Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.124
वैशम्पायन उवाच॥
धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समर्थ्य तौ। दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ॥५-१२४-१॥
यावत्कृष्णावसंनद्धौ यावत्तिष्ठति गाण्डिवम्। यावद्धौम्यो न सेनाग्नौ जुहोतीह द्विषद्बलम् ॥५-१२४-२॥
यावन्न प्रेक्षते क्रुद्धः सेनां तव युधिष्ठिरः। ह्रीनिषेधो महेष्वासस्तावच्छाम्यतु वैशसम् ॥५-१२४-३॥
यावन्न दृष्यते पार्थः स्वेष्वनीकेष्ववस्थितः। भीमसेनो महेष्वासस्तावच्छाम्यतु वैशसम् ॥५-१२४-४॥
यावन्न चरते मार्गान्पृतनामभिहर्षयन्। यावन्न शातयत्याजौ शिरांसि गजयोधिनाम् ॥५-१२४-५॥
गदया वीरघातिन्या फलानीव वनस्पतेः। कालेन परिपक्वानि तावच्छाम्यतु वैशसम् ॥५-१२४-६॥
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः। विराटश्च शिखण्डी च शैशुपालिश्च दंशिताः ॥५-१२४-७॥
यावन्न प्रविशन्त्येते नक्रा इव महार्णवम्। कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम् ॥५-१२४-८॥
यावन्न सुकुमारेषु शरीरेषु महीक्षिताम्। गार्ध्रपत्राः पतन्त्युग्रास्तावच्छाम्यतु वैशसम् ॥५-१२४-९॥
चन्दनागरुदिग्धेषु हारनिष्कधरेषु च। नोरःसु यावद्योधानां महेष्वासैर्महेषवः ॥५-१२४-१०॥
कृतास्त्रैः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः। अभिलक्ष्यैर्निपात्यन्ते तावच्छाम्यतु वैशसम् ॥५-१२४-११॥
अभिवादयमानं त्वां शिरसा राजकुञ्जरः। पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः ॥५-१२४-१२॥
ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः। स्कन्धे निक्षिपतां बाहुं शान्तये भरतर्षभ ॥५-१२४-१३॥
रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च। उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु ॥५-१२४-१४॥
शालस्कन्धो महाबाहुस्त्वां स्वजानो वृकोदरः। साम्नाभिवदतां चापि शान्तये भरतर्षभ ॥५-१२४-१५॥
अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः। मूर्ध्नि तान्समुपाघ्राय प्रेम्णाभिवद पार्थिव ॥५-१२४-१६॥
दृष्ट्वा त्वां पाण्डवैर्वीरैर्भ्रातृभिः सह सङ्गतम्। यावदानन्दजाश्रूणि प्रमुञ्चन्तु नराधिपाः ॥५-१२४-१७॥
घुष्यतां राजधानीषु सर्वसम्पन्महीक्षिताम्। पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव ॥५-१२४-१८॥