06.010
धृतराष्ट्र उवाच॥
यदिदं भारतं वर्षं यत्रेदं मूर्छितं बलम्। यत्रातिमात्रं लुब्धोऽयं पुत्रो दुर्योधनो मम ॥६-१०-१॥
यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः। एतन्मे तत्त्वमाचक्ष्व कुशलो ह्यसि सञ्जय ॥६-१०-२॥
सञ्जय उवाच॥
न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम। गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः ॥६-१०-३॥
अपरे क्षत्रियाश्चापि नानाजनपदेश्वराः। ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् ॥६-१०-४॥
अत्र ते वर्णयिष्यामि वर्षं भारत भारतम्। प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च ॥६-१०-५॥
पृथोश्च राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः। ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च ॥६-१०-६॥
तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च। ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥६-१०-७॥
अन्येषां च महाराज क्षत्रियाणां बलीयसाम्। सर्वेषामेव राजेन्द्र प्रियं भारत भारतम् ॥६-१०-८॥
तत्ते वर्षं प्रवक्ष्यामि यथाश्रुतमरिंदम। शृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि ॥६-१०-९॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि। विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥६-१०-१०॥
तेषां सहस्रशो राजन्पर्वतास्तु समीपतः। अभिज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ॥६-१०-११॥
अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः। आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो ॥६-१०-१२॥
नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम्। गोदावरीं नर्मदां च बाहुदां च महानदीम् ॥६-१०-१३॥
शतद्रुं चन्द्रभागां च यमुनां च महानदीम्। दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् ॥६-१०-१४॥
नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम्। इरावतीं वितस्तां च पयोष्णीं देविकामपि ॥६-१०-१५॥
वेदस्मृतिं वेतसिनीं त्रिदिवामिष्कुमालिनीम्। करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम् ॥६-१०-१६॥
गोमतीं धूतपापां च वन्दनां च महानदीम्। कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम् ॥६-१०-१७॥
रथस्थां शतकुम्भां च सरयूं च नरेश्वर। चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ॥६-१०-१८॥
शतावरीं पयोष्णीं च परां भैमरथीं तथा। कावेरीं चुलुकां चापि वापीं शतबलामपि ॥६-१०-१९॥
निचीरां महितां चापि सुप्रयोगां नराधिप। पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम् ॥६-१०-२०॥
पूर्वाभिरामां वीरां च भीमामोघवतीं तथा। पलाशिनीं पापहरां महेन्द्रां पिप्पलावतीम् ॥६-१०-२१॥
पारिषेणामसिक्नीं च सरलां भारमर्दिनीम्। पुरुहीं प्रवरां मेनां मोघां घृतवतीं तथा ॥६-१०-२२॥
धूमत्यामतिकृष्णां च सूचीं छावीं च कौरव। सदानीरामधृष्यां च कुशधारां महानदीम् ॥६-१०-२३॥
शशिकान्तां शिवां चैव तथा वीरवतीमपि। वास्तुं सुवास्तुं गौरीं च कम्पनां सहिरण्वतीम् ॥६-१०-२४॥
हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम्। रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ॥६-१०-२५॥
उपेन्द्रां बहुलां चैव कुचरामम्बुवाहिनीम्। वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम् ॥६-१०-२६॥
विदिशां कृष्णवेण्णां च ताम्रां च कपिलामपि। शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम् ॥६-१०-२७॥
शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम्। कौशिकीं निम्नगां शोणां बाहुदामथ चन्दनाम् ॥६-१०-२८॥
दुर्गामन्तःशिलां चैव ब्रह्ममेध्यां बृहद्वतीम्। चरक्षां महिरोहीं च तथा जम्बुनदीमपि ॥६-१०-२९॥
सुनसां तमसां दासीं त्रसामन्यां वराणसीम्। लोलोद्धृतकरां चैव पूर्णाशां च महानदीम् ॥६-१०-३०॥
मानवीं वृषभां चैव महानद्यो जनाधिप। सदानिरामयां वृत्यां मन्दगां मन्दवाहिनीम् ॥६-१०-३१॥
ब्रह्माणीं च महागौरीं दुर्गामपि च भारत। चित्रोपलां चित्रबर्हां मञ्जुं मकरवाहिनीम् ॥६-१०-३२॥
मन्दाकिनीं वैतरणीं कोकां चैव महानदीम्। शुक्तिमतीमरण्यां च पुष्पवेण्युत्पलावतीम् ॥६-१०-३३॥
लोहित्यां करतोयां च तथैव वृषभङ्गिनीम्। कुमारीमृषिकुल्यां च ब्रह्मकुल्यां च भारत ॥६-१०-३४॥
सरस्वतीः सुपुण्याश्च सर्वा गङ्गाश्च मारिष। विश्वस्य मातरः सर्वाः सर्वाश्चैव महाबलाः ॥६-१०-३५॥
तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः। इत्येताः सरितो राजन्समाख्याता यथास्मृति ॥६-१०-३६॥
