05.165
Pancharatra-core: Bhishma insults Karna as a half-charioteer while describing warriors. Because of this Karna refuses to engage, as long as Bhishma is the commander in chief.
भीष्म उवाच॥
अचलो वृषकश्चैव भ्रातरौ सहितावुभौ। रथौ तव दुराधर्षौ शत्रून्विध्वंसयिष्यतः ॥५-१६५-१॥
बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ। गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ ॥५-१६५-२॥
सखा ते दयितो नित्यं य एष रणकर्कशः। प्रोत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह ॥५-१६५-३॥
परुषः कत्थनो नीचः कर्णो वैकर्तनस्तव। मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः ॥५-१६५-४॥
एष नैव रथः पूर्णो नाप्येवातिरथो नृप। वियुक्तः कवचेनैष सहजेन विचेतनः ॥ कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी ॥५-१६५-५॥
अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात्। करणानां वियोगाच्च तेन मेऽर्धरथो मतः ॥ नैष फल्गुनमासाद्य पुनर्जीवन्विमोक्ष्यते ॥५-१६५-६॥
सञ्जय उवाच॥
ततोऽब्रवीन्महाबाहुर्द्रोणः शस्त्रभृतां वरः। एवमेतद्यथात्थ त्वं न मिथ्यास्तीति किञ्चन ॥५-१६५-७॥
रणे रणेऽतिमानी च विमुखश्चैव दृश्यते। घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः ॥५-१६५-८॥
एतच्छ्रुत्वा तु राधेयः क्रोधादुत्फुल्ललोचनः। उवाच भीष्मं राजेन्द्र तुदन्वाग्भिः प्रतोदवत् ॥५-१६५-९॥
पितामह यथेष्टं मां वाक्षरैरुपकृन्तसि। अनागसं सदा द्वेषादेवमेव पदे पदे ॥ मर्षयामि च तत्सर्वं दुर्योधनकृतेन वै ॥५-१६५-१०॥
त्वं तु मां मन्यसेऽशक्तं यथा कापुरुषं तथा। भवानर्धरथो मह्यं मतो नास्त्यत्र संशयः ॥५-१६५-११॥
सर्वस्य जगतश्चैव गाङ्गेय न मृषा वदे। कुरूणामहितो नित्यं न च राजावबुध्यते ॥५-१६५-१२॥
को हि नाम समानेषु राजसूदात्तकर्मसु। तेजोवधमिमं कुर्याद्विभेदयिषुराहवे ॥ यथा त्वं गुणनिर्देशादपराधं चिकीर्षसि ॥५-१६५-१३॥
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः। महारथत्वं सङ्ख्यातुं शक्यं क्षत्रस्य कौरव ॥५-१६५-१४॥
बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः। धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाधिकाः ॥५-१६५-१५॥
यथेच्छकं स्वयङ्ग्राहाद्रथानतिरथांस्तथा। कामद्वेषसमायुक्तो मोहात्प्रकुरुते भवान् ॥५-१६५-१६॥
दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम्। त्यज्यतां दुष्टभावोऽयं भीष्मः किल्बिषकृत्तव ॥५-१६५-१७॥
भिन्ना हि सेना नृपते दुःसन्धेया भवत्युत। मौलापि पुरुषव्याघ्र किमु नाना समुत्थिता ॥५-१६५-१८॥
एषां द्वैधं समुत्पन्नं योधानां युधि भारत। तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः ॥५-१६५-१९॥
रथानां क्व च विज्ञानं क्व च भीष्मोऽल्पचेतनः। अहमावारयिष्यामि पाण्डवानामनीकिनीम् ॥५-१६५-२०॥
आसाद्य माममोघेषुं गमिष्यन्ति दिशो दश। पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव ॥५-१६५-२१॥
क्व च युद्धविमर्दो वा मन्त्राः सुव्याहृतानि वा। क्व च भीष्मो गतवया मन्दात्मा कालमोहितः ॥५-१६५-२२॥
स्पर्धते हि सदा नित्यं सर्वेण जगता सह। न चान्यं पुरुषं कञ्चिन्मन्यते मोघदर्शनः ॥५-१६५-२३॥
श्रोतव्यं खलु वृद्धानामिति शास्त्रनिदर्शनम्। न त्वेवाप्यतिवृद्धानां पुनर्बाला हि ते मताः ॥५-१६५-२४॥
अहमेको हनिष्यामि पाण्डवान्नात्र संशयः। सुयुद्धे राजशार्दूल यशो भीष्मं गमिष्यति ॥५-१६५-२५॥
कृतः सेनापतिस्त्वेष त्वया भीष्मो नराधिप। सेनापतिं गुणो गन्ता न तु योधान्कथञ्चन ॥५-१६५-२६॥
नाहं जीवति गाङ्गेये योत्स्ये राजन्कथञ्चन। हते तु भीष्मे योधास्मि सर्वैरेव महारथैः ॥५-१६५-२७॥