Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.179
Pancharatra-Ext: Goddess Ganga intervenes in the battle between Bhishma and Bhargava.
भीष्म उवाच॥
ततो मामब्रवीद्रामः प्रहसन्निव भारत। दिष्ट्या भीष्म मया सार्धं योद्धुमिच्छसि सङ्गरे ॥५-१७९-१॥
अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह। भाषितं तत्करिष्यामि तत्रागच्छेः परन्तप ॥५-१७९-२॥
तत्र त्वां निहतं माता मया शरशताचितम्। जाह्नवी पश्यतां भीष्म गृध्रकङ्कबडाशनम् ॥५-१७९-३॥
कृपणं त्वामभिप्रेक्ष्य सिद्धचारणसेविता। मया विनिहतं देवी रोदतामद्य पार्थिव ॥५-१७९-४॥
अतदर्हा महाभागा भगीरथसुता नदी। या त्वामजीजनन्मन्दं युद्धकामुकमातुरम् ॥५-१७९-५॥
एहि गच्छ मया भीष्म युद्धमद्यैव वर्तताम्। गृहाण सर्वं कौरव्य रथादि भरतर्षभ ॥५-१७९-६॥
इति ब्रुवाणं तमहं रामं परपुरञ्जयम्। प्रणम्य शिरसा राजन्नेवमस्त्वित्यथाब्रुवम् ॥५-१७९-७॥
एवमुक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया। प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम् ॥५-१७९-८॥
ततः कृतस्वस्त्ययनो मात्रा प्रत्यभिनन्दितः। द्विजातीन्वाच्य पुण्याहं स्वस्ति चैव महाद्युते ॥५-१७९-९॥
रथमास्थाय रुचिरं राजतं पाण्डुरैर्हयैः। सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम् ॥५-१७९-१०॥
उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम्। तत्कुलीनेन वीरेण हयशास्त्रविदा नृप ॥५-१७९-११॥
युक्तं सूतेन शिष्टेन बहुशो दृष्टकर्मणा। दंशितः पाण्डुरेणाहं कवचेन वपुष्मता ॥५-१७९-१२॥
पाण्डुरं कार्मुकं गृह्य प्रायां भरतसत्तम। पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ॥५-१७९-१३॥
पाण्डुरैश्चामरैश्चापि वीज्यमानो नराधिप। शुक्लवासाः सितोष्णीषः सर्वशुक्लविभूषणः ॥५-१७९-१४॥
स्तूयमानो जयाशीर्भिर्निष्क्रम्य गजसाह्वयात्। कुरुक्षेत्रं रणक्षेत्रमुपायां भरतर्षभ ॥५-१७९-१५॥
ते हयाश्चोदितास्तेन सूतेन परमाहवे। अवहन्मां भृशं राजन्मनोमारुतरंहसः ॥५-१७९-१६॥
गत्वाहं तत्कुरुक्षेत्रं स च रामः प्रतापवान्। युद्धाय सहसा राजन्पराक्रान्तौ परस्परम् ॥५-१७९-१७॥
ततः संदर्शनेऽतिष्ठं रामस्यातितपस्विनः। प्रगृह्य शङ्खप्रवरं ततः प्राधममुत्तमम् ॥५-१७९-१८॥
ततस्तत्र द्विजा राजंस्तापसाश्च वनौकसः। अपश्यन्त रणं दिव्यं देवाः सर्षिगणास्तदा ॥५-१७९-१९॥
ततो दिव्यानि माल्यानि प्रादुरासन्मुहुर्मुहुः। वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह ॥५-१७९-२०॥
ततस्ते तापसाः सर्वे भार्गवस्यानुयायिनः। प्रेक्षकाः समपद्यन्त परिवार्य रणाजिरम् ॥५-१७९-२१॥
ततो मामब्रवीद्देवी सर्वभूतहितैषिणी। माता स्वरूपिणी राजन्किमिदं ते चिकीर्षितम् ॥५-१७९-२२॥
गत्वाहं जामदग्न्यं तं प्रयाचिष्ये कुरूद्वह। भीष्मेण सह मा योत्सीः शिष्येणेति पुनः पुनः ॥५-१७९-२३॥
मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव। जामदग्न्येन समरे योद्धुमित्यवभर्त्सयत् ॥५-१७९-२४॥
किं न वै क्षत्रियहरो हरतुल्यपराक्रमः। विदितः पुत्र रामस्ते यतस्त्वं योद्धुमिच्छसि ॥५-१७९-२५॥
ततोऽहमब्रुवं देवीमभिवाद्य कृताञ्जलिः। सर्वं तद्भरतश्रेष्ठ यथावृत्तं स्वयंवरे ॥५-१७९-२६॥
यथा च रामो राजेन्द्र मया पूर्वं प्रसादितः। काशिराजसुतायाश्च यथा कामः पुरातनः ॥५-१७९-२७॥
ततः सा राममभ्येत्य जननी मे महानदी। मदर्थं तमृषिं देवी क्षमयामास भार्गवम् ॥ भीष्मेण सह मा योत्सीः शिष्येणेति वचोऽब्रवीत् ॥५-१७९-२८॥
स च तामाह याचन्तीं भीष्ममेव निवर्तय। न हि मे कुरुते काममित्यहं तमुपागमम् ॥५-१७९-२९॥
सञ्जय उवाच॥
ततो गङ्गा सुतस्नेहाद्भीष्मं पुनरुपागमत्। न चास्याः सोऽकरोद्वाक्यं क्रोधपर्याकुलेक्षणः ॥५-१७९-३०॥
अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः। आह्वयामास च पुनर्युद्धाय द्विजसत्तमः ॥५-१७९-३१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.