05.155
Pancharatra: Rukmi also visits and shows his arrogance telling he will help. Arjuna rejects his help and Rukmi proceeds on a pilgrimage.
वैशम्पायन उवाच॥
एतस्मिन्नेव काले तु भीष्मकस्य महात्मनः। हिरण्यलोम्नो नृपतेः साक्षादिन्द्रसखस्य वै ॥५-१५५-१॥
आहृतीनामधिपतेर्भोजस्यातियशस्विनः। दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः ॥५-१५५-२॥
यः किम्पुरुषसिंहस्य गन्धमादनवासिनः। शिष्यः कृत्स्नं धनुर्वेदं चतुष्पादमवाप्तवान् ॥५-१५५-३॥
यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा। शार्ङ्गेण च महाबाहुः संमितं दिव्यमक्षयम् ॥५-१५५-४॥
त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम्। वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः ॥५-१५५-५॥
शार्ङ्गं तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः। धारयामास यत्कृष्णः परसेनाभयावहम् ॥५-१५५-६॥
गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः। द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत ॥५-१५५-७॥
सञ्छिद्य मौरवान्पाशान्निहत्य मुरमोजसा। निर्जित्य नरकं भौममाहृत्य मणिकुण्डले ॥५-१५५-८॥
षोडश स्त्रीसहस्राणि रत्नानि विविधानि च। प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम् ॥५-१५५-९॥
रुक्मी तु विजयं लब्ध्वा धनुर्मेघसमस्वनम्। विभीषयन्निव जगत्पाण्डवानभ्यवर्तत ॥५-१५५-१०॥
नामृष्यत पुरा योऽसौ स्वबाहुबलदर्पितः। रुक्मिण्या हरणं वीरो वासुदेवेन धीमता ॥५-१५५-११॥
कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्यामि केशवम्। ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरम् ॥५-१५५-१२॥
सेनया चतुरङ्गिण्या महत्या दूरपातया। विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया ॥५-१५५-१३॥
स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम्। व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम् ॥५-१५५-१४॥
यत्रैव कृष्णेन रणे निर्जितः परवीरहा। तत्र भोजकटं नाम चक्रे नगरमुत्तमम् ॥५-१५५-१५॥
सैन्येन महता तेन प्रभूतगजवाजिना। पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप ॥५-१५५-१६॥
स भोजराजः सैन्येन महता परिवारितः। अक्षौहिण्या महावीर्यः पाण्डवान्समुपागमत् ॥५-१५५-१७॥
ततः स कवची खड्गी शरी धन्वी तली रथी। ध्वजेनादित्यवर्णेन प्रविवेश महाचमूम् ॥५-१५५-१८॥
विदितः पाण्डवेयानां वासुदेवप्रियेप्सया। युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत् ॥५-१५५-१९॥
स पूजितः पाण्डुसुतैर्यथान्यायं सुसत्कृतः। प्रतिपूज्य च तान्सर्वान्विश्रान्तः सहसैनिकः ॥ उवाच मध्ये वीराणां कुन्तीपुत्रं धनञ्जयम् ॥५-१५५-२०॥
सहायोऽस्मि स्थितो युद्धे यदि भीतोऽसि पाण्डव। करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः ॥५-१५५-२१॥
न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन। निहत्य समरे शत्रूंस्तव दास्यामि फल्गुन ॥५-१५५-२२॥
इत्युक्तो धर्मराजस्य केशवस्य च संनिधौ। शृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः ॥५-१५५-२३॥
वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम्। उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम् ॥५-१५५-२४॥
युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः। सहायो घोषयात्रायां कस्तदासीत्सखा मम ॥५-१५५-२५॥
तथा प्रतिभये तस्मिन्देवदानवसङ्कुले। खाण्डवे युध्यमानस्य कः सहायस्तदाभवत् ॥५-१५५-२६॥
निवातकवचैर्युद्धे कालकेयैश्च दानवैः। तत्र मे युध्यमानस्य कः सहायस्तदाभवत् ॥५-१५५-२७॥
तथा विराटनगरे कुरुभिः सह सङ्गरे। युध्यतो बहुभिस्तात कः सहायोऽभवन्मम ॥५-१५५-२८॥
उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम्। वरुणं पावकं चैव कृपं द्रोणं च माधवम् ॥५-१५५-२९॥
धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम्। अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः ॥५-१५५-३०॥
कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः। द्रोणं व्यपदिशञ्शिष्यो वासुदेवसहायवान् ॥५-१५५-३१॥
कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीत्ययशस्करम्। वचनं नरशार्दूल वज्रायुधमपि स्वयम् ॥५-१५५-३२॥
नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे। यथाकामं यथायोगं गच्छ वान्यत्र तिष्ठ वा ॥५-१५५-३३॥
विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम्। दुर्योधनमुपागच्छत्तथैव भरतर्षभ ॥५-१५५-३४॥
तथैव चाभिगम्यैनमुवाच स नराधिपः। प्रत्याख्यातश्च तेनापि स तदा शूरमानिना ॥५-१५५-३५॥
द्वावेव तु महाराज तस्माद्युद्धाद्व्यपेयतुः। रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिपः ॥५-१५५-३६॥
गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा। उपाविशन्पाण्डवेया मन्त्राय पुनरेव हि ॥५-१५५-३७॥
समितिर्धर्मराजस्य सा पार्थिवसमाकुला। शुशुभे तारकाचित्रा द्यौश्चन्द्रेणेव भारत ॥५-१५५-३८॥