06.117
Pancharatra and Core: Karna visits Bhishma and takes his blessings to engage in war.
सञ्जय उवाच॥
ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः। तूष्णीम्भूते महाराज भीष्मे शन्तनुनन्दने ॥६-११७-१॥
श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः। ईषदागतसन्त्रासः त्वरयोपजगाम ह ॥६-११७-२॥
स ददर्श महात्मानं शरतल्पगतं तदा। जन्मशय्यागतं देवं कार्त्तिकेयमिव प्रभुम् ॥६-११७-३॥
निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषः। अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः ॥६-११७-४॥
राधेयोऽहं कुरुश्रेष्ठ नित्यं चाष्किगतस्तव। द्वेष्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह ॥६-११७-५॥
तच्छ्रुत्वा कुरुवृद्धः स बलात्संवृत्तलोचनः। शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत् ॥६-११७-६॥
रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः। पितेव पुत्रं गाङ्गेयः परिष्वज्यैकबाहुना ॥६-११७-७॥
एह्येहि मे विप्रतीप स्पर्धसे त्वं मया सह। यदि मां नाभिगच्छेथा न ते श्रेयो भवेद्ध्रुवम् ॥६-११७-८॥
कौन्तेयस्त्वं न राधेयो विदितो नारदान्मम। कृष्णद्वैपायनाच्चैव केशवाच्च न संशयः ॥६-११७-९॥
न च द्वेषोऽस्ति मे तात त्वयि सत्यं ब्रवीमि ते। तेजोवधनिमित्तं तु परुषाण्यहमुक्तवान् ॥६-११७-१०॥
अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम। येनासि बहुशो रूक्षं चोदितः सूर्यनन्दन ॥६-११७-११॥
जानामि समरे वीर्यं शत्रुभिर्दुःसहं तव। ब्रह्मण्यतां च शौर्यं च दाने च परमां गतिम् ॥६-११७-१२॥
न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम। कुलभेदं च मत्वाहं सदा परुषमुक्तवान् ॥६-११७-१३॥
इष्वस्त्रे भारसन्धाने लाघवेऽस्त्रबले तथा। सदृशः फल्गुनेनासि कृष्णेन च महात्मना ॥६-११७-१४॥
कर्ण राजपुरं गत्वा त्वयैकेन धनुष्मता। तस्यार्थे कुरुराजस्य राजानो मृदिता युधि ॥६-११७-१५॥
तथा च बलवान्राजा जरासन्धो दुरासदः। समरे समरश्लाघी त्वया न सदृशोऽभवत् ॥६-११७-१६॥
ब्रह्मण्यः सत्यवादी च तेजसार्क इवापरः। देवगर्भोऽजितः सङ्ख्ये मनुष्यैरधिको भुवि ॥६-११७-१७॥
व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः। दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ॥६-११७-१८॥
सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन। सङ्गच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम् ॥६-११७-१९॥
मया भवतु निर्वृत्तं वैरमादित्यनन्दन। पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः ॥६-११७-२०॥
कर्ण उवाच॥
जानाम्यहं महाप्राज्ञ सर्वमेतन्न संशयः। यथा वदसि दुर्धर्ष कौन्तेयोऽहं न सूतजः ॥६-११७-२१॥
अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः। भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे ॥६-११७-२२॥
वसु चैव शरीरं च यदुदारं तथा यशः। सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण ॥६-११७-२३॥
कोपिताः पाण्डवा नित्यं मयाश्रित्य सुयोधनम् ॥६-११७-२३॥
अवश्यभावी वै योऽर्थो न स शक्यो निवर्तितुम्। दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् ॥६-११७-२४॥
पृथिवीक्षयशंसीनि निमित्तानि पितामह। भवद्भिरुपलब्धानि कथितानि च संसदि ॥६-११७-२५॥
पाण्डवा वासुदेवश्च विदिता मम सर्वशः। अजेयाः पुरुषैरन्यैरिति तांश्चोत्सहामहे ॥६-११७-२६॥
अनुजानीष्व मां तात युद्धे प्रीतमनाः सदा। अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः ॥६-११७-२७॥
दुरुक्तं विप्रतीपं वा संरम्भाच्चापलात्तथा। यन्मयापकृतं किञ्चित्तदनुक्षन्तुमर्हसि ॥६-११७-२८॥
भीष्म उवाच॥
न चेच्छक्यमथोत्स्रष्टुं वैरमेतत्सुदारुणम्। अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया ॥६-११७-२९॥
विमन्युर्गतसंरम्भः कुरु कर्म नृपस्य हि। यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् ॥६-११७-३०॥
अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि। क्षत्रधर्मजिताँल्लोकान्सम्प्राप्स्यसि न संशयः ॥६-११७-३१॥
युध्यस्व निरहङ्कारो बलवीर्यव्यपाश्रयः। धर्मो हि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥६-११७-३२॥
प्रशमे हि कृतो यत्नः सुचिरात्सुचिरं मया। न चैव शकितः कर्तुं यतो धर्मस्ततो जयः ॥६-११७-३३॥
सञ्जय उवाच॥
एवं ब्रुवन्तं गाङ्गेयमभिवाद्य प्रसाद्य च। राधेयो रथमारुह्य प्रायात्तव सुतं प्रति ॥६-११७-३४॥