Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.161
Core: Provoked by Uluka, Yudhisthira arranges the army of Pandavas for battle.
सञ्जय उवाच॥
उलूकस्य वचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः। सेनां निर्यापयामास धृष्टद्युम्नपुरोगमाम् ॥५-१६१-१॥
पदातिनीं नागवतीं रथिनीमश्ववृन्दिनीम्। चतुर्विधबलां भीमामकम्प्यां पृथिवीमिव ॥५-१६१-२॥
भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः। धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम् ॥५-१६१-३॥
तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः। द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नः प्रकर्षति ॥५-१६१-४॥
यथाबलं यथोत्साहं रथिनः समुपादिशत्। अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च ॥५-१६१-५॥
अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे। सैन्धवाय च वार्ष्णेयं युयुधानमुपादिशत् ॥५-१६१-६॥
शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत्। सहदेवं शकुनये चेकितानं शलाय च ॥५-१६१-७॥
धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम्। द्रौपदेयांश्च पञ्चभ्यस्त्रिगर्तेभ्यः समादिशत् ॥५-१६१-८॥
वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम्। समर्थं तं हि मेने वै पार्थादभ्यधिकं रणे ॥५-१६१-९॥
एवं विभज्य योधांस्तान्पृथक्च सह चैव ह। ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत् ॥५-१६१-१०॥
धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः। विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः ॥५-१६१-११॥
यथादिष्टान्यनीकानि पाण्डवानामयोजयत्। जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे ॥५-१६१-१२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.