07.001
Pancharatra and Core: In the absence of Bhishma, the Kauravas turn to Karna for his valour.
जनमेजय उवाच॥
तमप्रतिमसत्त्वौजोबलवीर्यपराक्रमम्। हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना ॥७-१-१॥
धृतराष्ट्रस्तदा राजा शोकव्याकुलचेतनः। किमचेष्टत विप्रर्षे हते पितरि वीर्यवान् ॥७-१-२॥
तस्य पुत्रो हि भगवन्भीष्मद्रोणमुखै रथैः। पराजित्य महेष्वासान्पाण्डवान्राज्यमिच्छति ॥७-१-३॥
तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम्। यदचेष्टत कौरव्यस्तन्मे ब्रूहि द्विजोत्तम ॥७-१-४॥
वैशम्पायन उवाच॥
निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः। लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः ॥७-१-५॥
तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत्। आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा ॥७-१-६॥
शिबिरात्सञ्जयं प्राप्तं निशि नागाह्वयं पुरम्। आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत ॥७-१-७॥
श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम्। पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा ॥७-१-८॥
धृतराष्ट्र उवाच॥
संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम्। किमकार्षुः परं तात कुरवः कालचोदिताः ॥७-१-९॥
तस्मिन्विनिहते शूरे दुराधर्षे महौजसि। किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे ॥७-१-१०॥
तदुदीर्णं महत्सैन्यं त्रैलोक्यस्यापि सञ्जय। भयमुत्पादयेत्तीव्रं पाण्डवानां महात्मनाम् ॥७-१-११॥
देवव्रते तु निहते कुरूणामृषभे तदा। यदकार्षुर्नृपतयस्तन्ममाचक्ष्व सञ्जय ॥७-१-१२॥
सञ्जय उवाच॥
शृणु राजन्नेकमना वचनं ब्रुवतो मम। यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे ॥७-१-१३॥
निहते तु तदा भीष्मे राजन्सत्यपराक्रमे। तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक् ॥७-१-१४॥
विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशाम्य ते। स्वधर्मं निन्दमानाश्च प्रणिपत्य महात्मने ॥७-१-१५॥
शयनं कल्पयामासुर्भीष्मायामिततेजसे। सोपधानं नरव्याघ्र शरैः संनतपर्वभिः ॥७-१-१६॥
विधाय रक्षां भीष्माय समाभाष्य परस्परम्। अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम् ॥७-१-१७॥
क्रोधसंरक्तनयनाः समवेक्ष्य परस्परम्। पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः ॥७-१-१८॥
ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः। तावकानामनीकानि परेषां चापि निर्ययुः ॥७-१-१९॥
व्यावृत्तेऽहनि राजेन्द्र पतिते जाह्नवीसुते। अमर्षवशमापन्नाः कालोपहतचेतसः ॥७-१-२०॥
अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः। निर्ययुर्भरतश्रेष्ठाः शस्त्राण्यादाय सर्वशः ॥७-१-२१॥
मोहात्तव सपुत्रस्य वधाच्छान्तनवस्य च। कौरव्या मृत्युसाद्भूताः सहिताः सर्वराजभिः ॥७-१-२२॥
अजावय इवागोपा वने श्वापदसङ्कुले। भृशमुद्विग्नमनसो हीना देवव्रतेन ते ॥७-१-२३॥
पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी। द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना ॥७-१-२४॥
विपन्नसस्येव मही वाक्चैवासंस्कृता यथा। आसुरीव यथा सेना निगृहीते पुरा बलौ ॥७-१-२५॥
विधवेव वरारोहा शुष्कतोयेव निम्नगा। वृकैरिव वने रुद्धा पृषती हतयूथपा ॥७-१-२६॥
स्वाधर्षा हतसिंहेव महती गिरिकन्दरा। भारती भरतश्रेष्ठ पतिते जाह्नवीसुते ॥७-१-२७॥
विष्वग्वातहता रुग्णा नौरिवासीन्महार्णवे। बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता ॥७-१-२८॥
सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा। विषण्णभूयिष्ठनरा कृपणा द्रष्टुमाबभौ ॥७-१-२९॥
तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः। पाताल इव मज्जन्तो हीना देवव्रतेन ते ॥ कर्णं हि कुरवोऽस्मार्षुः स हि देवव्रतोपमः ॥७-१-३०॥
सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम्। बन्धुमापद्गतस्येव तमेवोपागमन्मनः ॥७-१-३१॥
चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः। राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम् ॥७-१-३२॥
स हि नायुध्यत तदा दशाहानि महायशाः। सामात्यबन्धुः कर्णो वै तमाह्वयत माचिरम् ॥७-१-३३॥
भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः। रथेषु गण्यमानेषु बलविक्रमशालिषु ॥ सङ्ख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः ॥७-१-३४॥
रथातिरथसङ्ख्यायां योऽग्रणीः शूरसंमतः। पितृवित्ताम्बुदेवेशानपि यो योद्धुमुत्सहेत् ॥७-१-३५॥
स तु तेनैव कोपेन राजन्गाङ्गेयमुक्तवान्। त्वयि जीवति कौरव्य नाहं योत्स्ये कथञ्चन ॥७-१-३६॥
त्वया तु पाण्डवेयेषु निहतेषु महामृधे। दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव ॥७-१-३७॥
पाण्डवैर्वा हते भीष्मे त्वयि स्वर्गमुपेयुषि। हन्तास्म्येकरथेनैव कृत्स्नान्यान्मन्यसे रथान् ॥७-१-३८॥
एवमुक्त्वा महाराज दशाहानि महायशाः। नायुध्यत ततः कर्णः पुत्रस्य तव संमते ॥७-१-३९॥
भीष्मः समरविक्रान्तः पाण्डवेयस्य पार्थिव। जघान समरे योधानसङ्ख्येयपराक्रमः ॥७-१-४०॥
तस्मिंस्तु निहते शूरे सत्यसन्धे महौजसि। त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम् ॥७-१-४१॥
तावकास्तव पुत्राश्च सहिताः सर्वराजभिः। हा कर्ण इति चाक्रन्दन्कालोऽयमिति चाब्रुवन् ॥७-१-४२॥
जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम्। अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव ॥७-१-४३॥
स हि शक्तो रणे राजंस्त्रातुमस्मान्महाभयात्। त्रिदशानिव गोविन्दः सततं सुमहाभयात् ॥७-१-४४॥
वैशम्पायन उवाच॥
तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः। आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम् ॥७-१-४५॥
यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा। अप्यपश्यत राधेयं सूतपुत्रं तनुत्यजम् ॥७-१-४६॥
अपि तन्न मृषाकार्षीद्युधि सत्यपराक्रमः। सम्भ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम् ॥७-१-४७॥
अपि तत्पूरयां चक्रे धनुर्धरवरो युधि। यत्तद्विनिहते भीष्मे कौरवाणामपावृतम् ॥७-१-४८॥
तत्खण्डं पूरयामास परेषामादधद्भयम्। कृतवान्मम पुत्राणां जयाशां सफलामपि ॥७-१-४९॥