06.094
सञ्जय उवाच॥
वाक्षल्यैस्तव पुत्रेण सोऽतिविद्धः पितामहः। दुःखेन महताविष्टो नोवाचाप्रियमण्वपि ॥६-९४-१॥
स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः। श्वसमानो यथा नागः प्रणुन्नो वै शलाकया ॥६-९४-२॥
उद्वृत्य चक्षुषी कोपान्निर्दहन्निव भारत। सदेवासुरगन्धर्वं लोकं लोकविदां वरः ॥ अब्रवीत्तव पुत्रं तु सामपूर्वमिदं वचः ॥६-९४-३॥
किं नु दुर्योधनैवं मां वाक्षल्यैरुपविध्यसि। घटमानं यथाशक्ति कुर्वाणं च तव प्रियम् ॥ जुह्वानं समरे प्राणांस्तवैव हितकाम्यया ॥६-९४-४॥
यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत्। पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम् ॥६-९४-५॥
यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा। अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम् ॥६-९४-६॥
द्रवमाणेषु शूरेषु सोदरेषु तथाभिभो। सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम् ॥६-९४-७॥
यच्च नः सहितान्सर्वान्विराटनगरे तदा। एक एव समुद्यातः पर्याप्तं तन्निदर्शनम् ॥६-९४-८॥
द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे। कर्णं च त्वां च द्रौणिं च कृपं च सुमहारथम् ॥ वासांसि स समादत्त पर्याप्तं तन्निदर्शनम् ॥६-९४-९॥
निवातकवचान्युद्धे वासवेनापि दुर्जयान्। जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम् ॥६-९४-१०॥
को हि शक्तो रणे जेतुं पाण्डवं रभसं रणे। त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन ॥६-९४-११॥
मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काञ्चनान्। तथा त्वमपि गान्धारे विपरीतानि पश्यसि ॥६-९४-१२॥
स्वयं वैरं महत्कृत्वा पाण्डवैः सहसृञ्जयैः। युध्यस्व तानद्य रणे पश्यामः पुरुषो भव ॥६-९४-१३॥
अहं तु सोमकान्सर्वान्सपाञ्चालान्समागतान्। निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम् ॥६-९४-१४॥
तैर्वाहं निहतः सङ्ख्ये गमिष्ये यमसादनम्। तान्वा निहत्य सङ्ग्रामे प्रीतिं दास्यामि वै तव ॥६-९४-१५॥
पूर्वं हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि। वरदानात्पुमाञ्जातः सैषा वै स्त्री शिखण्डिनी ॥६-९४-१६॥
तामहं न हनिष्यामि प्राणत्यागेऽपि भारत। यासौ प्राङ्निर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी ॥६-९४-१७॥
सुखं स्वपिहि गान्धारे श्वोऽस्मि कर्ता महारणम्। यज्जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी ॥६-९४-१८॥
एवमुक्तस्तव सुतो निर्जगाम जनेश्वर। अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम् ॥६-९४-१९॥
आगम्य तु ततो राजा विसृज्य च महाजनम्। प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयङ्करः ॥ प्रविष्टः स निशां तां च गमयामास पार्थिवः ॥६-९४-२०॥