Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.177
भीष्म उवाच॥
एवमुक्तस्तदा रामो जहि भीष्ममिति प्रभो। उवाच रुदतीं कन्यां चोदयन्तीं पुनः पुनः ॥५-१७७-१॥
काश्ये कामं न गृह्णामि शस्त्रं वै वरवर्णिनि। ऋते ब्रह्मविदां हेतोः किमन्यत्करवाणि ते ॥५-१७७-२॥
वाचा भीष्मश्च शाल्वश्च मम राज्ञि वशानुगौ। भविष्यतोऽनवद्याङ्गि तत्करिष्यामि मा शुचः ॥५-१७७-३॥
न तु शस्त्रं ग्रहीष्यामि कथञ्चिदपि भामिनि। ऋते नियोगाद्विप्राणामेष मे समयः कृतः ॥५-१७७-४॥
अम्बोवाच॥
मम दुःखं भगवता व्यपनेयं यतस्ततः। तत्तु भीष्मप्रसूतं मे तं जहीश्वर माचिरम् ॥५-१७७-५॥
राम उवाच॥
काशिकन्ये पुनर्ब्रूहि भीष्मस्ते चरणावुभौ। शिरसा वन्दनार्होऽपि ग्रहीष्यति गिरा मम ॥५-१७७-६॥
अम्बोवाच॥
जहि भीष्मं रणे राम मम चेदिच्छसि प्रियम्। प्रतिश्रुतं च यदि तत्सत्यं कर्तुमिहार्हसि ॥५-१७७-७॥
भीष्म उवाच॥
तयोः संवदतोरेवं राजन्रामाम्बयोस्तदा। अकृतव्रणो जामदग्न्यमिदं वचनमब्रवीत् ॥५-१७७-८॥
शरणागतां महाबाहो कन्यां न त्यक्तुमर्हसि। जहि भीष्मं रणे राम गर्जन्तमसुरं यथा ॥५-१७७-९॥
यदि भीष्मस्त्वयाहूतो रणे राम महामुने। निर्जितोऽस्मीति वा ब्रूयात्कुर्याद्वा वचनं तव ॥५-१७७-१०॥
कृतमस्या भवेत्कार्यं कन्याया भृगुनन्दन। वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो ॥५-१७७-११॥
इयं चापि प्रतिज्ञा ते तदा राम महामुने। जित्वा वै क्षत्रियान्सर्वान्ब्राह्मणेषु प्रतिश्रुतम् ॥५-१७७-१२॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव रणे यदि। ब्रह्मद्विड्भविता तं वै हनिष्यामीति भार्गव ॥५-१७७-१३॥
शरणं हि प्रपन्नानां भीतानां जीवितार्थिनाम्। न शक्ष्यामि परित्यागं कर्तुं जीवन्कथञ्चन ॥५-१७७-१४॥
यश्च क्षत्रं रणे कृत्स्नं विजेष्यति समागतम्। दृप्तात्मानमहं तं च हनिष्यामीति भार्गव ॥५-१७७-१५॥
स एवं विजयी राम भीष्मः कुरुकुलोद्वहः। तेन युध्यस्व सङ्ग्रामे समेत्य भृगुनन्दन ॥५-१७७-१६॥
राम उवाच॥
स्मराम्यहं पूर्वकृतां प्रतिज्ञामृषिसत्तम। तथैव च करिष्यामि यथा साम्नैव लप्स्यते ॥५-१७७-१७॥
कार्यमेतन्महद्ब्रह्मन्काशिकन्यामनोगतम्। गमिष्यामि स्वयं तत्र कन्यामादाय यत्र सः ॥५-१७७-१८॥
यदि भीष्मो रणश्लाघी न करिष्यति मे वचः। हनिष्याम्येनमुद्रिक्तमिति मे निश्चिता मतिः ॥५-१७७-१९॥
न हि बाणा मयोत्सृष्टाः सज्जन्तीह शरीरिणाम्। कायेषु विदितं तुभ्यं पुरा क्षत्रियसङ्गरे ॥५-१७७-२०॥
भीष्म उवाच॥
एवमुक्त्वा ततो रामः सह तैर्ब्रह्मवादिभिः। प्रयाणाय मतिं कृत्वा समुत्तस्थौ महामनाः ॥५-१७७-२१॥
ततस्ते तामुषित्वा तु रजनीं तत्र तापसाः। हुताग्नयो जप्तजप्याः प्रतस्थुर्मज्जिघांसया ॥५-१७७-२२॥
अभ्यगच्छत्ततो रामः सह तैर्ब्राह्मणर्षभैः। कुरुक्षेत्रं महाराज कन्यया सह भारत ॥५-१७७-२३॥
न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम्। तापसास्ते महात्मानो भृगुश्रेष्ठपुरस्कृताः ॥५-१७७-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.