निमित्तमयशस्यं च भारत। तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि ॥५-१२२-११॥
भ्रातॄणामथ भृत्यानां मित्राणां च परन्तप। अधर्म्यादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे ॥५-१२२-१२॥
प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः। सन्धत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ ॥५-१२२-१३॥
तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः। पितामहस्य द्रोणस्य विदुरस्य महामतेः ॥५-१२२-१४॥
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः। अश्वत्थाम्नो विकर्णस्य सञ्जयस्य विशां पते ॥५-१२२-१५॥
ज्ञातीनां चैव भूयिष्ठं मित्राणां च परन्तप। शमे शर्म भवेत्तात सर्वस्य जगतस्तथा ॥५-१२२-१६॥
ह्रीमानसि कुले जातः श्रुतवाननृशंसवान्। तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ ॥५-१२२-१७॥
एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत। उत्तमापद्गतः सर्वः पितुः स्मरति शासनम् ॥५-१२२-१८॥
रोचते ते पितुस्तात पाण्डवैः सह सङ्गमः। सामात्यस्य कुरुश्रेष्ठ तत्तुभ्यं तात रोचताम् ॥५-१२२-१९॥
श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते। विपाकान्ते दहत्येनं किम्पाकमिव भक्षितम् ॥५-१२२-२०॥
यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते। स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते ॥५-१२२-२१॥
यस्तु निःश्रेयसं श्रुत्वा प्राप्तमेवाभिपद्यते। आत्मनो मतमुत्सृज्य स लोके सुखमेधते ॥५-१२२-२२॥
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते। शृणोति प्रतिकूलानि द्विषतां वशमेति सः ॥५-१२२-२३॥
सतां मतमतिक्रम्य योऽसतां वर्तते मते। शोचन्ते व्यसने तस्य सुहृदो नचिरादिव ॥५-१२२-२४॥
मुख्यानमात्यानुत्सृज्य यो निहीनान्निषेवते। स घोरामापदं प्राप्य नोत्तारमधिगच्छति ॥५-१२२-२५॥
योऽसत्सेवी वृथाचारो न श्रोता सुहृदां सदा। परान्वृणीते स्वान्द्वेष्टि तं गौः शपति भारत ॥५-१२२-२६॥
स त्वं विरुध्य तैर्वीरैरन्येभ्यस्त्राणमिच्छसि। अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ ॥५-१२२-२७॥
को हि शक्रसमाञ्ज्ञातीनतिक्रम्य महारथान्। अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः ॥५-१२२-२८॥
जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया। न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः ॥५-१२२-२९॥
मिथ्याप्रचरितास्तात जन्मप्रभृति पाण्डवाः। त्वयि सम्यङ्महाबाहो प्रतिपन्ना यशस्विनः ॥५-१२२-३०॥
त्वयापि प्रतिपत्तव्यं तथैव भरतर्षभ। स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः ॥५-१२२-३१॥
त्रिवर्गयुक्ता प्राज्ञानामारम्भा भरतर्षभ। धर्मार्थावनुरुध्यन्ते त्रिवर्गासम्भवे नराः ॥५-१२२-३२॥
पृथक्तु विनिविष्टानां धर्मं धीरोऽनुरुध्यते। मध्यमोऽर्थं कलिं बालः काममेवानुरुध्यते ॥५-१२२-३३॥
इन्द्रियैः प्रसृतो लोभाद्धर्मं विप्रजहाति यः। कामार्थावनुपायेन लिप्समानो विनश्यति ॥५-१२२-३४॥
कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत्। न हि धर्मादपैत्यर्थः कामो वापि कदाचन ॥५-१२२-३५॥
