05.156
Core: Narration of war by Sanjaya to Dhritarashtra starts.
जनमेजय उवाच॥
तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ। किमकुर्वन्त कुरवः कालेनाभिप्रचोदिताः ॥५-१५६-१॥
वैशम्पायन उवाच॥
तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ। धृतराष्ट्रो महाराज सञ्जयं वाक्यमब्रवीत् ॥५-१५६-२॥
एहि सञ्जय मे सर्वमाचक्ष्वानवशेषतः। सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः ॥५-१५६-३॥
दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम्। यदहं जानमानोऽपि युद्धदोषान्क्षयोदयान् ॥५-१५६-४॥
तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम्। न शक्नोमि नियन्तुं वा कर्तुं वा हितमात्मनः ॥५-१५६-५॥
भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी। दुर्योधनं समासाद्य पुनः सा परिवर्तते ॥५-१५६-६॥
एवं गते वै यद्भावि तद्भविष्यति सञ्जय। क्षत्रधर्मः किल रणे तनुत्यागोऽभिपूजितः ॥५-१५६-७॥
सञ्जय उवाच॥
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि। न तु दुर्योधने दोषमिममासक्तुमर्हसि ॥ शृणुष्वानवशेषेण वदतो मम पार्थिव ॥५-१५६-८॥
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः। एनसा न स दैवं वा कालं वा गन्तुमर्हति ॥५-१५६-९॥
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत्। स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ॥५-१५६-१०॥
निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया। अनुभूताः सहामात्यैर्निकृतैरधिदेवने ॥५-१५६-११॥
हयानां च गजानां च राज्ञां चामिततेजसाम्। वैशसं समरे वृत्तं यत्तन्मे शृणु सर्वशः ॥५-१५६-१२॥
स्थिरो भूत्वा महाराज सर्वलोकक्षयोदयम्। यथाभूतं महायुद्धे श्रुत्वा मा विमना भव ॥५-१५६-१३॥
न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः। अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत् ॥५-१५६-१४॥
केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया। पूर्वकर्मभिरप्यन्ये त्रैधमेतद्विकृष्यते ॥५-१५६-१५॥