Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.153
Pancharatra-Core: Duryodhana appoints Bhishma to lead Kaurava army, and Karna stays away as per Bhishma's condition.
वैशम्पायन उवाच॥
ततः शान्तनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः। सह सर्वैर्महीपालैरिदं वचनमब्रवीत् ॥५-१५३-१॥
ऋते सेनाप्रणेतारं पृतना सुमहत्यपि। दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा ॥५-१५३-२॥
न हि जातु द्वयोर्बुद्धिः समा भवति कर्हिचित्। शौर्यं च नाम नेतॄणां स्पर्धते च परस्परम् ॥५-१५३-३॥
श्रूयते च महाप्राज्ञ हैहयानमितौजसः। अभ्ययुर्ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः ॥५-१५३-४॥
तानन्वयुस्तदा वैश्याः शूद्राश्चैव पितामह। एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः ॥५-१५३-५॥
ते स्म युद्धेष्वभज्यन्त त्रयो वर्णाः पुनः पुनः। क्षत्रियास्तु जयन्त्येव बहुलं चैकतो बलम् ॥५-१५३-६॥
ततस्ते क्षत्रियानेव पप्रच्छुर्द्विजसत्तमाः। तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह ॥५-१५३-७॥
वयमेकस्य शृणुमो महाबुद्धिमतो रणे। भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः ॥५-१५३-८॥
ततस्ते ब्राह्मणाश्चक्रुरेकं सेनापतिं द्विजम्। नयेषु कुशलं शूरमजयन्क्षत्रियांस्ततः ॥५-१५३-९॥
एवं ये कुशलं शूरं हिते स्थितमकल्मषम्। सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून् ॥५-१५३-१०॥
भवानुशनसा तुल्यो हितैषी च सदा मम। असंहार्यः स्थितो धर्मे स नः सेनापतिर्भव ॥५-१५३-११॥
रश्मीवतामिवादित्यो वीरुधामिव चन्द्रमाः। कुबेर इव यक्षाणां मरुतामिव वासवः ॥५-१५३-१२॥
पर्वतानां यथा मेरुः सुपर्णः पततामिव। कुमार इव भूतानां वसूनामिव हव्यवाट् ॥५-१५३-१३॥
भवता हि वयं गुप्ताः शक्रेणेव दिवौकसः। अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम् ॥५-१५३-१४॥
प्रयातु नो भवानग्रे देवानामिव पावकिः। वयं त्वामनुयास्यामः सौरभेया इवर्षभम् ॥५-१५३-१५॥
भीष्म उवाच॥
एवमेतन्महाबाहो यथा वदसि भारत। यथैव हि भवन्तो मे तथैव मम पाण्डवाः ॥५-१५३-१६॥
अपि चैव मय श्रेयो वाच्यं तेषां नराधिप। योद्धव्यं तु तवार्थाय यथा स समयः कृतः ॥५-१५३-१७॥
न तु पश्यामि योद्धारमात्मनः सदृशं भुवि। ऋते तस्मान्नरव्याघ्रात्कुन्तीपुत्राद्धनञ्जयात् ॥५-१५३-१८॥
स हि वेद महाबाहुर्दिव्यान्यस्त्राणि सर्वशः। न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः ॥५-१५३-१९॥
अहं स च क्षणेनैव निर्मनुष्यमिदं जगत्। कुर्यां शस्त्रबलेनैव ससुरासुरराक्षसम् ॥५-१५३-२०॥
न त्वेवोत्सादनीया मे पाण्डोः पुत्रा नराधिप। तस्माद्योधान्हनिष्यामि प्रयोगेणायुतं सदा ॥५-१५३-२१॥
एवमेषां करिष्यामि निधनं कुरुनन्दन। न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे ॥५-१५३-२२॥
सेनापतिस्त्वहं राजन्समयेनापरेण ते। भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि ॥५-१५३-२३॥
कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते। स्पर्धते हि सदात्यर्थं सूतपुत्रो मया रणे ॥५-१५३-२४॥
कर्ण उवाच॥
नाहं जीवति गाङ्गेये योत्स्ये राजन्कथञ्चन। हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना ॥५-१५३-२५॥
वैशम्पायन उवाच॥
ततः सेनापतिं चक्रे विधिवद्भूरिदक्षिणम्। धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत ॥५-१५३-२६॥
ततो भेरीश्च शङ्खांश्च शतशश्चैव पुष्करान्। वादयामासुरव्यग्राः पुरुषा राजशासनात् ॥५-१५३-२७॥
सिंहनादाश्च विविधा वाहनानां च निस्वनाः। प्रादुरासन्ननभ्रे च वर्षं रुधिरकर्दमम् ॥५-१५३-२८॥
निर्घाताः पृथिवीकम्पा गजबृंहितनिस्वनाः। आसंश्च सर्वयोधानां पातयन्तो मनांस्युत ॥५-१५३-२९॥
वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे। शिवाश्च भयवेदिन्यो नेदुर्दीप्तस्वरा भृशम् ॥५-१५३-३०॥
सेनापत्ये यदा राजा गाङ्गेयमभिषिक्तवान्। तदैतान्युग्ररूपाणि अभवञ्शतशो नृप ॥५-१५३-३१॥
ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम्। वाचयित्वा द्विजश्रेष्ठान्निष्कैर्गोभिश्च भूरिशः ॥५-१५३-३२॥
वर्धमानो जयाशीर्भिर्निर्ययौ सैनिकैर्वृतः। आपगेयं पुरस्कृत्य भ्रातृभिः सहितस्तदा ॥ स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह ॥५-१५३-३३॥
परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः। शिबिरं मापयामास समे देशे नराधिपः ॥५-१५३-३४॥
मधुरानूषरे देशे प्रभूतयवसेन्धने। यथैव हास्तिनपुरं तद्वच्छिबिरमाबभौ ॥५-१५३-३५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.