अत ऊर्ध्वं जनपदान्निबोध गदतो मम। तत्रेमे कुरुपाञ्चालाः शाल्वमाद्रेयजाङ्गलाः ॥६-१०-३७॥
शूरसेनाः कलिङ्गाश्च बोधा मौकास्तथैव च। मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकोशलाः ॥६-१०-३८॥
चेदिवत्साः करूषाश्च भोजाः सिन्धुपुलिन्दकाः। उत्तमौजा दशार्णाश्च मेकलाश्चोत्कलैः सह ॥६-१०-३९॥
पाञ्चालाः कौशिजाश्चैव एकपृष्ठा युगन्धराः। सौधा मद्रा भुजिङ्गाश्च काशयोऽपरकाशयः ॥६-१०-४०॥
जठराः कुक्कुशाश्चैव सुदाशार्णाश्च भारत। कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः ॥६-१०-४१॥
गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः। अश्मकाः पांसुराष्ट्राश्च गोपराष्ट्राः पनीतकाः ॥६-१०-४२॥
आदिराष्ट्राः सुकुट्टाश्च बलिराष्ट्रं च केवलम्। वानरास्याः प्रवाहाश्च वक्रा वक्रभयाः शकाः ॥६-१०-४३॥
विदेहका मागधाश्च सुह्माश्च विजयास्तथा। अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च ॥६-१०-४४॥
मल्लाः सुदेष्णाः प्राहूतास्तथा माहिषकार्षिकाः। वाहीका वाटधानाश्च आभीराः कालतोयकाः ॥६-१०-४५॥
अपरन्ध्राश्च शूद्राश्च पह्लवाश्चर्मखण्डिकाः। अटवीशबराश्चैव मरुभौमाश्च मारिष ॥६-१०-४६॥
उपावृश्चानुपावृश्चसुराष्ट्राः केकयास्तथा। कुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्रनिष्कुटाः ॥६-१०-४७॥
अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च। बहिर्गिर्याङ्गमलदा मागधा मानवर्जकाः ॥६-१०-४८॥
मह्युत्तराः प्रावृषेया भार्गवाश्च जनाधिप। पुण्ड्रा भार्गाः किराताश्च सुदोष्णाः प्रमुदास्तथा ॥६-१०-४९॥
शका निषादा निषधास्तथैवानर्तनैरृताः। दुगूलाः प्रतिमत्स्याश्च कुशलाः कुनटास्तथा ॥६-१०-५०॥
तीरग्राहास्तरतोया राजिका रस्यकागणाः। तिलकाः पारसीकाश्च मधुमन्तः प्रकुत्सकाः ॥६-१०-५१॥
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा। अभीसारा कुलूताश्च शैवला बाह्लिकास्तथा ॥६-१०-५२॥
दर्वीकाः सकचा दर्वा वातजामरथोरगाः। बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः ॥६-१०-५३॥
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा। वनायवो दशापार्श्वा रोमाणः कुशबिन्दवः ॥६-१०-५४॥
कच्छा गोपालकच्छाश्च लाङ्गलाः परवल्लकाः। किराता बर्बराः सिद्धा विदेहास्ताम्रलिङ्गकाः ॥६-१०-५५॥
ओष्ट्राः पुण्ड्राः ससैरन्ध्राः पार्वतीयाश्च मारिष। अथापरे जनपदा दक्षिणा भरतर्षभ ॥६-१०-५६॥
द्रविडाः केरलाः प्राच्या भूषिका वनवासिनः। उन्नत्यका माहिषका विकल्पा मूषकास्तथा ॥६-१०-५७॥
कर्णिकाः कुन्तिकाश्चैव सौद्भिदा नलकालकाः। कौकुट्टकास्तथा चोलाः कोङ्कणा मालवाणकाः ॥६-१०-५८॥
समङ्गाः कोपनाश्चैव कुकुराङ्गदमारिषाः। ध्वजिन्युत्सवसङ्केतास्त्रिगर्ताः सर्वसेनयः ॥६-१०-५९॥
त्र्यङ्गाः केकरकाः प्रोष्ठाः परसञ्चरकास्तथा। तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह ॥६-१०-६०॥
मालका मल्लकाश्चैव तथैवापरवर्तकाः। कुलिन्दाः कुलकाश्चैव करण्ठाः कुरकास्तथा ॥६-१०-६१॥
मूषका स्तनबालाश्च सतियः पत्तिपञ्जकाः। आदिदायाः सिरालाश्च स्तूबका स्तनपास्तथा ॥६-१०-६२॥
हृषीविदर्भाः कान्तीकास्तङ्गणाः परतङ्गणाः। उत्तराश्चापरे म्लेच्छा जना भरतसत्तम ॥६-१०-६३॥
यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः। सक्षद्द्रुहः कुन्तलाश्च हूणाः पारतकैः सह ॥६-१०-६४॥
तथैव मरधाश्चीनास्तथैव दशमालिकाः। क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ॥६-१०-६५॥
शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह। खशिकाश्च तुखाराश्च पल्लवा गिरिगह्वराः ॥६-१०-६६॥
आत्रेयाः सभरद्वाजास्तथैव स्तनयोषिकाः। औपकाश्च कलिङ्गाश्च किरातानां च जातयः ॥६-१०-६७॥
तामरा हंसमार्गाश्च तथैव करभञ्जकाः। उद्देशमात्रेण मया देशाः सङ्कीर्तिताः प्रभो ॥६-१०-६८॥
यथागुणबलं चापि त्रिवर्गस्य महाफलम्। दुह्येद्धेनुः कामधुक्च भूमिः सम्यगनुष्ठिता ॥६-१०-६९॥
तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः। ते त्यजन्त्याहवे प्राणान्रसागृद्धास्तरस्विनः ॥६-१०-७०॥
देवमानुषकायानां कामं भूमिः परायणम्। अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम् ॥६-१०-७१॥
राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम्। न चापि तृप्तिः कामानां विद्यते चेह कस्यचित् ॥६-१०-७२॥
तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः। साम्ना दानेन भेदेन दण्डेनैव च पार्थिव ॥६-१०-७३॥
पिता माता च पुत्रश्च खं द्यौश्च नरपुङ्गव। भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शिनी ॥६-१०-७४॥