05.123
वैशम्पायन उवाच॥
ततः शान्तनवो भीष्मो दुर्योधनममर्षणम्। केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षभ ॥५-१२३-१॥
कृष्णेन वाक्यमुक्तोऽसि सुहृदां शममिच्छता। अनुपश्यस्व तत्तात मा मन्युवशमन्वगाः ॥५-१२३-२॥
अकृत्वा वचनं तात केशवस्य महात्मनः। श्रेयो न जातु न सुखं न कल्याणमवाप्स्यसि ॥५-१२३-३॥
धर्म्यमर्थं महाबाहुराह त्वां तात केशवः। तमर्थमभिपद्यस्व मा राजन्नीनशः प्रजाः ॥५-१२३-४॥
इमां श्रियं प्रज्वलितां भारतीं सर्वराजसु। जीवतो धृतराष्ट्रस्य दौरात्म्याद्भ्रंशयिष्यसि ॥५-१२३-५॥
आत्मानं च सहामात्यं सपुत्रपशुबान्धवम्। सहमित्रमसद्बुद्ध्या जीविताद्भ्रंशयिष्यसि ॥५-१२३-६॥
अतिक्रामन्केशवस्य तथ्यं वचनमर्थवत्। पितुश्च भरतश्रेष्ठ विदुरस्य च धीमतः ॥५-१२३-७॥
मा कुलघ्नोऽन्तपुरुषो दुर्मतिः कापथं गमः। पितरं मातरं चैव वृद्धौ शोकाय मा ददः ॥५-१२३-८॥
अथ द्रोणोऽब्रवीत्तत्र दुर्योधनमिदं वचः। अमर्षवशमापन्नं निःश्वसन्तं पुनः पुनः ॥५-१२३-९॥
धर्मार्थयुक्तं वचनमाह त्वां तात केशवः। तथा भीष्मः शान्तनवस्तज्जुषस्व नराधिप ॥५-१२३-१०॥
प्राज्ञौ मेधाविनौ दान्तावर्थकामौ बहुश्रुतौ। आहतुस्त्वां हितं वाक्यं तदादत्स्व परन्तप ॥५-१२३-११॥
अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यदूचतुः। मा वचो लघुबुद्धीनां समास्थास्त्वं परन्तप ॥५-१२३-१२॥
ये त्वां प्रोत्साहयन्त्येते नैते कृत्याय कर्हिचित्। वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे ॥५-१२३-१३॥
मा कुरूञ्जीघनः सर्वान्पुत्रान्भ्रातॄंस्तथैव च। वासुदेवार्जुनौ यत्र विद्ध्यजेयं बलं हि तत् ॥५-१२३-१४॥
एतच्चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः। यदि नादास्यसे तात पश्चात्तप्स्यसि भारत ॥५-१२३-१५॥
यथोक्तं जामदग्न्येन भूयानेव ततोऽर्जुनः। कृष्णो हि देवकीपुत्रो देवैरपि दुरुत्सहः ॥५-१२३-१६॥
किं ते सुखप्रियेणेह प्रोक्तेन भरतर्षभ। एतत्ते सर्वमाख्यातं यथेच्छसि तथा कुरु । न हि त्वामुत्सहे वक्तुं भूयो भरतसत्तम ॥५-१२३-१७॥
तस्मिन्वाक्यान्तरे वाक्यं क्षत्तापि विदुरोऽब्रवीत्। दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् ॥५-१२३-१८॥
दुर्योधन न शोचामि त्वामहं भरतर्षभ। इमौ तु वृद्धौ शोचामि गान्धारीं पितरं च ते ॥५-१२३-१९॥
यावनाथौ चरिष्येते त्वया नाथेन दुर्हृदा। हतमित्रौ हतामात्यौ लूनपक्षाविव द्विजौ ॥५-१२३-२०॥
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम्। कुलघ्नमीदृशं पापं जनयित्वा कुपूरुषम् ॥५-१२३-२१॥
अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत। आसीनं भ्रातृभिः सार्धं राजभिः परिवारितम् ॥५-१२३-२२॥
दुर्योधन निबोधेदं शौरिणोक्तं महात्मना। आदत्स्व शिवमत्यन्तं योगक्षेमवदव्ययम् ॥५-१२३-२३॥
अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा। इष्टान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु ॥५-१२३-२४॥
सुसंहितः केशवेन गच्छ तात युधिष्ठिरम्। चर स्वस्त्ययनं कृत्स्नं भारतानामनामयम् ॥५-१२३-२५॥
वासुदेवेन तीर्थेन तात गच्छस्व सङ्गमम्। कालप्राप्तमिदं मन्ये मा त्वं दुर्योधनातिगाः ॥५-१२३-२६॥
शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम्। त्वदर्थमभिजल्पन्तं न तवास्त्यपराभवः ॥५-१२३-२७॥