06.116
Pancharatra and Core: The next morning, Arjuna creates a continuous spring to provide water to Bhishma, who advises both sides to cease hostilities.
सञ्जय उवाच॥
व्युष्टायां तु महाराज रजन्यां सर्वपार्थिवाः। पाण्डवा धार्तराष्ट्राश्च अभिजग्मुः पितामहम् ॥६-११६-१॥
तं वीरशयने वीरं शयानं कुरुसत्तमम्। अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम् ॥६-११६-२॥
कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः। स्त्रियो बालास्तथा वृद्धाः प्रेक्षकाश्च पृथग्जनाः ॥ समभ्ययुः शान्तनवं भूतानीव तमोनुदम् ॥६-११६-३॥
तूर्याणि गणिका वारास्तथैव नटनर्तकाः। उपानृत्यञ्जगुश्चैव वृद्धं कुरुपितामहम् ॥६-११६-४॥
उपारम्य च युद्धेभ्यः संनाहान्विप्रमुच्य च। आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः ॥६-११६-५॥
अन्वासत दुराधर्षं देवव्रतमरिंदमम्। अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः ॥६-११६-६॥
सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता। शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम् ॥६-११६-७॥
विबभौ च नृपाणां सा पितामहमुपासताम्। देवानामिव देवेशं पितामहमुपासताम् ॥६-११६-८॥
भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ। अभितप्तः शरैश्चैव नातिहृष्टमनाब्रवीत् ॥६-११६-९॥
शराभितप्तकायोऽहं शरसन्तापमूर्छितः। पानीयमभिकाङ्क्षेऽहं राज्ञस्तान्प्रत्यभाषत ॥६-११६-१०॥
ततस्ते क्षत्रिया राजन्समाजह्रुः समन्ततः। भक्ष्यानुच्चावचांस्तत्र वारिकुम्भांश्च शीतलान् ॥६-११६-११॥
उपनीतं च तद्दृष्ट्वा भीष्मः शान्तनवोऽब्रवीत्। नाद्य तात मया शक्यं भोगान्कांश्चन मानुषान् ॥६-११६-१२॥
उपभोक्तुं मनुष्येभ्यः शरशय्यागतो ह्यहम्। प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः ॥६-११६-१३॥
एवमुक्त्वा शान्तनवो दीनवाक्सर्वपार्थिवान्। धनञ्जयं महाबाहुमभ्यभाषत भारत ॥६-११६-१४॥
अथोपेत्य महाबाहुरभिवाद्य पितामहम्। अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत् ॥६-११६-१५॥
तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम्। अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनञ्जयम् ॥६-११६-१६॥
दह्यतेऽदः शरीरं मे संस्यूतोऽस्मि महेषुभिः। मर्माणि परिदूयन्ते वदनं मम शुष्यति ॥६-११६-१७॥
ह्लादनार्थं शरीरस्य प्रयच्छापो ममार्जुन। त्वं हि शक्तो महेष्वास दातुमम्भो यथाविधि ॥६-११६-१८॥
अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान्। अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः ॥६-११६-१९॥
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः। वित्रेसुः सर्वभूतानि श्रुत्वा सर्वे च पार्थिवाः ॥६-११६-२०॥
ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः। शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम् ॥६-११६-२१॥
सन्धाय च शरं दीप्तमभिमन्त्र्य महायशाः। पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः ॥ अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे ॥६-११६-२२॥
उत्पपात ततो धारा विमला वारिणः शिवा। शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च ॥६-११६-२३॥
अतर्पयत्ततः पार्थः शीतया वारिधारया। भीष्मं कुरूणामृषभं दिव्यकर्मपराक्रमः ॥६-११६-२४॥
कर्मणा तेन पार्थस्य शक्रष्येव विकुर्वतः। विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः ॥६-११६-२५॥
तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषमद्भुतम्। सम्प्रावेपन्त कुरवो गावः शीतार्दिता इव ॥६-११६-२६॥
विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः। शङ्खदुन्दुभिनिर्घोषैस्तुमुलं सर्वतोऽभवत् ॥६-११६-२७॥
