6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.095
सञ्जय उवाच॥
प्रभातायां तु शर्वर्यां प्रातरुत्थाय वै नृपः। राज्ञः समाज्ञापयत सेनां योजयतेति ह ॥ अद्य भीष्मो रणे क्रुद्धो निहनिष्यति सोमकान् ॥६-९५-१॥
दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु। मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः ॥६-९५-२॥
निर्वेदं परमं गत्वा विनिन्द्य परवाच्यताम्। दीर्घं दध्यौ शान्तनवो योद्धुकामोऽर्जुनं रणे ॥६-९५-३॥
इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम्। दुर्योधनो महाराज दुःशासनमचोदयत् ॥६-९५-४॥
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः। द्वात्रिंशत्त्वमनीकानि सर्वाण्येवाभिचोदय ॥६-९५-५॥
इदं हि समनुप्राप्तं वर्षपूगाभिचिन्तितम्। पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः ॥६-९५-६॥
तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम्। स नो गुप्तः सुखाय स्याद्धन्यात्पार्थांश्च संयुगे ॥६-९५-७॥
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम्। स्त्रीपूर्वको ह्यसौ जातस्तस्माद्वर्ज्यो रणे मया ॥६-९५-८॥
लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया। राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान्पुरा ॥६-९५-९॥
नैव चाहं स्त्रियं जातु न स्त्रीपूर्वं कथञ्चन। हन्यां युधि नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥६-९५-१०॥
अयं स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः। उद्योगे कथितं यत्तत्तथा जाता शिखण्डिनी ॥६-९५-११॥
कन्या भूत्वा पुमाञ्जातः स च योत्स्यति भारत। तस्याहं प्रमुखे बाणान्न मुञ्चेयं कथञ्चन ॥६-९५-१२॥
युद्धे तु क्षत्रियांस्तात पाण्डवानां जयैषिणः। सर्वानन्यान्हनिष्यामि सम्प्राप्तान्बाणगोचरान् ॥६-९५-१३॥
एवं मां भरतश्रेष्ठो गाङ्गेयः प्राह शास्त्रवित्। तत्र सर्वात्मना मन्ये भीष्मस्यैवाभिपालनम् ॥६-९५-१४॥
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महावने। मा वृकेणेव शार्दूलं घातयेम शिखण्डिना ॥६-९५-१५॥
मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः। यत्ता रक्षन्तु गाङ्गेयं तस्मिन्गुप्ते ध्रुवो जयः ॥६-९५-१६॥
एतच्छ्रुत्वा तु राजानो दुर्योधनवचस्तदा। सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन् ॥६-९५-१७॥
पुत्राश्च तव गाङ्गेयं परिवार्य ययुर्मुदा। कम्पयन्तो भुवं द्यां च क्षोभयन्तश्च पाण्डवान् ॥६-९५-१८॥
तै रथैश्च सुसंयुक्तैर्दन्तिभिश्च महारथाः। परिवार्य रणे भीष्मं दंशिताः समवस्थिताः ॥६-९५-१९॥
यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम्। सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम् ॥६-९५-२०॥
ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत्। सव्यं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् ॥ गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः ॥६-९५-२१॥
स रक्ष्यमाणः पार्थेन तथास्माभिर्विवर्जितः। यथा भीष्मं न नो हन्याद्दुःशासन तथा कुरु ॥६-९५-२२॥
भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव। भीष्मं प्रमुखतः कृत्वा प्रययौ सेनया सह ॥६-९५-२३॥
भीष्मं तु रथवंशेन दृष्ट्वा तमभिसंवृतम्। अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह ॥६-९५-२४॥
शिखण्डिनं नरव्याघ्र भीष्मस्य प्रमुखेऽनघ। स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताहमप्युत ॥६-९५-२५॥
ततः शान्तनवो भीष्मो निर्ययौ सेनया सह। व्यूहं चाव्यूहत महत्सर्वतोभद्रमाहवे ॥६-९५-२६॥
कृपश्च कृतवर्मा च शैब्यश्चैव महारथः। शकुनिः सैन्धवश्चैव काम्बोजश्च सुदक्षिणः ॥६-९५-२७॥
भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत। अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः ॥६-९५-२८॥
द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष। दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः ॥६-९५-२९॥
अश्वत्थामा सोमदत्त आवन्त्यौ च महारथौ। महत्या सेनया युक्ता वामं पक्षमपालयन् ॥६-९५-३०॥
दुर्योधनो महाराज त्रिगर्तैः सर्वतो वृतः। व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत ॥६-९५-३१॥
अलम्बुसो रथश्रेष्ठः श्रुतायुश्च महारथः। पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ ॥६-९५-३२॥
एवमेते तदा व्यूहं कृत्वा भारत तावकाः। संनद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः ॥६-९५-३३॥
तथा युधिष्ठिरो राजा भीमसेनश्च पाण्डवः। नकुलः सहदेवश्च माद्रीपुत्रावुभावपि ॥ अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः ॥६-९५-३४॥
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः। स्थिताः सैन्येन महता परानीकविनाशनाः ॥६-९५-३५॥
शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः। चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान् ॥ स्थिता रणे महाराज महत्या सेनया वृताः ॥६-९५-३६॥
अभिमन्युर्महेष्वासो द्रुपदश्च महारथः। केकया भ्रातरः पञ्च स्थिता युद्धाय दंशिताः ॥६-९५-३७॥
एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम्। पाण्डवाः समरे शूराः स्थिता युद्धाय मारिष ॥६-९५-३८॥
तावकास्तु रणे यत्ताः सहसेना नराधिपाः। अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाग्रतो नृप ॥६-९५-३९॥
तथैव पाण्डवा राजन्भीमसेनपुरोगमाः। भीष्मं युद्धपरिप्रेप्सुं सङ्ग्रामे विजिगीषवः ॥६-९५-४०॥
क्ष्वेडाः किलिकिलाशब्दान्क्रकचान्गोविषाणिकाः। भेरीमृदङ्गपणवान्नादयन्तश्च पुष्करान् ॥ पाण्डवा अभ्यधावन्त नदन्तो भैरवान्रवान् ॥६-९५-४१॥
भेरीमृदङ्गशङ्खानां दुन्दुभीनां च निस्वनैः। उत्क्रुष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः ॥६-९५-४२॥
वयं प्रतिनदन्तस्तानभ्यगच्छाम सत्वराः। सहसैवाभिसङ्क्रुद्धास्तदासीत्तुमुलं महत् ॥६-९५-४३॥
ततोऽन्योन्यं प्रधावन्तः सम्प्रहारं प्रचक्रिरे। ततः शब्देन महता प्रचकम्पे वसुन्धरा ॥६-९५-४४॥
पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः। सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत ॥६-९५-४५॥
ववुश्च तुमुला वाताः शंसन्तः सुमहद्भयम्। घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे ॥ वेदयन्त्यो महाराज महद्वैशसमागतम् ॥६-९५-४६॥
दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च। रुधिरेण समुन्मिश्रमस्थिवर्षं तथैव च ॥६-९५-४७॥
रुदतां वाहनानां च नेत्रेभ्यः प्रापतज्जलम्। सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशां पते ॥६-९५-४८॥
अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ। रक्षसां पुरुषादानां नदतां भैरवान्रवान् ॥६-९५-४९॥
सम्पतन्तः स्म दृश्यन्ते गोमायुबकवायसाः। श्वानश्च विविधैर्नादैर्भषन्तस्तत्र तस्थिरे ॥६-९५-५०॥
ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम्। निपेतुः सहसा भूमौ वेदयाना महद्भयम् ॥६-९५-५१॥
महान्त्यनीकानि महासमुच्छ्रये; समागमे पाण्डवधार्तराष्ट्रयोः। प्रकाशिरे शङ्खमृदङ्गनिस्वनैः; प्रकम्पितानीव वनानि वायुना ॥६-९५-५२॥
नरेन्द्रनागाश्वसमाकुलाना; मभ्यायतीनामशिवे मुहूर्ते। बभूव घोषस्तुमुलश्चमूनां; वातोद्धुतानामिव सागराणाम् ॥६-९५-५३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.