06.009
Library: Description of the northern and eastern sides of Mount Meru and the Malyavan mountain.
धृतराष्ट्र उवाच॥
वर्षाणां चैव नामानि पर्वतानां च सञ्जय। आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः ॥६-९-१॥
सञ्जय उवाच॥
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु। वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥६-९-२॥
शुक्लाभिजनसम्पन्नाः सर्वे सुप्रियदर्शनाः। रतिप्रधानाश्च तथा जायन्ते तत्र मानवाः ॥६-९-३॥
दश वर्षसहस्राणि शतानि दश पञ्च च। जीवन्ति ते महाराज नित्यं मुदितमानसाः ॥६-९-४॥
दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण च। वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी ॥६-९-५॥
यक्षानुगा महाराज धनिनः प्रियदर्शनाः। महाबलास्तत्र सदा राजन्मुदितमानसाः ॥६-९-६॥
एकादश सहस्राणि वर्षाणां ते जनाधिप। आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च ॥६-९-७॥
शृङ्गाणि वै शृङ्गवतस्त्रीण्येव मनुजाधिप। एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् ॥६-९-८॥
सर्वरत्नमयं चैकं भवनैरुपशोभितम्। तत्र स्वयम्प्रभा देवी नित्यं वसति शाण्डिली ॥६-९-९॥
उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप। वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् ॥६-९-१०॥
न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः। चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः ॥६-९-११॥
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः। पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ॥६-९-१२॥
अनिष्पन्दाः सुगन्धाश्च निराहारा जितेन्द्रियाः। देवलोकच्युताः सर्वे तथा विरजसो नृप ॥६-९-१३॥
त्रयोदश सहस्राणि वर्षाणां ते जनाधिप। आयुष्प्रमाणं जीवन्ति नरा भरतसत्तम ॥६-९-१४॥
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः। हरिर्वसति वैकुण्ठः शकटे कनकात्मके ॥६-९-१५॥
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम्। अग्निवर्णं महावेगं जाम्बूनदपरिष्कृतम् ॥६-९-१६॥
स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ। सङ्क्षेपो विस्तरश्चैव कर्ता कारयिता च सः ॥६-९-१७॥
पृथिव्यापस्तथाकाशं वायुस्तेजश्च पार्थिव। स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः ॥६-९-१८॥
वैशम्पायन उवाच॥
एवमुक्तः सञ्जयेन धृतराष्ट्रो महामनाः। ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप ॥६-९-१९॥
स विचिन्त्य महाराज पुनरेवाब्रवीद्वचः। असंशयं सूतपुत्र कालः सङ्क्षिपते जगत् ॥ सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् ॥६-९-२०॥
नरो नारायणश्चैव सर्वज्ञः सर्वभूतभृत्। देवा वैकुण्ठ इत्याहुर्वेदा विष्णुरिति प्रभुम् ॥६-९-२१॥