06.053
Pancharatra and Core: The armies fight each other in the intense battle.
सञ्जय उवाच॥
ततो व्यूढेष्वनीकेषु तावकेष्वितरेषु च। धनञ्जयो रथानीकमवधीत्तव भारत ॥ शरैरतिरथो युद्धे पातयन्रथयूथपान् ॥६-५३-१॥
ते वध्यमानाः पार्थेन कालेनेव युगक्षये। धार्तराष्ट्रा रणे यत्ताः पाण्डवान्प्रत्ययोधयन् ॥ प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम् ॥६-५३-२॥
एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम्। बभञ्जुर्बहुशो राजंस्ते चाभज्यन्त संयुगे ॥६-५३-३॥
द्रवद्भिरथ भग्नैश्च परिवर्तद्भिरेव च। पाण्डवैः कौरवैश्चैव न प्रज्ञायत किञ्चन ॥६-५३-४॥
उदतिष्ठद्रजो भौमं छादयानं दिवाकरम्। दिशः प्रतिदिशो वापि तत्र जज्ञुः कथञ्चन ॥६-५३-५॥
अनुमानेन सञ्ज्ञाभिर्नामगोत्रैश्च संयुगे। वर्तते स्म तदा युद्धं तत्र तत्र विशां पते ॥६-५३-६॥
न व्यूहो भिद्यते तत्र कौरवाणां कथञ्चन। रक्षितः सत्यसन्धेन भारद्वाजेन धीमता ॥६-५३-७॥
तथैव पाण्डवेयानां रक्षितः सव्यसाचिना। नाभिध्यत महाव्यूहो भीमेन च सुरक्षितः ॥६-५३-८॥
सेनाग्रादभिनिष्पत्य प्रायुध्यंस्तत्र मानवाः। उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः ॥६-५३-९॥
हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे। ऋष्टिभिर्विमलाग्राभिः प्रासैरपि च संयुगे ॥६-५३-१०॥
रथी रथिनमासाद्य शरैः कनकभूषणैः। पातयामास समरे तस्मिन्नतिभयङ्करे ॥६-५३-११॥
गजारोहा गजारोहान्नाराचशरतोमरैः। संसक्ताः पातयामासुस्तव तेषां च सङ्घशः ॥६-५३-१२॥
पत्तिसङ्घा रणे पत्तीन्भिण्डिपालपरश्वधैः। न्यपातयन्त संहृष्टाः परस्परकृतागसः ॥६-५३-१३॥
पदाती रथिनं सङ्ख्ये रथी चापि पदातिनम्। न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि ॥६-५३-१४॥
गजारोहा हयारोहान्पातयां चक्रिरे तदा। हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् ॥६-५३-१५॥
गजारोहवरैश्चापि तत्र तत्र पदातयः। पातिताः समदृश्यन्त तैश्चापि गजयोधिनः ॥६-५३-१६॥
पत्तिसङ्घा हयारोहैः सादिसङ्घाश्च पत्तिभिः। पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ॥६-५३-१७॥
ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा। प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा ॥६-५३-१८॥
शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि। निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा ॥६-५३-१९॥
परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः। भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता ॥६-५३-२०॥
नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे। अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥६-५३-२१॥
प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः। दिशश्च विमलाः सर्वाः सम्बभूवुर्जनेश्वर ॥६-५३-२२॥
उत्थितान्यगणेयानि कबन्धानि समन्ततः। चिह्नभूतानि जगतो विनाशार्थाय भारत ॥६-५३-२३॥
तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे। प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः ॥६-५३-२४॥
ततो द्रोणश्च भीष्मश्च सैन्धवश्च जयद्रथः। पुरुमित्रो विकर्णश्च शकुनिश्चापि सौबलः ॥६-५३-२५॥
एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः। पाण्डवानामनीकानि बभञ्जुः स्म पुनः पुनः ॥६-५३-२६॥
तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः। सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत ॥६-५३-२७॥
तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः। द्रावयामासुराजौ ते त्रिदशा दानवानिव ॥६-५३-२८॥
तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः। रक्तोक्षिता घोररूपा विरेजुर्दानवा इव ॥६-५३-२९॥
विनिर्जित्य रिपून्वीराः सेनयोरुभयोरपि। व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले ॥६-५३-३०॥
ततो रथसहस्रेण पुत्रो दुर्योधनस्तव। अभ्ययात्पाण्डवान्युद्धे राक्षसं च घटोत्कचम् ॥६-५३-३१॥
तथैव पाण्डवाः सर्वे महत्या सेनया सह। द्रोणभीष्मौ रणे शूरौ प्रत्युद्ययुररिंदमौ ॥६-५३-३२॥
किरीटी तु ययौ क्रुद्धः समर्थान्पार्थिवोत्तमान्। आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् ॥६-५३-३३॥
ततः प्रववृते भूयः सङ्ग्रामो लोमहर्षणः। तावकानां परेषां च समरे विजिगीषताम् ॥६-५३-३४॥