6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.077
Core and Pancharatra: Special medicine was administered to Duryodhana to heal his wounds. Yudhishthira, observing the fierce circular formation, arranged his troops into a diamond formation on the seventh day of the war.
सञ्जय उवाच॥
अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम्। अब्रवीद्भरतश्रेष्ठः सम्प्रहर्षकरं वचः ॥६-७७-१॥
अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः। अश्वत्थामा विकर्णश्च सोमदत्तोऽथ सैन्धवः ॥६-७७-२॥
विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः। त्रिगर्तराजश्च बली मागधश्च सुदुर्जयः ॥६-७७-३॥
बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः। रथाश्च बहुसाहस्राः शोभमाना महाध्वजाः ॥६-७७-४॥
देशजाश्च हया राजन्स्वारूढा हयसादिभिः। गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः ॥६-७७-५॥
पदाताश्च तथा शूरा नानाप्रहरणायुधाः। नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः ॥६-७७-६॥
एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः। देवानपि रणे जेतुं समर्था इति मे मतिः ॥६-७७-७॥
अवश्यं तु मया राजंस्तव वाच्यं हितं सदा। अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥ वासुदेवसहायाश्च महेन्द्रसमविक्रमाः ॥६-७७-८॥
सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव। पाण्डवान्वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः ॥६-७७-९॥
एवमुक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम्। ओषधीं वीर्यसम्पन्नां विशल्यश्चाभवत्तदा ॥६-७७-१०॥
ततः प्रभाते विमले स्वेनानीकेन वीर्यवान्। अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः ॥६-७७-११॥
मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम्। सम्पूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः ॥६-७७-१२॥
रथैरनेकसाहस्रैः समन्तात्परिवारितम्। अश्ववृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः ॥६-७७-१३॥
नागे नागे रथाः सप्त सप्त चाश्वा रथे रथे। अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः ॥६-७७-१४॥
एवंव्यूहं महाराज तव सैन्यं महारथैः। स्थितं रणाय महते भीष्मेण युधि पालितम् ॥६-७७-१५॥
दशाश्वानां सहस्राणि दन्तिनां च तथैव च। रथानामयुतं चापि पुत्राश्च तव दंशिताः ॥ चित्रसेनादयः शूरा अभ्यरक्षन्पितामहम् ॥६-७७-१६॥
रक्ष्यमाणश्च तैः शूरैर्गोप्यमानाश्च तेन ते। संनद्धाः समदृश्यन्त राजानश्च महाबलाः ॥६-७७-१७॥
दुर्योधनस्तु समरे दंशितो रथमास्थितः। व्यभ्राजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे ॥६-७७-१८॥
ततः शब्दो महानासीत्पुत्राणां तव भारत। रथघोषश्च तुमुलो वादित्राणां च निस्वनः ॥६-७७-१९॥
भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि। मण्डलः सुमहाव्यूहो दुर्भेद्योऽमित्रघातिनाम् ॥ सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः ॥६-७७-२०॥
मण्डलं तु समालोक्य व्यूहं परमदारुणम्। स्वयं युधिष्ठिरो राजा व्यूहं वज्रमथाकरोत् ॥६-७७-२१॥
तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः। रथिनः सादिनश्चैव सिंहनादमथानदन् ॥६-७७-२२॥
बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः। इतरेतरतः शूराः सहसैन्याः प्रहारिणः ॥६-७७-२३॥
भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम्। स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् ॥६-७७-२४॥
नकुलः सहदेवश्च राजन्मद्रेशमीयतुः। विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ ॥६-७७-२५॥
सर्वे नृपास्तु समरे धनञ्जयमयोधयन्। भीमसेनो रणे यत्तो हार्दिक्यं समवारयत् ॥६-७७-२६॥
चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो। आर्जुनिः समरे राजंस्तव पुत्रानयोधयत् ॥६-७७-२७॥
प्राग्ज्योतिषं महेष्वासं हैडिम्बो राक्षसोत्तमः। अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् ॥६-७७-२८॥
अलम्बुसस्ततो राजन्सात्यकिं युद्धदुर्मदम्। ससैन्यं समरे क्रुद्धो राक्षसः समभिद्रवत् ॥६-७७-२९॥
भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत्। श्रुतायुषं तु राजानं धर्मपुत्रो युधिष्ठिरः ॥६-७७-३०॥
चेकितानस्तु समरे कृपमेवान्वयोधयत्। शेषाः प्रतिययुर्यत्ता भीममेव महारथम् ॥६-७७-३१॥
ततो राजसहस्राणि परिवव्रुर्धनञ्जयम्। शक्तितोमरनाराचगदापरिघपाणयः ॥६-७७-३२॥
अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत्। पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे ॥ व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना ॥६-७७-३३॥
युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान्। त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव ॥६-७७-३४॥
अद्यैतान्पातयिष्यामि पश्यतस्ते जनार्दन। य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे ॥६-७७-३५॥
एवमुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृज्य च। ववर्ष शरवर्षाणि नराधिपगणान्प्रति ॥६-७७-३६॥
तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन्। तडागमिव धाराभिर्यथा प्रावृषि तोयदा ॥६-७७-३७॥
हाहाकारो महानासीत्तव सैन्ये विशां पते। छाद्यमानौ भृशं कृष्णौ शरैर्दृष्ट्वा महारणे ॥६-७७-३८॥
देवा देवर्षयश्चैव गन्धर्वाश्च महोरगाः। विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथागतौ ॥६-७७-३९॥
ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदीरयत्। तत्राद्भुतमपश्याम विजयस्य पराक्रमम् ॥६-७७-४०॥
शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत्। न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशां पते ॥६-७७-४१॥
तेषां राजसहस्राणां हयानां दन्तिनां तथा। द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष ॥६-७७-४२॥
ते हन्यमानाः पार्थेन भीष्मं शान्तनवं ययुः। अगाधे मज्जमानानां भीष्मस्त्राताभवत्तदा ॥६-७७-४३॥
आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम्। सञ्चुक्षुभे महाराज वातैरिव महार्णवः ॥६-७७-४४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.