05.166
Pancharatra-core: Bhishma upon enquiry describes the strength of five Pandavas.
भीष्म उवाच॥
समुद्यतोऽयं भारो मे सुमहान्सागरोपमः। धार्तराष्ट्रस्य सङ्ग्रामे वर्षपूगाभिचिन्तितः ॥५-१६६-१॥
तस्मिन्नभ्यागते काले प्रतप्ते लोमहर्षणे। मिथोभेदो न मे कार्यस्तेन जीवसि सूतज ॥५-१६६-२॥
न ह्यहं नाद्य विक्रम्य स्थविरोऽपि शिशोस्तव। युद्धश्रद्धां रणे छिन्द्यां जीवितस्य च सूतज ॥५-१६६-३॥
जामदग्न्येन रामेण महास्त्राणि प्रमुञ्चता। न मे व्यथाभवत्काचित्त्वं तु मे किं करिष्यसि ॥५-१६६-४॥
कामं नैतत्प्रशंसन्ति सन्तोऽऽत्मबलसंस्तवम्। वक्ष्यामि तु त्वां सन्तप्तो निहीन कुलपांसन ॥५-१६६-५॥
समेतं पार्थिवं क्षत्रं काशिराज्ञः स्वयंवरे। निर्जित्यैकरथेनैव यत्कन्यास्तरसा हृताः ॥५-१६६-६॥
ईदृशानां सहस्राणि विशिष्टानामथो पुनः। मयैकेन निरस्तानि ससैन्यानि रणाजिरे ॥५-१६६-७॥
त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान्। उपस्थितो विनाशाय यतस्व पुरुषो भव ॥५-१६६-८॥
युध्यस्व पार्थं समरे येन विस्पर्धसे सह। द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात्सुदुर्मते ॥५-१६६-९॥
सञ्जय उवाच॥
तमुवाच ततो राजा धार्तराष्ट्रो महामनाः। मामवेक्षस्व गाङ्गेय कार्यं हि महदुद्यतम् ॥५-१६६-१०॥
चिन्त्यतामिदमेवाग्रे मम निःश्रेयसं परम्। उभावपि भवन्तौ मे महत्कर्म करिष्यतः ॥५-१६६-११॥
भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान्। ये चैवातिरथास्तत्र तथैव रथयूथपाः ॥५-१६६-१२॥
बलाबलममित्राणां श्रोतुमिच्छामि कौरव। प्रभातायां रजन्यां वै इदं युद्धं भविष्यति ॥५-१६६-१३॥
भीष्म उवाच॥
एते रथास्ते सङ्ख्यातास्तथैवातिरथा नृप। य चाप्यर्धरथा राजन्पाण्डवानामतः शृणु ॥५-१६६-१४॥
यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप। रथसङ्ख्यां महाबाहो सहैभिर्वसुधाधिपैः ॥५-१६६-१५॥
स्वयं राजा रथोदारः पाण्डवः कुन्तिनन्दनः। अग्निवत्समरे तात चरिष्यति न संशयः ॥५-१६६-१६॥
भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसंमितः। नागायुतबलो मानी तेजसा न स मानुषः ॥५-१६६-१७॥
माद्रीपुत्रौ तु रथिनौ द्वावेव पुरुषर्षभौ। अश्विनाविव रूपेण तेजसा च समन्वितौ ॥५-१६६-१८॥
एते चमूमुखगताः स्मरन्तः क्लेशमात्मनः। रुद्रवत्प्रचरिष्यन्ति तत्र मे नास्ति संशयः ॥५-१६६-१९॥
सर्व एव महात्मानः शालस्कन्धा इवोद्गताः। प्रादेशेनाधिकाः पुम्भिरन्यैस्ते च प्रमाणतः ॥५-१६६-२०॥
सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः। चरितब्रह्मचर्याश्च सर्वे चातितपस्विनः ॥५-१६६-२१॥
ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः। जवे प्रहारे संमर्दे सर्व एवातिमानुषाः ॥ सर्वे जितमहीपाला दिग्जये भरतर्षभ ॥५-१६६-२२॥
न चैषां पुरुषाः केचिदायुधानि गदाः शरान्। विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव ॥ उद्यन्तुं वा गदां गुर्वीं शरान्वापि प्रकर्षितुम् ॥५-१६६-२३॥
जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे। बालैरपि भवन्तस्तैः सर्व एव विशेषिताः ॥५-१६६-२४॥
ते ते सैन्यं समासाद्य व्याघ्रा इव बलोत्कटाः। विध्वंसयिष्यन्ति रणे मा स्म तैः सह सङ्गमः ॥५-१६६-२५॥
एकैकशस्ते सङ्ग्रामे हन्युः सर्वान्महीक्षितः। प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत् ॥५-१६६-२६॥
द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः। ते संस्मरन्तः सङ्ग्रामे विचरिष्यन्ति कालवत् ॥५-१६६-२७॥
लोहिताक्षो गुडाकेशो नारायणसहायवान्। उभयोः सेनयोर्वीर रथो नास्तीह तादृशः ॥५-१६६-२८॥
न हि देवेषु वा पूर्वं दानवेषूरगेषु वा। राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु ॥५-१६६-२९॥
भूतोऽथ वा भविष्यो वा रथः कश्चिन्मया श्रुतः। समायुक्तो महाराज यथा पार्थस्य धीमतः ॥५-१६६-३०॥
वासुदेवश्च संयन्ता योद्धा चैव धनञ्जयः। गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः ॥५-१६६-३१॥
अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी। अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एव च ॥५-१६६-३२॥
याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाः। वज्रादीनि च मुख्यानि नानाप्रहरणानि वै ॥५-१६६-३३॥
दानवानां सहस्राणि हिरण्यपुरवासिनाम्। हतान्येकरथेनाजौ कस्तस्य सदृशो रथः ॥५-१६६-३४॥
एष हन्याद्धि संरम्भी बलवान्सत्यविक्रमः। तव सेनां महाबाहुः स्वां चैव परिपालयन् ॥५-१६६-३५॥
अहं चैनं प्रत्युदियामाचार्यो वा धनञ्जयम्। न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि ॥ य एनं शरवर्षाणि वर्षन्तमुदियाद्रथी ॥५-१६६-३६॥
जीमूत इव घर्मान्ते महावातसमीरितः। समायुक्तस्तु कौन्तेयो वासुदेवसहायवान् ॥ तरुणश्च कृती चैव जीर्णावावामुभावपि ॥५-१६६-३७॥
सञ्जय उवाच॥
एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा। काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः ॥५-१६६-३८॥
मनोभिः सह सावेगैः संस्मृत्य च पुरातनम्। सामर्थ्यं पाण्डवेयानां यथाप्रत्यक्षदर्शनात् ॥५-१६६-३९॥