06.062
Pancharatra and Core: Bhishma explains the secret behind Arjuna and Vasudeva as Nara and Narayana.
भीष्म उवाच॥
ततः स भगवान्देवो लोकानां परमेश्वरः। ब्रह्माणं प्रत्युवाचेदं स्निग्धगम्भीरया गिरा ॥६-६२-१॥
विदितं तात योगान्मे सर्वमेतत्तवेप्सितम्। तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत ॥६-६२-२॥
ततो देवर्षिगन्धर्वा विस्मयं परमं गताः। कौतूहलपराः सर्वे पितामहमथाब्रुवन् ॥६-६२-३॥
को न्वयं यो भगवता प्रणम्य विनयाद्विभो। वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम् ॥६-६२-४॥
एवमुक्तस्तु भगवान्प्रत्युवाच पितामहः। देवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा ॥६-६२-५॥
यत्तत्परं भविष्यं च भवितव्यं च यत्परम्। भूतात्मा यः प्रभुश्चैव ब्रह्म यच्च परं पदम् ॥६-६२-६॥
तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः। जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः ॥६-६२-७॥
मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः। असुराणां वधार्थाय सम्भवस्व महीतले ॥६-६२-८॥
सङ्ग्रामे निहता ये ते दैत्यदानवराक्षसाः। त इमे नृषु सम्भूता घोररूपा महाबलाः ॥६-६२-९॥
तेषां वधार्थं भगवान्नरेण सहितो वशी। मानुषीं योनिमास्थाय चरिष्यति महीतले ॥६-६२-१०॥
नरनारायणौ यौ तौ पुराणावृषिसत्तमौ। सहितौ मानुषे लोके सम्भूतावमितद्युती ॥६-६२-११॥
अजेयौ समरे यत्तौ सहितावमरैरपि। मूढास्त्वेतौ न जानन्ति नरनारायणावृषी ॥६-६२-१२॥
तस्याहमात्मजो ब्रह्मा सर्वस्य जगतः पतिः। वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः ॥६-६२-१३॥
तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाः। नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः ॥६-६२-१४॥
एतत्परमकं गुह्यमेतत्परमकं पदम्। एतत्परमकं ब्रह्म एतत्परमकं यशः ॥६-६२-१५॥
एतदक्षरमव्यक्तमेतत्तच्छाश्वतं महत्। एतत्पुरुषसञ्ज्ञं वै गीयते ज्ञायते न च ॥६-६२-१६॥
एतत्परमकं तेज एतत्परमकं सुखम्। एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा ॥६-६२-१७॥
तस्मात्सर्वैः सुरैः सेन्द्रैर्लोकैश्चामितविक्रमः। नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः ॥६-६२-१८॥
यश्च मानुषमात्रोऽयमिति ब्रूयात्सुमन्दधीः। हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम् ॥६-६२-१९॥
योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम्। अवमन्येद्वासुदेवं तमाहुस्तामसं जनाः ॥६-६२-२०॥
देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम्। पद्मनाभं न जानाति तमाहुस्तामसं जनाः ॥६-६२-२१॥
किरीटकौस्तुभधरं मित्राणामभयङ्करम्। अवजानन्महात्मानं घोरे तमसि मज्जति ॥६-६२-२२॥
एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः। वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः ॥६-६२-२३॥
एवमुक्त्वा स भगवान्सर्वान्देवगणान्पुरा। विसृज्य सर्वलोकात्मा जगाम भवनं स्वकम् ॥६-६२-२४॥
ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च। कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः ॥६-६२-२५॥
एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम्। वासुदेवं कथयतां समवाये पुरातनम् ॥६-६२-२६॥
जामदग्न्यस्य रामस्य मार्कण्डेयस्य धीमतः। व्यासनारदयोश्चापि श्रुतं श्रुतविशारद ॥६-६२-२७॥
एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम्। वासुदेवं महात्मानं लोकानामीश्वरेश्वरम् ॥६-६२-२८॥
यस्यासावात्मजो ब्रह्मा सर्वस्य जगतः पिता। कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः ॥६-६२-२९॥
वारितोऽसि पुरा तात मुनिभिर्वेदपारगैः। मा गच्छ संयुगं तेन वासुदेवेन धीमता ॥ मा पाण्डवैः सार्धमिति तच्च मोहान्न बुध्यसे ॥६-६२-३०॥
मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः। यस्माद्द्विषसि गोविन्दं पाण्डवं च धनञ्जयम् ॥ नरनारायणौ देवौ नान्यो द्विष्याद्धि मानवः ॥६-६२-३१॥
तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः। सर्वलोकमयो नित्यः शास्ता धाता धरो ध्रुवः ॥६-६२-३२॥
लोकान्धारयते यस्त्रींश्चराचरगुरुः प्रभुः। योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः ॥६-६२-३३॥
राजन्सत्त्वमयो ह्येष तमोरागविवर्जितः। यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ॥६-६२-३४॥
तस्य माहात्म्ययोगेन योगेनात्मन एव च। धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति ॥६-६२-३५॥
श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यः। बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति ॥६-६२-३६॥
स एष शाश्वतो देवः सर्वगुह्यमयः शिवः। वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत ॥६-६२-३७॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः। सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिः ॥६-६२-३८॥
द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च। सात्वतं विधिमास्थाय गीतः सङ्कर्षणेन यः ॥६-६२-३९॥
स एष सर्वासुरमर्त्यलोकं; समुद्रकक्ष्यान्तरिताः पुरीश्च। युगे युगे मानुषं चैव वासं; पुनः पुनः सृजते वासुदेवः ॥६-६२-४०॥