05.157
Pancharatra-core: Shakuni and Dushasana send a stern teaser to Pandavas through Uluka.
सञ्जय उवाच॥
हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु। दुर्योधनो महाराज कर्णेन सह भारत ॥५-१५७-१॥
सौबलेन च राजेन्द्र तथा दुःशासनेन च। आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत् ॥५-१५७-२॥
उलूक गच्छ कैतव्य पाण्डवान्सहसोमकान्। गत्वा मम वचो ब्रूहि वासुदेवस्य शृण्वतः ॥५-१५७-३॥
इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम्। पाण्डवानां कुरूणां च युद्धं लोकभयङ्करम् ॥५-१५७-४॥
यदेतत्कत्थनावाक्यं सञ्जयो महदब्रवीत्। मध्ये कुरूणां कौन्तेय तस्य कालोऽयमागतः ॥ यथा वः सम्प्रतिज्ञातं तत्सर्वं क्रियतामिति ॥५-१५७-५॥
अमर्षं राज्यहरणं वनवासं च पाण्डव। द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव ॥५-१५७-६॥
यदर्थं क्षत्रिया सूते गर्भं तदिदमागतम्। बलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम् ॥ पौरुषं दर्शयन्युद्धे कोपस्य कुरु निष्कृतिम् ॥५-१५७-७॥
परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च। न स्फुटेद्धृदयं कस्य ऐश्वर्याद्भ्रंशितस्य च ॥५-१५७-८॥
कुले जातस्य शूरस्य परवित्तेषु गृध्यतः। आच्छिन्नं राज्यमाक्रम्य कोपं कस्य न दीपयेत् ॥५-१५७-९॥
यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम्। अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः ॥५-१५७-१०॥
अमित्राणां वशे स्थानं राज्यस्य च पुनर्भवः। द्वावर्थौ युध्यमानस्य तस्मात्कुरुत पौरुषम् ॥५-१५७-११॥
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्। अथ वा निहतोऽस्माभिर्वीरलोकं गमिष्यसि ॥५-१५७-१२॥
राष्ट्रात्प्रव्राजनं क्लेशं वनवासं च पाण्डव। कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव ॥५-१५७-१३॥
अप्रियाणां च वचने प्रव्रजत्सु पुनः पुनः। अमर्षं दर्शयाद्य त्वममर्षो ह्येव पौरुषम् ॥५-१५७-१४॥
क्रोधो बलं तथा वीर्यं ज्ञानयोगोऽस्त्रलाघवम्। इह ते पार्थ दृश्यन्तां सङ्ग्रामे पुरुषो भव ॥५-१५७-१५॥
तं च तूबरकं मूढं बह्वाशिनमविद्यकम्। उलूक मद्वचो ब्रूया असकृद्भीमसेनकम् ॥५-१५७-१६॥
अशक्तेनैव यच्छप्तं सभामध्ये वृकोदर। दुःशासनस्य रुधिरं पीयतां यदि शक्यते ॥५-१५७-१७॥
लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम्। पुष्टास्तेऽश्वा भृता योधाः श्वो युध्यस्व सकेशवः ॥५-१५७-१८॥