6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.069
Pancharatra and Core: Encounter between Arjuna and Ashwatthama, Duryodhana and Bhima, Abhimanyu and Lalkshmana.
सञ्जय उवाच॥
विराटोऽथ त्रिभिर्बाणैर्भीष्ममार्छन्महारथम्। विव्याध तुरगांश्चास्य त्रिभिर्बाणैर्महारथः ॥६-६९-१॥
तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवः शरैः। रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः ॥६-६९-२॥
द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः। अविध्यदिषुभिः षड्भिर्दृढहस्तः स्तनान्तरे ॥६-६९-३॥
कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा। अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः ॥६-६९-४॥
सोऽन्यत्कार्मुकमादाय वेगवत्क्रोधमूर्छितः। अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे ॥६-६९-५॥
अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः। वासुदेवं च सप्तत्या विव्याध परमेषुभिः ॥६-६९-६॥
ततः क्रोधाभिताम्राक्षः सह कृष्णेन फल्गुनः। दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा मुहुर्मुहुः ॥६-६९-७॥
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः। गाण्डीवधन्वा सङ्क्रुद्धः शितान्संनतपर्वणः ॥ जीवितान्तकरान्घोरान्समादत्त शिलीमुखान् ॥६-६९-८॥
तैस्तूर्णं समरेऽविध्यद्द्रौणिं बलवतां वरम्। तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे ॥६-६९-९॥
न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना। तथैव शरवर्षाणि प्रतिमुञ्चन्नविह्वलः ॥ तस्थौ स समरे राजंस्त्रातुमिच्छन्महाव्रतम् ॥६-६९-१०॥
तस्य तत्सुमहत्कर्म शशंसुः पुरुषर्षभाः। यत्कृष्णाभ्यां समेताभ्यां नापत्रपत संयुगे ॥६-६९-११॥
स हि नित्यमनीकेषु युध्यतेऽभयमास्थितः। अस्त्रग्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम् ॥६-६९-१२॥
ममायमाचार्यसुतो द्रोणस्यातिप्रियः सुतः। ब्राह्मणश्च विशेषेण माननीयो ममेति च ॥६-६९-१३॥
समास्थाय मतिं वीरो बीभत्सुः शत्रुतापनः। कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति ॥६-६९-१४॥
द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः शत्रुतापनः। युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी ॥६-६९-१५॥
दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः। भीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पयत् ॥६-६९-१६॥
भीमसेनस्तु सङ्क्रुद्धः परासुकरणं दृढम्। चित्रं कार्मुकमादत्त शरांश्च निशितान्दश ॥६-६९-१७॥
आकर्णप्रहितैस्तीक्ष्णैर्वेगितैस्तिग्मतेजनैः। अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि ॥६-६९-१८॥
तस्य काञ्चनसूत्रस्तु शरैः परिवृतो मणिः। रराजोरसि वै सूर्यो ग्रहैरिव समावृतः ॥६-६९-१९॥
पुत्रस्तु तव तेजस्वी भीमसेनेन ताडितः। नामृष्यत यथा नागस्तलशब्दं समीरितम् ॥६-६९-२०॥
ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः। भीमं विव्याध सङ्क्रुद्धस्त्रासयानो वरूथिनीम् ॥६-६९-२१॥
तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ। पुत्रौ ते देवसङ्काशौ व्यरोचेतां महाबलौ ॥६-६९-२२॥
चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा। अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः ॥६-६९-२३॥
सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि। नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् ॥६-६९-२४॥
तं प्रत्यविद्यद्दशभिश्चित्रसेनः शिलीमुखैः। सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः ॥६-६९-२५॥
स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत्। चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः ॥ भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् ॥६-६९-२६॥
ततस्ते तावका वीरा राजपुत्रा महारथाः। समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः ॥ तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् ॥६-६९-२७॥
तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव। दहन्तं समरे सैन्यं तव कक्षं यथोल्बणम् ॥६-६९-२८॥
अपेतशिशिरे काले समिद्धमिव पावकः। अत्यरोचत सौभद्रस्तव सैन्यानि शातयन् ॥६-६९-२९॥
तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशां पते। लक्ष्मणोऽभ्यपतत्तूर्णं सात्वतीपुत्रमाहवे ॥६-६९-३०॥
अभिमन्युस्तु सङ्क्रुद्धो लक्ष्मणं शुभलक्षणम्। विव्याध विशिखैः षड्भिः सारथिं च त्रिभिः शरैः ॥६-६९-३१॥
तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः। अविध्यत महाराज तदद्भुतमिवाभवत् ॥६-६९-३२॥
तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः। अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः ॥६-६९-३३॥
हताश्वे तु रथे तुष्ठँल्लक्ष्मणः परवीरहा। शक्तिं चिक्षेप सङ्क्रुद्धः सौभद्रस्य रथं प्रति ॥६-६९-३४॥
तामापतन्तीं सहसा घोररूपां दुरासदाम्। अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् ॥६-६९-३५॥
ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा। अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः ॥६-६९-३६॥
ततः समाकुले तस्मिन्वर्तमाने महाभये। अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः ॥६-६९-३७॥
तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः। जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम् ॥६-६९-३८॥
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः। बाहुभिः समयुध्यन्त सृञ्जयाः कुरुभिः सह ॥६-६९-३९॥
ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम्। सेनां जघान सङ्क्रुद्धो दिव्यैरस्त्रैर्महाबलः ॥६-६९-४०॥
हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः। रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी ॥६-६९-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.