तृप्तः शान्तनवश्चापि राजन्बीभत्सुमब्रवीत्। सर्वपार्थिववीराणां संनिधौ पूजयन्निव ॥६-११६-२८॥
नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन। कथितो नारदेनासि पूर्वर्षिरमितद्युतिः ॥६-११६-२९॥
वासुदेवसहायस्त्वं महत्कर्म करिष्यसि। यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम् ॥६-११६-३०॥
विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः। धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु ॥६-११६-३१॥
मनुष्या जगति श्रेष्ठाः पक्षिणां गरुडो वरः। सरसां सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ॥६-११६-३२॥
आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः। जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनाम् ॥६-११६-३३॥
न वै श्रुतं धार्तराष्ट्रेण वाक्यं; सम्बोध्यमानं विदुरेण चैव। द्रोणेन रामेण जनार्दनेन; मुहुर्मुहुः सञ्जयेनापि चोक्तम् ॥६-११६-३४॥
परीतबुद्धिर्हि विसञ्ज्ञकल्पो; दुर्योधनो नाभ्यनन्दद्वचो मे। स शेष्यते वै निहतश्चिराय; शास्त्रातिगो भीमबलाभिभूतः ॥६-११६-३५॥
ततः श्रुत्वा तद्वचः कौरवेन्द्रो; दुर्योधनो दीनमना बभूव। तमब्रवीच्छान्तनवोऽभिवीक्ष्य; निबोध राजन्भव वीतमन्युः ॥६-११६-३६॥
दृष्टं दुर्योधनेदं ते यथा पार्थेन धीमता। जलस्य धारा जनिता शीतस्यामृतगन्धिनः ॥ एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते ॥६-११६-३७॥
आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम्। ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः ॥ धातुस्त्वष्टुश्च सवितुर्दिव्यान्यस्त्राणि सर्वशः ॥६-११६-३८॥
सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनञ्जयः। कृष्णो वा देवकीपुत्रो नान्यो वै वेद कश्चन ॥ न शक्याः पाण्डवास्तात युद्धे जेतुं कथञ्चन ॥६-११६-३९॥
अमानुषाणि कर्माणि यस्यैतानि महात्मनः। तेन सत्त्ववता सङ्ख्ये शूरेणाहवशोभिना ॥ कृतिना समरे राजन्सन्धिस्ते तात युज्यताम् ॥६-११६-४०॥
यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसंसदि। तावत्पार्थेन शूरेण सन्धिस्ते तात युज्यताम् ॥६-११६-४१॥
यावच्चमूं न ते शेषां शरैः संनतपर्वभिः। नाशयत्यर्जुनस्तावत्सन्धिस्ते तात युज्यताम् ॥६-११६-४२॥
यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः। नृपाश्च बहवो राजंस्तावत्सन्धिः प्रयुज्यताम् ॥६-११६-४३॥
न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम्। युधिष्ठिरो हि तावद्वै सन्धिस्ते तात युज्यताम् ॥६-११६-४४॥
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः। यावच्चमूं महाराज नाशयन्ति न सर्वशः ॥ तावत्ते पाण्डवैः सार्धं सौभ्रात्रं तात रोचताम् ॥६-११६-४५॥
युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः। एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयानघ ॥ एतत्क्षेममहं मन्ये तव चैव कुलस्य च ॥६-११६-४६॥
त्यक्त्वा मन्युमुपशाम्यस्व पार्थैः; पर्याप्तमेतद्यत्कृतं फल्गुनेन। भीष्मस्यान्तादस्तु वः सौहृदं वा; सम्प्रश्लेषः साधु राजन्प्रसीद ॥६-११६-४७॥
राज्यस्यार्धं दीयतां पाण्डवाना; मिन्द्रप्रस्थं धर्मराजोऽनुशास्तु। मा मित्रध्रुक्पार्थिवानां जघन्यः; पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र ॥६-११६-४८॥
ममावसानाच्छान्तिरस्तु प्रजानां; सङ्गच्छन्तां पार्थिवाः प्रीतिमन्तः। पिता पुत्रं मातुलं भागिनेयो; भ्राता चैव भ्रातरं प्रैतु राजन् ॥६-११६-४९॥
न चेदेवं प्राप्तकालं वचो मे; मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या। भीष्मस्यान्तादेतदन्ताः स्थ सर्वे; सत्यामेतां भारतीमीरयामि ॥६-११६-५०॥
एतद्वाक्यं सौहृदादापगेयो; मध्ये राज्ञां भारतं श्रावयित्वा। तूष्णीमासीच्छल्यसन्तप्तमर्मा; यत्वात्मानं वेदनां संनिगृह्य ॥६-११६-५१॥