06.070
Core and Pancharatra: The great battle involving Saumadatta and Bhūriśravas. Fifth day comes to an end.
सञ्जय उवाच॥
अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः। विकृष्य चापं समरे भारसाधनमुत्तमम् ॥६-७०-१॥
प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान्। प्रकाशं लघु चित्रं च दर्शयन्नस्त्रलाघवम् ॥६-७०-२॥
तस्य विक्षिपतश्चापं शरानन्यांश्च मुञ्चतः। आददानस्य भूयश्च संदधानस्य चापरान् ॥६-७०-३॥
क्षिपतश्च शरानस्य रणे शत्रून्विनिघ्नतः। ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः ॥६-७०-४॥
तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः। रथानामयुतं तस्य प्रेषयामास भारत ॥६-७०-५॥
तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः। जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् ॥६-७०-६॥
स कृत्वा दारुणं कर्म प्रगृहीतशरासनः। आससाद ततो वीरो भूरिश्रवसमाहवे ॥६-७०-७॥
स हि संदृश्य सेनां तां युयुधानेन पातिताम्। अभ्यधावत सङ्क्रुद्धः कुरूणां कीर्तिवर्धनः ॥६-७०-८॥
इन्द्रायुधसवर्णं तत्स विस्फार्य महद्धनुः। व्यसृजद्वज्रसङ्काशाञ्शरानाशीविषोपमान् ॥ सहस्रशो महाराज दर्शयन्पाणिलाघवम् ॥६-७०-९॥
शरांस्तान्मृत्युसंस्पर्शान्सात्यकेस्तु पदानुगाः। न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः ॥ विहाय समरे राजन्सात्यकिं युद्धदुर्मदम् ॥६-७०-१०॥
तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः। महारथाः समाख्याताश्चित्रवर्मायुधध्वजाः ॥६-७०-११॥
समासाद्य महेष्वासं भूरिश्रवसमाहवे। ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे ॥६-७०-१२॥
भो भो कौरवदायाद सहास्माभिर्महाबल। एहि युध्यस्व सङ्ग्रामे समस्तैः पृथगेव वा ॥६-७०-१३॥
अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे। वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः ॥६-७०-१४॥
एवमुक्तस्तदा शूरैस्तानुवाच महाबलः। वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समुपस्थितान् ॥६-७०-१५॥
साध्विदं कथ्यते वीरा यदेवं मतिरद्य वः। युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे ॥६-७०-१६॥
एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः। महता शरवर्षेण अभ्यवर्षन्नरिंदमम् ॥६-७०-१७॥
अपराह्णे महाराज सङ्ग्रामस्तुमुलोऽभवत्। एकस्य च बहूनां च समेतानां रणाजिरे ॥६-७०-१८॥
तमेकं रथिनां श्रेष्ठं शरवर्षैरवाकिरन्। प्रावृषीव महाशैलं सिषिचुर्जलदा नृप ॥६-७०-१९॥
तैस्तु मुक्ताञ्शरौघांस्तान्यमदण्डाशनिप्रभान्। असम्प्राप्तानसम्प्राप्तांश्चिच्छेदाशु महारथः ॥६-७०-२०॥
तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम्। यदेको बहुभिर्युद्धे समसज्जदभीतवत् ॥६-७०-२१॥
विसृज्य शरवृष्टिं तां दश राजन्महारथाः। परिवार्य महाबाहुं निहन्तुमुपचक्रमुः ॥६-७०-२२॥
सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत। चिच्छेद दशभिर्बाणैर्निमेषेण महारथः ॥६-७०-२३॥
अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः। चिच्छेद समरे राजञ्शिरांसि निशितैः शरैः ॥ ते हता न्यपतन्भूमौ वज्रभग्ना इव द्रुमाः ॥६-७०-२४॥
तान्दृष्ट्वा निहतान्वीरान्रणे पुत्रान्महाबलान्। वार्ष्णेयो विनदन्राजन्भूरिश्रवसमभ्ययात् ॥६-७०-२५॥
रथं रथेन समरे पीडयित्वा महाबलौ। तावन्योन्यस्य समरे निहत्य रथवाजिनः ॥ विरथावभिवल्गन्तौ समेयातां महारथौ ॥६-७०-२६॥
प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौ। शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ ॥६-७०-२७॥
ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम्। भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा ॥६-७०-२८॥
तवापि तनयो राजन्भूरिश्रवसमाहवे। आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् ॥६-७०-२९॥
तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम्। अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ ॥६-७०-३०॥
लोहितायति चादित्ये त्वरमाणो धनञ्जयः। पञ्चविंशतिसाहस्रान्निजघान महारथान् ॥६-७०-३१॥
ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे। सम्प्राप्यैव गता नाशं शलभा इव पावकम् ॥६-७०-३२॥
ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः। परिवव्रुस्तदा पार्थं सहपुत्रं महारथम् ॥६-७०-३३॥
एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति। सर्वेषामेव सैन्यानां प्रमोहः समजायत ॥६-७०-३४॥
अवहारं ततश्चक्रे पिता देवव्रतस्तव। सन्ध्याकाले महाराज सैन्यानां श्रान्तवाहनः ॥६-७०-३५॥
पाण्डवानां कुरूणां च परस्परसमागमे। ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् ॥६-७०-३६॥
ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत। पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधि ॥६-७०-३७॥