Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.178
भीष्म उवाच॥
ततस्तृतीये दिवसे समे देशे व्यवस्थितः। प्रेषयामास मे राजन्प्राप्तोऽस्मीति महाव्रतः ॥५-१७८-१॥
तमागतमहं श्रुत्वा विषयान्तं महाबलम्। अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम् ॥५-१७८-२॥
गां पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः। ऋत्विग्भिर्देवकल्पैश्च तथैव च पुरोहितैः ॥५-१७८-३॥
स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान्। प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत् ॥५-१७८-४॥
भीष्म कां बुद्धिमास्थाय काशिराजसुता त्वया। अकामेयमिहानीता पुनश्चैव विसर्जिता ॥५-१७८-५॥
विभ्रंशिता त्वया हीयं धर्मावाप्तेः परावरात्। परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति ॥५-१७८-६॥
प्रत्याख्याता हि शाल्वेन त्वया नीतेति भारत। तस्मादिमां मन्नियोगात्प्रतिगृह्णीष्व भारत ॥५-१७८-७॥
स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्वियम्। न युक्तमवमानोऽयं कर्तुं राज्ञा त्वयानघ ॥५-१७८-८॥
ततस्तं नातिमनसं समुदीक्ष्याहमब्रुवम्। नाहमेनां पुनर्दद्यां भ्रात्रे ब्रह्मन्कथञ्चन ॥५-१७८-९॥
शाल्वस्याहमिति प्राह पुरा मामिह भार्गव। मया चैवाभ्यनुज्ञाता गता सौभपुरं प्रति ॥५-१७८-१०॥
न भयान्नाप्यनुक्रोशान्न लोभान्नार्थकाम्यया। क्षत्रधर्ममहं जह्यामिति मे व्रतमाहितम् ॥५-१७८-११॥
अथ मामब्रवीद्रामः क्रोधपर्याकुलेक्षणः। न करिष्यसि चेदेतद्वाक्यं मे कुरुपुङ्गव ॥५-१७८-१२॥
हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः। संरम्भादब्रवीद्रामः क्रोधपर्याकुलेक्षणः ॥५-१७८-१३॥
तमहं गीर्भिरिष्टाभिः पुनः पुनररिंदमम्। अयाचं भृगुशार्दूलं न चैव प्रशशाम सः ॥५-१७८-१४॥
तमहं प्रणम्य शिरसा भूयो ब्राह्मणसत्तमम्। अब्रुवं कारणं किं तद्यत्त्वं योद्धुमिहेच्छसि ॥५-१७८-१५॥
इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम्। उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव ॥५-१७८-१६॥
ततो मामब्रवीद्रामः क्रोधसंरक्तलोचनः। जानीषे मां गुरुं भीष्म न चेमां प्रतिगृह्णसे ॥ सुतां काश्यस्य कौरव्य मत्प्रियार्थं महीपते ॥५-१७८-१७॥
न हि ते विद्यते शान्तिरन्यथा कुरुनन्दन। गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः ॥ त्वया विभ्रंशिता हीयं भर्तारं नाभिगच्छति ॥५-१७८-१८॥
तथा ब्रुवन्तं तमहं रामं परपुरञ्जयम्। नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते ॥५-१७८-१९॥
गुरुत्वं त्वयि सम्प्रेक्ष्य जामदग्न्य पुरातनम्। प्रसादये त्वां भगवंस्त्यक्तैषा हि पुरा मया ॥५-१७८-२०॥
को जातु परभावां हि नारीं व्यालीमिव स्थिताम्। वासयेत गृहे जानन्स्त्रीणां दोषान्महात्ययान् ॥५-१७८-२१॥
न भयाद्वासवस्यापि धर्मं जह्यां महाद्युते। प्रसीद मा वा यद्वा ते कार्यं तत्कुरु माचिरम् ॥५-१७८-२२॥
अयं चापि विशुद्धात्मन्पुराणे श्रूयते विभो। मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना ॥५-१७८-२३॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथप्रतिपन्नस्य कार्यं भवति शासनम् ॥५-१७८-२४॥
स त्वं गुरुरिति प्रेम्णा मया संमानितो भृशम्। गुरुवृत्तं न जानीषे तस्माद्योत्स्याम्यहं त्वया ॥५-१७८-२५॥
गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः। विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव ॥५-१७८-२६॥
उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत्। यो हन्यात्समरे क्रुद्धो युध्यन्तमपलायिनम् ॥ ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः ॥५-१७८-२७॥
क्षत्रियाणां स्थितो धर्मे क्षत्रियोऽस्मि तपोधन। यो यथा वर्तते यस्मिंस्तथा तस्मिन्प्रवर्तयन् ॥ नाधर्मं समवाप्नोति नरः श्रेयश्च विन्दति ॥५-१७८-२८॥
अर्थे वा यदि वा धर्मे समर्थो देशकालवित्। अनर्थसंशयापन्नः श्रेयान्निःसंशयेन च ॥५-१७८-२९॥
यस्मात्संशयितेऽर्थेऽस्मिन्यथान्यायं प्रवर्तसे। तस्माद्योत्स्यामि सहितस्त्वया राम महाहवे ॥ पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम् ॥५-१७८-३०॥
एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन। तत्करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह ॥ द्वंद्वे राम यथेष्टं ते सज्जो भव महामुने ॥५-१७८-३१॥
तत्र त्वं निहतो राम मया शरशताचितः। लप्स्यसे निर्जिताँल्लोकाञ्शस्त्रपूतो महारणे ॥५-१७८-३२॥
स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय। तत्रैष्यामि महाबाहो युद्धाय त्वां तपोधन ॥५-१७८-३३॥
अपि यत्र त्वया राम कृतं शौचं पुरा पितुः। तत्राहमपि हत्वा त्वां शौचं कर्तास्मि भार्गव ॥५-१७८-३४॥
तत्र गच्छस्व राम त्वं त्वरितं युद्धदुर्मद। व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणब्रुव ॥५-१७८-३५॥
यच्चापि कत्थसे राम बहुशः परिषत्सु वै। निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छृणु ॥५-१७८-३६॥
न तदा जायते भीष्मो मद्विधः क्षत्रियोऽपि वा। यस्ते युद्धमयं दर्पं कामं च व्यपनाशयेत् ॥५-१७८-३७॥
सोऽहं जातो महाबाहो भीष्मः परपुरञ्जयः। व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः ॥५-१७८-३८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.