06.078
Core and Pancharatra: Suśarman was defeated by the noble Pāṇḍava; Drona kills Virata's son Shankha; encounter between Shikhandi and Ashwatthama, Satyaki and Alambusa, Dhrishtadyumna and Duryadhana, Bhima and Kritavarma.
सञ्जय उवाच॥
तथा प्रवृत्ते सङ्ग्रामे निवृत्ते च सुशर्मणि। प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना ॥६-७८-१॥
क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव। प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति ॥६-७८-२॥
दृष्ट्वा दुर्योधनो राजन्रणे पार्थस्य विक्रमम्। त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् ॥६-७८-३॥
तेषां च प्रमुखे शूरं सुशर्माणं महाबलम्। मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्वचः ॥६-७८-४॥
एष भीष्मः शान्तनवो योद्धुकामो धनञ्जयम्। सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः ॥६-७८-५॥
तं प्रयान्तं परानीकं सर्वसैन्येन भारतम्। संयत्ताः समरे सर्वे पालयध्वं पितामहम् ॥६-७८-६॥
बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः। नरेन्द्राणां महाराज समाजग्मुः पितामहम् ॥६-७८-७॥
ततः प्रयातः सहसा भीष्मः शान्तनवोऽर्जुनम्। रणे भारतमायान्तमाससाद महाबलम् ॥६-७८-८॥
महाश्वेताश्वयुक्तेन भीमवानरकेतुना। महता मेघनादेन रथेनाति विराजत ॥६-७८-९॥
समरे सर्वसैन्यानामुपयातं धनञ्जयम्। अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम् ॥६-७८-१०॥
अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम्। मध्यंदिनगतं सङ्ख्ये न शेकुः प्रतिवीक्षितुम् ॥६-७८-११॥
तथा शान्तनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम्। न शेकुः पाण्डवा द्रष्टुं श्वेतग्रहमिवोदितम् ॥६-७८-१२॥
स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः। भ्रातृभिस्तव पुत्रैश्च तथान्यैश्च महारथैः ॥६-७८-१३॥
भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा। ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे ॥६-७८-१४॥
तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः। अन्यदादत्त वेगेन धनुर्भारसहं दृढम् ॥ शरांश्चाशीविषाकाराञ्ज्वलितान्पन्नगानिव ॥६-७८-१५॥
द्रोणं त्रिभिः प्रविव्याध चतुर्भिश्चास्य वाजिनः। ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः ॥ धनुरेकेषुणाविध्यत्तत्राक्रुध्यद्द्विजर्षभः ॥६-७८-१६॥
तस्य द्रोणोऽवधीदश्वाञ्शरैः संनतपर्वभिः। अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा ॥६-७८-१७॥
स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः। आरुरोह रथं तूर्णं शङ्खस्य रथिनां वरः ॥६-७८-१८॥
ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ। महता शरवर्षेण वारयामासतुर्बलात् ॥६-७८-१९॥
भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम्। चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वर ॥६-७८-२०॥
स तस्य हृदयं भित्त्वा पीत्वा शोणितमाहवे। जगाम धरणिं बाणो लोहितार्द्रीकृतच्छविः ॥६-७८-२१॥
स पपात रथात्तूर्णं भारद्वाजशराहतः। धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः ॥६-७८-२२॥
हतं स्वमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात्। उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् ॥६-७८-२३॥
भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम्। दारयामास समरे शतशोऽथ सहस्रशः ॥६-७८-२४॥
शिखण्ड्यपि महाराज द्रौणिमासाद्य संयुगे। आजघान भ्रुवोर्मध्ये नाराचैस्त्रिभिराशुगैः ॥६-७८-२५॥
स बभौ नरशार्दूलो ललाटे संस्थितैस्त्रिभिः। शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः ॥६-७८-२६॥
अश्वत्थामा ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः। सूतं ध्वजमथो राजंस्तुरगानायुधं तथा ॥ शरैर्बहुभिरुद्दिश्य पातयामास संयुगे ॥६-७८-२७॥
