Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.152
Core: Preparation of 11 divisions of the army from the Kauravas and 7 divisions from the Pandavas.
वैशम्पायन उवाच॥
व्युषितायां रजन्यां तु राजा दुर्योधनस्ततः। व्यभजत्तान्यनीकानि दश चैकं च भारत ॥५-१५२-१॥
नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च। सर्वेष्वेतेष्वनीकेषु संदिदेश महीपतिः ॥५-१५२-२॥
सानुकर्षाः सतूणीराः सवरूथाः सतोमराः। सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सपोथिकाः ॥५-१५२-३॥
सध्वजाः सपताकाश्च सशरासनतोमराः। रज्जुभिश्च विचित्राभिः सपाशाः सपरिस्तराः ॥५-१५२-४॥
सकचग्रहविक्षेपाः सतैलगुडवालुकाः। साशीविषघटाः सर्वे ससर्जरसपांसवः ॥५-१५२-५॥
सघण्टाफलकाः सर्वे वासीवृक्षादनान्विताः। व्याघ्रचर्मपरीवारा वृताश्च द्वीपिचर्मभिः ॥५-१५२-६॥
सवस्तयः सशृङ्गाश्च सप्रासविविधायुधाः। सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः ॥५-१५२-७॥
चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः। तथा कवचिनः शूराः शस्त्रेषु कृतनिश्रमाः ॥५-१५२-८॥
कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः। बद्धारिष्टा बद्धकक्ष्या बद्धध्वजपताकिनः ॥५-१५२-९॥
चतुर्युजो रथाः सर्वे सर्वे शस्त्रसमायुताः। संहृष्टवाहनाः सर्वे सर्वे शतशरासनाः ॥५-१५२-१०॥
धुर्ययोर्हययोरेकस्तथान्यौ पार्ष्णिसारथी। तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा ॥५-१५२-११॥
नगराणीव गुप्तानि दुरादेयानि शत्रुभिः। आसन्रथसहस्राणि हेममालीनि सर्वशः ॥५-१५२-१२॥
यथा रथास्तथा नागा बद्धकक्ष्याः स्वलङ्कृताः। बभूवुः सप्त पुरुषा रत्नवन्त इवाद्रयः ॥५-१५२-१३॥
द्वावङ्कुशधरौ तेषु द्वावुत्तमधनुर्धरौ। द्वौ वरासिधरौ राजन्नेकः शक्तिपताकधृक् ॥५-१५२-१४॥
गजैर्मत्तैः समाकीर्णं सवर्मायुधकोशकैः। तद्बभूव बलं राजन्कौरव्यस्य सहस्रशः ॥५-१५२-१५॥
विचित्रकवचामुक्तैः सपताकैः स्वलङ्कृतैः। सादिभिश्चोपसम्पन्ना आसन्नयुतशो हयाः ॥५-१५२-१६॥
सुसङ्ग्राहाः सुसन्तोषा हेमभाण्डपरिच्छदाः। अनेकशतसाहस्रास्ते च सादिवशे स्थिताः ॥५-१५२-१७॥
नानारूपविकाराश्च नानाकवचशस्त्रिणः। पदातिनो नरास्तत्र बभूवुर्हेममालिनः ॥५-१५२-१८॥
रथस्यासन्दश गजा गजस्य दश वाजिनः। नरा दश हयस्यासन्पादरक्षाः समन्ततः ॥५-१५२-१९॥
रथस्य नागाः पञ्चाशन्नागस्यासञ्शतं हयाः। हयस्य पुरुषाः सप्त भिन्नसन्धानकारिणः ॥५-१५२-२०॥
सेना पञ्चशतं नागा रथास्तावन्त एव च। दशसेना च पृतना पृतना दशवाहिनी ॥५-१५२-२१॥
वाहिनी पृतना सेना ध्वजिनी सादिनी चमूः। अक्षौहिणीति पर्यायैर्निरुक्ताथ वरूथिनी ॥ एवं व्यूढान्यनीकानि कौरवेयेण धीमता ॥५-१५२-२२॥
अक्षौहिण्यो दशैका च सङ्ख्याताः सप्त चैव ह। अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूद्बलम् ॥ अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम् ॥५-१५२-२३॥
नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते। सेनामुखं च तिस्रस्ता गुल्म इत्यभिसञ्ज्ञितः ॥५-१५२-२४॥
दश गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन्। दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः ॥५-१५२-२५॥
तत्र दुर्योधनो राजा शूरान्बुद्धिमतो नरान्। प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा ॥५-१५२-२६॥
पृथगक्षौहिणीनां च प्रणेतॄन्नरसत्तमान्। विधिपूर्वं समानीय पार्थिवानभ्यषेचयत् ॥५-१५२-२७॥
कृपं द्रोणं च शल्यं च सैन्धवं च महारथम्। सुदक्षिणं च काम्बोजं कृतवर्माणमेव च ॥५-१५२-२८॥
द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च। शकुनिं सौबलं चैव बाह्लीकं च महारथम् ॥५-१५२-२९॥
दिवसे दिवसे तेषां प्रतिवेलं च भारत। चक्रे स विविधाः सञ्ज्ञाः प्रत्यक्षं च पुनः पुनः ॥५-१५२-३०॥
तथा विनियताः सर्वे ये च तेषां पदानुगाः। बभूवुः सैनिका राजन्राज्ञः प्रियचिकीर्षवः ॥५-१५२-३१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.