Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.162
Pancharatra-Core: Asked by Duryodhana, Bhishma describes the army of Vauravas.
धृतराष्ट्र उवाच॥
प्रतिज्ञाते फल्गुनेन वधे भीष्मस्य सञ्जय। किमकुर्वन्त मे मन्दाः पुत्रा दुर्योधनादयः ॥५-१६२-१॥
हतमेव हि पश्यामि गाङ्गेयं पितरं रणे। वासुदेवसहायेन पार्थेन दृढधन्वना ॥५-१६२-२॥
स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम्। किमुक्तवान्महेष्वासो भीष्मः प्रहरतां वरः ॥५-१६२-३॥
सेनापत्यं च सम्प्राप्य कौरवाणां धुरन्धरः। किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः ॥५-१६२-४॥
वैशम्पायन उवाच॥
ततस्तत्सञ्जयस्तस्मै सर्वमेव न्यवेदयत्। यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा ॥५-१६२-५॥
सञ्जय उवाच॥
सेनापत्यमनुप्राप्य भीष्मः शान्तनवो नृप। दुर्योधनमुवाचेदं वचनं हर्षयन्निव ॥५-१६२-६॥
नमस्कृत्वा कुमाराय सेनान्ये शक्तिपाणये। अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः ॥५-१६२-७॥
सेनाकर्मण्यभिज्ञोऽस्मि व्यूहेषु विविधेषु च। कर्म कारयितुं चैव भृतानप्यभृतांस्तथा ॥५-१६२-८॥
यात्रायानेषु युद्धेषु लब्धप्रशमनेषु च। भृशं वेद महाराज यथा वेद बृहस्पतिः ॥५-१६२-९॥
व्यूहानपि महारम्भान्दैवगान्धर्वमानुषान्। तैरहं मोहयिष्यामि पाण्डवान्व्येतु ते ज्वरः ॥५-१६२-१०॥
सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम्। यथावच्छास्त्रतो राजन्व्येतु ते मानसो ज्वरः ॥५-१६२-११॥
दुर्योधन उवाच॥
न विद्यते मे गाङ्गेय भयं देवासुरेष्वपि। समस्तेषु महाबाहो सत्यमेतद्ब्रवीमि ते ॥५-१६२-१२॥
किं पुनस्त्वयि दुर्धर्षे सेनापत्ये व्यवस्थिते। द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि ॥५-१६२-१३॥
भवद्भ्यां पुरुषाग्र्याभ्यां स्थिताभ्यां विजयो मम। न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम् ॥५-१६२-१४॥
रथसङ्ख्यां तु कार्त्स्न्येन परेषामात्मनस्तथा। तथैवातिरथानां च वेत्तुमिच्छामि कौरव ॥५-१६२-१५॥
पितामहो हि कुशलः परेषामात्मनस्तथा। श्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपैः ॥५-१६२-१६॥
भीष्म उवाच॥
गान्धारे शृणु राजेन्द्र रथसङ्ख्यां स्वके बले। ये रथाः पृथिवीपाल तथैवातिरथाश्च ये ॥५-१६२-१७॥
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च। रथानां तव सेनायां यथामुख्यं तु मे शृणु ॥५-१६२-१८॥
भवानग्रे रथोदारः सह सर्वैः सहोदरैः। दुःशासनप्रभृतिभिर्भ्रातृभिः शतसंमितैः ॥५-१६२-१९॥
सर्वे कृतप्रहरणाश्छेद्यभेद्यविशारदाः। रथोपस्थे गजस्कन्धे गदायुद्धेऽसिचर्मणि ॥५-१६२-२०॥
संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः। इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥५-१६२-२१॥
एते हनिष्यन्ति रणे पाञ्चालान्युद्धदुर्मदान्। कृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः ॥५-१६२-२२॥
ततोऽहं भरतश्रेष्ठ सर्वसेनापतिस्तव। शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् ॥ न त्वात्मनो गुणान्वक्तुमर्हामि विदितोऽस्मि ते ॥५-१६२-२३॥
कृतवर्मा त्वतिरथो भोजः प्रहरतां वरः। अर्थसिद्धिं तव रणे करिष्यति न संशयः ॥५-१६२-२४॥
अस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः। हनिष्यति रिपूंस्तुभ्यं महेन्द्रो दानवानिव ॥५-१६२-२५॥
मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः। स्पर्धते वासुदेवेन यो वै नित्यं रणे रणे ॥५-१६२-२६॥
भागिनेयान्निजांस्त्यक्त्वा शल्यस्ते रथसत्तमः। एष योत्स्यति सङ्ग्रामे कृष्णं चक्रगदाधरम् ॥५-१६२-२७॥
सागरोर्मिसमैर्वेगैः प्लावयन्निव शात्रवान्। भूरिश्रवाः कृतास्त्रश्च तव चापि हितः सुहृत् ॥५-१६२-२८॥
सौमदत्तिर्महेष्वासो रथयूथपयूथपः। बलक्षयममित्राणां सुमहान्तं करिष्यति ॥५-१६२-२९॥
सिन्धुराजो महाराज मतो मे द्विगुणो रथः। योत्स्यते समरे राजन्विक्रान्तो रथसत्तमः ॥५-१६२-३०॥
द्रौपदीहरणे पूर्वं परिक्लिष्टः स पाण्डवैः। संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा ॥५-१६२-३१॥
एतेन हि तदा राजंस्तप आस्थाय दारुणम्। सुदुर्लभो वरो लब्धः पाण्डवान्योद्धुमाहवे ॥५-१६२-३२॥
स एष रथशार्दूलस्तद्वैरं संस्मरन्रणे। योत्स्यते पाण्डवांस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥५-१६२-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.