उपायं धर्ममेवाहुस्त्रिवर्गस्य विशां पते। लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते ॥५-१२२-३६॥
स त्वं तातानुपायेन लिप्ससे भरतर्षभ। आधिराज्यं महद्दीप्तं प्रथितं सर्वराजसु ॥५-१२२-३७॥
आत्मानं तक्षति ह्येष वनं परशुना यथा। यः सम्यग्वर्तमानेषु मिथ्या राजन्प्रवर्तते ॥५-१२२-३८॥
न तस्य हि मतिं छिन्द्याद्यस्य नेच्छेत्पराभवम्। अविच्छिन्नस्य धीरस्य कल्याणे धीयते मतिः ॥५-१२२-३९॥
त्यक्तात्मानं न बाधेत त्रिषु लोकेषु भारत। अप्यन्यं प्राकृतं किञ्चित्किमु तान्पाण्डवर्षभान् ॥५-१२२-४०॥
अमर्षवशमापन्नो न किञ्चिद्बुध्यते नरः। छिद्यते ह्याततं सर्वं प्रमाणं पश्य भारत ॥५-१२२-४१॥
श्रेयस्ते दुर्जनात्तात पाण्डवैः सह सङ्गमः। तैर्हि सम्प्रीयमाणस्त्वं सर्वान्कामानवाप्स्यसि ॥५-१२२-४२॥
पाण्डवैर्निर्जितां भूमिं भुञ्जानो राजसत्तम। पाण्डवान्पृष्ठतः कृत्वा त्राणमाशंससेऽन्यतः ॥५-१२२-४३॥
दुःशासने दुर्विषहे कर्णे चापि ससौबले। एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत ॥५-१२२-४४॥
न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस्तथा। विक्रमे चाप्यपर्याप्ताः पाण्डवान्प्रति भारत ॥५-१२२-४५॥
न हीमे सर्वराजानः पर्याप्ताः सहितास्त्वया। क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखमाहवे ॥५-१२२-४६॥
इदं संनिहितं तात समग्रं पार्थिवं बलम्। अयं भीष्मस्तथा द्रोणः कर्णश्चायं तथा कृपः ॥५-१२२-४७॥
भूरिश्रवाः सौमदत्तिरश्वत्थामा जयद्रथः। अशक्ताः सर्व एवैते प्रतियोद्धुं धनञ्जयम् ॥५-१२२-४८॥
अजेयो ह्यर्जुनः क्रुद्धः सर्वैरपि सुरासुरैः। मानुषैरपि गन्धर्वैर्मा युद्धे चेत आधिथाः ॥५-१२२-४९॥
दृश्यतां वा पुमान्कश्चित्समग्रे पार्थिवे बले। योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद्गृहान् ॥५-१२२-५०॥
किं ते जनक्षयेणेह कृतेन भरतर्षभ। यस्मिञ्जिते जितं ते स्यात्पुमानेकः स दृश्यताम् ॥५-१२२-५१॥
यः स देवान्सगन्धर्वान्सयक्षासुरपन्नगान्। अजयत्खाण्डवप्रस्थे कस्तं युध्येत मानवः ॥५-१२२-५२॥
तथा विराटनगरे श्रूयते महदद्भुतम्। एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ॥५-१२२-५३॥
तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम्। आशंससीह समरे वीरमर्जुनमूर्जितम् ॥५-१२२-५४॥
मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमर्हति। युद्धे प्रतीपमायान्तमपि साक्षात्पुरंदरः ॥५-१२२-५५॥
बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः। पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ॥५-१२२-५६॥
पश्य पुत्रांस्तथा भ्रातॄञ्ज्ञातीन्सम्बन्धिनस्तथा। त्वत्कृते न विनश्येयुरेते भरतसत्तम ॥५-१२२-५७॥
अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम्। कुलघ्न इति नोच्येथा नष्टकीर्तिर्नराधिप ॥५-१२२-५८॥
त्वामेव स्थापयिष्यन्ति यौवराज्ये महारथाः। महाराज्ये च पितरं धृतराष्ट्रं जनेश्वरम् ॥५-१२२-५९॥
मा तात श्रियमायान्तीमवमंस्थाः समुद्यताम्। अर्धं प्रदाय पार्थेभ्यो महतीं श्रियमाप्स्यसि ॥५-१२२-६०॥
पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः। सम्प्रीयमाणो मित्रैश्च चिरं भद्राण्यवाप्स्यसि ॥५-१२२-६१॥