05.154
Pancharatra-Core: Seven commanders and Drishtadyumna as commander-in-chief appointed by Yudhisthira. Balarama visits and departs, unwilling to witness the great destruction about to take place.
जनमेजय उवाच॥
आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम्। पितामहं भारतानां ध्वजं सर्वमहीक्षिताम् ॥५-१५४-१॥
बृहस्पतिसमं बुद्ध्या क्षमया पृथिवीसमम्। समुद्रमिव गाम्भीर्ये हिमवन्तमिव स्थिरम् ॥५-१५४-२॥
प्रजापतिमिवौदार्ये तेजसा भास्करोपमम्। महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः ॥५-१५४-३॥
रणयज्ञे प्रतिभये स्वाभीले लोमहर्षणे। दीक्षितं चिररात्राय श्रुत्वा राजा युधिष्ठिरः ॥५-१५४-४॥
किमब्रवीन्महाबाहुः सर्वधर्मविशारदः। भीमसेनार्जुनौ वापि कृष्णो वा प्रत्यपद्यत ॥५-१५४-५॥
वैशम्पायन उवाच॥
आपद्धर्मार्थकुशलो महाबुद्धिर्युधिष्ठिरः। सर्वान्भ्रातॄन्समानीय वासुदेवं च सात्वतम् ॥ उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः ॥५-१५४-६॥
पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः। पितामहेन वो युद्धं पूर्वमेव भविष्यति ॥५-१५४-७॥
तस्मात्सप्तसु सेनासु प्रणेतॄन्मम पश्यत ॥५-१५४-७॥
वासुदेव उवाच॥
यथार्हति भवान्वक्तुमस्मिन्काल उपस्थिते। तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ ॥५-१५४-८॥
रोचते मे महाबाहो क्रियतां यदनन्तरम्। नायकास्तव सेनायामभिषिच्यन्तु सप्त वै ॥५-१५४-९॥
वैशम्पायन उवाच॥
ततो द्रुपदमानाय्य विराटं शिनिपुङ्गवम्। धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिवम् ॥ शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम् ॥५-१५४-१०॥
एतान्सप्त महेष्वासान्वीरान्युद्धाभिनन्दिनः। सेनाप्रणेतॄन्विधिवदभ्यषिञ्चद्युधिष्ठिरः ॥५-१५४-११॥
सर्वसेनापतिं चात्र धृष्टद्युम्नमुपादिशत्। द्रोणान्तहेतोरुत्पन्नो य इद्धाञ्जातवेदसः ॥५-१५४-१२॥
सर्वेषामेव तेषां तु समस्तानां महात्मनाम्। सेनापतिपतिं चक्रे गुडाकेशं धनञ्जयम् ॥५-१५४-१३॥
अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम्। सङ्कर्षणानुजः श्रीमान्महाबुद्धिर्जनार्दनः ॥५-१५४-१४॥
तद्दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम्। प्राविशद्भवनं राज्ञः पाण्डवस्य हलायुधः ॥५-१५४-१५॥
सहाक्रूरप्रभृतिभिर्गदसाम्बोल्मुकादिभिः। रौक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः ॥५-१५४-१६॥
वृष्णिमुख्यैरभिगतैर्व्याघ्रैरिव बलोत्कटैः। अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः ॥५-१५४-१७॥
नीलकौशेयवसनः कैलासशिखरोपमः। सिंहखेलगतिः श्रीमान्मदरक्तान्तलोचनः ॥५-१५४-१८॥
तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः। उदतिष्ठत्तदा पार्थो भीमकर्मा वृकोदरः ॥५-१५४-१९॥
गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन। पूजयां चक्रुरभ्येत्य ते स्म सर्वे हलायुधम् ॥५-१५४-२०॥
ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना। वासुदेवपुरोगास्तु सर्व एवाभ्यवादयन् ॥५-१५४-२१॥
विराटद्रुपदौ वृद्धावभिवाद्य हलायुधः। युधिष्ठिरेण सहित उपाविशदरिंदमः ॥५-१५४-२२॥
ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः। वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत ॥५-१५४-२३॥
भवितायं महारौद्रो दारुणः पुरुषक्षयः। दिष्टमेतद्ध्रुवं मन्ये न शक्यमतिवर्तितुम् ॥५-१५४-२४॥
अस्माद्युद्धात्समुत्तीर्णानपि वः ससुहृज्जनान्। अरोगानक्षतैर्देहैः पश्येयमिति मे मतिः ॥५-१५४-२५॥
समेतं पार्थिवं क्षत्रं कालपक्वमसंशयम्। विमर्दः सुमहान्भावी मांसशोणितकर्दमः ॥५-१५४-२६॥
उक्तो मया वासुदेवः पुनः पुनरुपह्वरे। सम्बन्धिषु समां वृत्तिं वर्तस्व मधुसूदन ॥५-१५४-२७॥
पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः। तस्यापि क्रियतां युक्त्या सपर्येति पुनः पुनः ॥५-१५४-२८॥
तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः। निविष्टः सर्वभावेन धनञ्जयमवेक्ष्य च ॥५-१५४-२९॥
ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः। तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत ॥५-१५४-३०॥
न चाहमुत्सहे कृष्णमृते लोकमुदीक्षितुम्। ततोऽहमनुवर्तामि केशवस्य चिकीर्षितम् ॥५-१५४-३१॥
उभौ शिष्यौ हि मे वीरौ गदायुद्धविशारदौ। तुल्यस्नेहोऽस्म्यतो भीमे तथा दुर्योधने नृपे ॥५-१५४-३२॥
तस्माद्यास्यामि तीर्थानि सरस्वत्या निषेवितुम्। न हि शक्ष्यामि कौरव्यान्नश्यमानानुपेक्षितुम् ॥५-१५४-३३॥
एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः। तीर्थयात्रां ययौ रामो निवर्त्य मधुसूदनम् ॥५-१५४-३४॥