स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः। खड्गमादाय निशितं विमलं च शरावरम् ॥ श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः ॥६-७८-२८॥
सखड्गस्य महाराज चरतस्तस्य संयुगे। नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् ॥६-७८-२९॥
ततः शरसहस्राणि बहूनि भरतर्षभ। प्रेषयामास समरे द्रौणिः परमकोपनः ॥६-७८-३०॥
तामापतन्तीं समरे शरवृष्टिं सुदारुणाम्। असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः ॥६-७८-३१॥
ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम्। चर्माच्छिनदसिं चास्य खण्डयामास संयुगे ॥ शितैः सुबहुशो राजंस्तं च विव्याध पत्रिभिः ॥६-७८-३२॥
शिखण्डी तु ततः खड्गं खण्डितं तेन सायकैः। आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् ॥६-७८-३३॥
तमापतन्तं सहसा कालानलसमप्रभम्। चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् ॥ शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः ॥६-७८-३४॥
शिखण्डी तु भृशं राजंस्ताड्यमानः शितैः शरैः। आरुरोह रथं तूर्णं माधवस्य महात्मनः ॥६-७८-३५॥
सात्यकिस्तु ततः क्रुद्धो राक्षसं क्रूरमाहवे। अलम्बुसं शरैर्घोरैर्विव्याध बलिनं बली ॥६-७८-३६॥
राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत। अर्धचन्द्रेण समरे तं च विव्याध सायकैः ॥ मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत् ॥६-७८-३७॥
तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम्। नासम्भ्रमद्यत्समरे वध्यमानः शितैः शरैः ॥६-७८-३८॥
ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत। विजयाद्यदनुप्राप्तं माधवेन यशस्विना ॥६-७८-३९॥
तदस्त्रं भस्मसात्कृत्वा मायां तां राक्षसीं तदा। अलम्बुसं शरैर्घोरैरभ्याकिरत सर्वशः ॥ पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥६-७८-४०॥
तत्तथा पीडितं तेन माधवेन महात्मना। प्रदुद्राव भयाद्रक्षो हित्वा सात्यकिमाहवे ॥६-७८-४१॥
तमजेयं राक्षसेन्द्रं सङ्ख्ये मघवता अपि। शैनेयः प्राणदज्जित्वा योधानां तव पश्यताम् ॥६-७८-४२॥
न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः। निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः ॥६-७८-४३॥
एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली। धृष्टद्युम्नो महाराज तव पुत्रं जनेश्वरम् ॥ छादयामास समरे शरैः संनतपर्वभिः ॥६-७८-४४॥
सञ्छाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत। विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वरः ॥६-७८-४५॥
धृष्टद्युम्नं च समरे तूर्णं विव्याध सायकैः। षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् ॥६-७८-४६॥
तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष। हयांश्च चतुरः शीघ्रं निजघान महारथः ॥ शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः ॥६-७८-४७॥
स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली। पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति ॥६-७८-४८॥
शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः। राजानं सर्वलोकस्य रथमारोपयत्स्वकम् ॥६-७८-४९॥
ततो नृपं पराजित्य पार्षतः परवीरहा। न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरम् ॥६-७८-५०॥
कृतवर्मा रणे भीमं शरैरार्छन्महारथम्। प्रच्छादयामास च तं महामेघो रविं यथा ॥६-७८-५१॥
ततः प्रहस्य समरे भीमसेनः परन्तपः। प्रेषयामास सङ्क्रुद्धः सायकान्कृतवर्मणे ॥६-७८-५२॥
तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः। नाकम्पत महाराज भीमं चार्छच्छितैः शरैः ॥६-७८-५३॥
तस्याश्वांश्चतुरो हत्वा भीमसेनो महाबलः। सारथिं पातयामास ध्वजं च सुपरिष्कृतम् ॥६-७८-५४॥
शरैर्बहुविधैश्चैनमाचिनोत्परवीरहा। शकलीकृतसर्वाङ्गः श्वाविद्वत्समदृश्यत ॥६-७८-५५॥
हताश्वात्तु रथात्तूर्णं वृषकस्य रथं ययौ। स्यालस्य ते महाराज तव पुत्रस्य पश्यतः ॥६-७८-५६॥
भीमसेनोऽपि सङ्क्रुद्धस्तव सैन्यमुपाद्रवत्। निजघान च सङ्क्रुद्धो दण्डपाणिरिवान्तकः ॥६-७८-५७॥