6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.063
Pancharatra: On further inquiry, Bhishma explains the Pancharatra philosophy to Duryodhana.
दुर्योधन उवाच॥
वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते। तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह ॥६-६३-१॥
भीष्म उवाच॥
वासुदेवो महद्भूतं सम्भूतं सह दैवतैः। न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ ॥ मार्कण्डेयश्च गोविन्दं कथयत्यद्भुतं महत् ॥६-६३-२॥
सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः। आपो वायुश्च तेजश्च त्रयमेतदकल्पयत् ॥६-६३-३॥
स सृष्ट्वा पृथिवीं देवः सर्वलोकेश्वरः प्रभुः। अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः ॥ सर्वतोयमयो देवो योगात्सुष्वाप तत्र ह ॥६-६३-४॥
मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च। सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युतः ॥६-६३-५॥
एष लोकान्ससर्जादौ देवांश्चर्षिगणैः सह। निधनं चैव मृत्युं च प्रजानां प्रभवोऽव्ययः ॥६-६३-६॥
एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः। एष कर्ता च कार्यं च पूर्वदेवः स्वयम्प्रभुः ॥६-६३-७॥
भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत्। उभे सन्ध्ये दिशः खं च नियमं च जनार्दनः ॥६-६३-८॥
ऋषींश्चैव हि गोविन्दस्तपश्चैवानु कल्पयत्। स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः ॥६-६३-९॥
अग्रजं सर्वभूतानां सङ्कर्षणमकल्पयत्। शेषं चाकल्पयद्देवमनन्तमिति यं विदुः ॥६-६३-१०॥
यो धारयति भूतानि धरां चेमां सपर्वताम्। ध्यानयोगेन विप्राश्च तं वदन्ति महौजसम् ॥६-६३-११॥
कर्णस्रोतोद्भवं चापि मधुं नाम महासुरम्। तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् ॥ ब्रह्मणोऽपचितिं कुर्वञ्जघान पुरुषोत्तमः ॥६-६३-१२॥
तस्य तात वधादेव देवदानवमानवाः। मधुसूदनमित्याहुरृषयश्च जनार्दनम् ॥ वराहश्चैव सिंहश्च त्रिविक्रमगतिः प्रभुः ॥६-६३-१३॥
एष माता पिता चैव सर्वेषां प्राणिनां हरिः। परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति ॥६-६३-१४॥
मुखतोऽसृजद्ब्राह्मणान्बाहुभ्यां क्षत्रियांस्तथा। वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैव च ॥ तपसा नियतो देवो निधानं सर्वदेहिनाम् ॥६-६३-१५॥
ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च। योगभूतं परिचरन्केशवं महदाप्नुयात् ॥६-६३-१६॥
केशवः परमं तेजः सर्वलोकपितामहः। एवमाहुर्हृषीकेशं मुनयो वै नराधिप ॥६-६३-१७॥
एवमेनं विजानीहि आचार्यं पितरं गुरुम्। कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः ॥६-६३-१८॥
यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत्। सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् ॥६-६३-१९॥
ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः। भये महति ये मग्नाः पाति नित्यं जनार्दनः ॥६-६३-२०॥
एतद्युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत। सर्वात्मना महात्मानं केशवं जगदीश्वरम् ॥ प्रपन्नः शरणं राजन्योगानामीश्वरं प्रभुम् ॥६-६३-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.